Page loading... Please wait.
5|2|24 - तस्य पाकमूले पील्वादिकर्णादिभ्यः कुणब्जाहचौ
॥ तस्मै पाणिनये नमः ॥
5|2|24
SK 1825
तस्य पाकमूले पील्वादिकर्णादिभ्यः कुणब्जाहचौ   🔊
सूत्रच्छेदः
तस्य (षष्ठ्येकवचनम्) , पाकमूले (सप्तम्येकवचनम्) , पील्वादि-कर्णादिभ्यः (पञ्चमीबहुवचनम्) , कुणप्-जाहचौ (प्रथमाद्विवचनम्)
अनुवृत्तिः
-
अधिकारः
प्रत्ययः  3|1|1 परश्च  3|1|2 आद्युदात्तश्च  3|1|3 ङ्याप्प्रातिपदिकात्  4|1|1 तद्धिताः  4|1|76 समर्थानां प्रथमाद्वा  4|1|82
सम्पूर्णसूत्रम्
"तस्य पाक-मूले" (इति) पील्वादि-कर्णादिभ्यः कुणप्-जाहचौ
सूत्रार्थः
"पाकः" अस्मिन् अर्थे पील्वादिगणस्य शब्देभ्यः षष्ठीसमर्थेभ्यः "कुणप्" प्रत्ययः ; तथा च "मूलम्" अस्मिन् अर्थे कर्णादिगणस्य शब्देभ्यः षष्ठीसमर्थेभ्यः जाहच्-प्रत्ययः भवति ।
अस्मिन् सूत्रे द्वौ अर्थौ, द्वौ गणौ तथा द्वौ प्रत्ययौ उच्येते, येषाम् विषये सर्वत्र "यथासङ्ख्यत्वम्" इष्यते । इत्युक्ते, द्वे भिन्ने सूत्रे एकत्रीकृत्य अत्र स्थापिते स्तः । क्रमेण पश्यामः ।

1) "तस्य पाके पील्वादिभ्यः कुणप्" - इति प्रथमम् सूत्रम् । "पाकः" (= पक्वता / परिवर्तनम् । some kind of transformation, like "ripening" etc.) अस्मिन् अर्थे पील्वादिगणस्य शब्देभ्यः षष्ठीसमर्थेभ्यः "कुणप्" इति प्रत्ययः भवति ।
पीलादिगणे वृक्षाणाम् नामानि विद्यन्ते । पीलादिगणः अयम् - पीलु, कर्कन्धु, शमी, करीर, कुवल, बदर, अश्वत्थ, खदिर ।
यथा -
अ) पीलूनाम् पाकः = पीलु + कुणप् = पीलुकुण ।
आ) कर्कन्धूनाम् पाकः = कर्कन्धु + कुणम् = कर्कन्धुकुण ।

2) "तस्य मूले कर्णादिभ्यः जाहच्" - इदि द्वितीयम् सूत्रम् । "मूलम्" (प्रारम्भस्थानम् / origin / base) अस्मिन् अर्थे कर्णादिगणस्य शब्देभ्यः षष्ठीसमर्थेभ्यः "जाहच्" इति प्रत्ययः भवति ।
कर्णादिगणे शरीरावयवानाम् नामानि विद्यन्ते । कर्णादिगणः अयम् - कर्ण, अक्षि, नख, मुख, केश, पाद, गुल्फ, भ्रू, श्रृङ्ग, दन्त, ओष्ठ, पृष्ठ, अङ्गुष्ठ ।

यथा -
अ) कर्णस्य मूलम् = कर्ण + जाहच् → कर्णजाह ।
आ) अक्ष्णः मूलम् = अक्षि + जाहच् → अक्षिजाह ।

विशेषः - जाहच्-प्रत्यये वस्तुतः चुटू 1|3|7 इत्यनेन जकारस्य इत्संज्ञा विधीयते, परन्तु तद्धितप्रत्ययेषु जकारस्य इत्संज्ञायाः किमपि प्रयोजनम् न वर्तते । अतः अत्र जकारस्य इत्संज्ञा न भवति । (तद्धितप्रत्ययानां विषये इत्संज्ञकवर्णानां प्रयोजनानि अत्र द्रष्टुं शक्यन्ते ।)
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
तस्य इति षष्ठीसमर्थेभ्यः पील्वादिभ्यः कर्णादिभ्यश्च यथासङ्ख्यं पाकमूलयोरर्थयोः कुणप् जाहचित्येतौ प्रत्ययौ भवतः। पीलूनां पाकः पीलुकुणः। कर्कन्धुकुणः। कर्णादिभ्यः कर्णस्य मूलं कर्णजाहम्। पीलु। कर्कन्धु। शमी। करीर। कुवल। बदर। अश्वत्थ। खदिर। पील्वादिः। कर्ण। अक्षि। नख। मुख। मख। केश। पाद। गुल्फ। भ्रूभङ्ग। दन्त। ओष्ठ। पृष्ठ। अङ्गुष्ठ। कर्णादिः।
अणोऽपवादौ। `तस्येदम्` 4|3|120 इत्यणि प्राप्ते कुणबदयो विधीयन्ते। जकारस्य प्रयोजनाभावात्? `धुटू` 1|3|7 इतीत्संज्ञा न भवति॥
पाकःउपरिणामः, मूलःऊपक्रमः। ठ्तस्येदम्ऽ इत्यणादिषु प्राप्तेष्वयमारम्भः, जकारस्य प्रयोजनाभावादित्संज्ञाभावः ॥
सिद्धान्तकौमुदी
पीलूनां पाकः पालुकुणः । कर्णस्य मूलं कर्णजाहम् ॥
तस्य पाकमूले पील्वदिकर्णादिभ्यः कुणब्जाहचौ - तस्य पाफमूले । "पाकमूले" इति समाहारद्वन्द्वात्सप्तमी । पाकः=परिणामः । षष्ठन्तेभ्यः पील्वादिभ्यः पाकेऽर्थे कुणप् । कर्णादिभ्यस्तु मूलेऽर्थे जाहजित्यर्थः । कुणपस्तद्धितत्वात्ककारस्य नेत्संज्ञा । जाहचस्तु जकारस्य प्रयोजनाऽभावान्नेत्संज्ञा ।
तस्य पाकमूले पील्वदिकर्णादिभ्यः कुणब्जाहचौ - तस्य पाक । पाकः=परिणामः । मूलम् — उपक्रमः ।तस्येद॑मित्यणादिषु प्राप्तेष्वयमारम्भः । जाहचो जकारस्य प्रयोजनाऽभावान्नेत्वम् । पीलु, कर्कन्धु,शमी, करीर, कुवल, बदर, [अआथ] थदिर — पील्वादिः । कर्ण, अक्षि, नख, मुख,केश, पाद,गुल्फ, भ्रू, श्रृङ्ग, दन्त, ओष्ठ, पृष्ठ, — -कर्णादिः ।मूलग्रहणमात्रमिति । एकादेशे स्वरितत्वप्रतिज्ञानादिति भावः ।
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
Text Unavailable. Please use feedback link below to provide the text if you have.