Page loading... Please wait.
5|2|25 - पक्षात्तिः
॥ तस्मै पाणिनये नमः ॥
5|2|25
SK 1826
पक्षात्तिः   🔊
सूत्रच्छेदः
पक्षात् (पञ्चम्येकवचनम्) , तिः (प्रथमैकवचनम्)
अनुवृत्तिः
मूले  5|2|24 (सप्तम्येकवचनम्) , तस्य  5|2|24 (षष्ठ्येकवचनम्)
अधिकारः
प्रत्ययः  3|1|1 परश्च  3|1|2 आद्युदात्तश्च  3|1|3 ङ्याप्प्रातिपदिकात्  4|1|1 तद्धिताः  4|1|76 समर्थानां प्रथमाद्वा  4|1|82
सम्पूर्णसूत्रम्
"तस्य मूले" (इति) पक्षात् तिः
सूत्रार्थः
"मूल" इत्यस्मिन् अर्थे "पक्ष" शब्दात् "ति"प्रत्ययः भवति ।
"मूल" (प्रारम्भस्थानम् / origin / base) अस्मिन् अर्थे "पक्ष" शब्दात् "ति" प्रत्ययं कृत्वा "पक्षति" इति तद्धितान्तरूपम् सिद्ध्यति । पक्षस्य मूलम् पक्षतिः ।

विशेषः - "पक्ष" इत्यस्य द्वौ अर्थौ स्तः - "पञ्चदशानां दिनानां समूहः - यथा शुक्लपक्षः / कृष्णपक्षः आदयः", तथा "पक्षिणाम् उड्डयने प्रयुक्तः अवयवः (wings)" । एतयोः द्वयोः अपि अर्थयोः "पक्षति" शब्दस्य प्रयोगः भवति । यथा -
[अ] शुक्लपक्षस्य मूलम् (प्रथमदिनम्) पक्षतिः प्रतिपद् । (The first day of a fortnight).
[आ] काकस्य पक्षस्य मूलम् पक्षतिः । (The base of a wing).
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
तस्य इत्येव। तस्य इति षष्ठीसमर्थात् पक्षशब्दात् मूले ऽभिधेये तिः प्रत्ययो भवति। मूलग्रहणम् अनुवर्तते, न पाक्षग्रहणम्। एकयोगनिर्दिष्टानाम् अप्येकदेशो ऽनुवर्तते इति। पक्षस्य मूलं पक्षतिः प्रतिपत्।
`एकयोगनिर्दिष्टानाम्` इति। स्वरितत्वेनादिशब्दानामनुवृत्तिर्भवति। स्वरितत्वप्रतिज्ञाप्रतिबद्धत्वात्। एकयोगनिर्दिष्टानामपि यत्र प्रतिज्ञायते स्वरितत्वं तत्रैव भवति, नान्यत्र। तेनैकयोगनिर्दिष्टनामप्येकदेशस्यानुवृत्तिरुपपद्यते॥
एकयोगशिष्टानामपि शब्दानां शब्दादिकारपक्षे यस्यैव शब्दस्य स्वरितत्वं प्रतिज्ञायते, तस्यैवानुवृत्तिर्भवति। तथा च ठ्दामहायनान्ताच्चऽ इत्यत्र सङ्घया हणमनुवर्तते, नाव्ययग्रहणम्। अर्थाधिकारपक्षे तु युगपदन्योऽन्यार्थाभिधायिनां द्वन्द्वविधानाद् द्वन्द्वार्थविच्छेदान्न स्यादेकदेशानुवृत्तिः। पक्षस्य मूलं पक्षतिःउप्रतिपदि, पक्षिणश्च पक्षमूले प्रयुज्यते ॥
सिद्धान्तकौमुदी
मूलग्रहणमात्रमनुवर्तते । पक्षस्य मूलं पक्षतिः ॥
पक्षात्तिः - पक्षात्तिः । मूलग्रहणमात्रमिति । पूर्वसूत्रे पाकमूल इति समासनिर्दिष्टत्वेऽप्येकदेशे स्वरितत्वप्रतिज्ञानादिति भावः । तस्येत्यप्यनुवर्तते । पक्षशब्दात् षष्ठन्तान्मूलेर्थे तिप्रत्ययः स्यादित्यर्थः ।
पक्षात्तिः - पक्षतिरिति । प्रतिवत्, पक्षिणां, पक्षमूलं च ।
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
पक्षात्तिः (2043) (तिप्रत्ययाधिकरणम्) (एकदेशिन उपसंख्यानभाष्यम्) मूले इति वक्तव्यम्। पक्षस्य मूलं पक्षतिः। तत्तर्हि वक्तव्यम्।। (उपसंख्यानानर्थक्यबोधकभाष्यम्) न वक्तव्यम्। मूले इति वर्तते। क्व प्रकृतम्? तस्य पाकमूले पील्वादिकर्णादिभ्यः कुणब्डाहचौ (5।2।24) इति। यदि तदनुवर्तते, पाकेऽपि प्राप्नोति। मूल इत्यनुवर्तते, पाक इति निवृत्तम्। कथं पुनरेकयोगनिर्दिष्टयोरेकदेशोऽनुवर्तेत, एकदेशो वा निवर्तेत। एकयोगनिर्दिष्टानामप्येकदेशानुवृत्तिर्भवति। तद्यथा ‐ संखायव्ययादेर्ङीप् (4।1।26) दामहायनान्ताच्च (27) संख्यादेरित्यनुवर्तते, अव्ययादेरिति निवृत्तम्।।