Page loading... Please wait.
5|2|22 - साप्तपदीनं सख्यम्
॥ तस्मै पाणिनये नमः ॥
5|2|22
SK 1823
साप्तपदीनं सख्यम्   🔊
सूत्रच्छेदः
साप्तपदीनम् (प्रथमैकवचनम्) , सख्यम् (प्रथमैकवचनम्)
अनुवृत्तिः
-
अधिकारः
प्रत्ययः  3|1|1 परश्च  3|1|2 आद्युदात्तश्च  3|1|3 ङ्याप्प्रातिपदिकात्  4|1|1 तद्धिताः  4|1|76 समर्थानां प्रथमाद्वा  4|1|82
सम्पूर्णसूत्रम्
साप्तपदीनम् (इति) सख्यम् (अस्मिन् अर्थे निपात्यते)
सूत्रार्थः
"सख्यम्" अस्मिन् अर्थे "साप्तपदीन" शब्दः निपात्यते ।
अनेन सूत्रेण "सख्यम्" (= मित्रत्वम् / मित्रता) अस्मिन् अर्थे "साप्तपदीन" अयम् शब्दः निपात्यते । "सप्तभिः पदैः अवाप्यते" अस्मिन् अर्थे "सप्तपद" शब्दात् खञ्-प्रत्ययं कृत्वा "साप्तपदीन" अयम् शब्दः सिद्ध्यति । अत्र "सप्त पदानि" इत्यस्य अर्थः "सुखदुःखादयः भिन्नाः अवस्थाः" इति स्वीक्रियते । The role / duty by virtue of which the people help each other during various situation occurring in ones life - is called साप्तपदीनम् ।

विशेषः - "साप्तपदीन" अस्य शब्दस्य प्रयोगः "मित्रम्" / "सखा" अस्मिन् अर्थे अपि भवति । यथा - "साप्तपदीनः सखा" । अत्र "लक्षणा"-अर्थेन (implied meaning) अस्य शब्दस्य प्रयोगः भवति । इत्युक्ते, "अयम् सखा साप्तपदीनः अस्ति" इत्युक्ते "अस्य सख्युः भावः साप्तपदीनम् अस्ति" इति अर्थः स्वीक्रियते ।
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
साप्तपदीनम् इति निपात्यते सख्ये ऽभिधेये। सप्तभिः पदैरवाप्यते साप्तपदीनम्। सख्यं जनाः साप्तपदीनम् आहुः। कथं साप्तपदीनः सखा, साप्तपदीनं मित्रम् इति? यदा गुणप्रधानः साप्तपदीनशब्दः सखिभावे तत्कर्मणि च वर्तते तदा सख्यशब्देन सामानाधिकरण्यं भवति, यदा तु लक्षणया वर्तते तदा पुरुषेण सामानाधिकरण्यं भवति।
`साप्तपदीनमिति निपात्यते` इति। किं पुनरत्र निपात्यते? प्रत्ययः प्रत्ययार्थश्च प्रकृतः। खञ्प्रत्ययार्थश्चावाप्तिः। सप्तभिः पदैरवाप्यत इति तद्धितार्थे समासः। ततः सप्तपदशब्दात्खञ्।`कथम्` इत्यादि। सख्युभविः कर्म वा सख्याम्। तत्र यदि साप्तपदीनमिति निपत्यते, सखिशब्देन सामानादिकरण्यं न प्राप्नोति, न हि सख्यमेव सखा भवतीति प्रष्टुरभिप्रायः। `गुणप्रधानः` इत्यादि। गुणो भावः कर्म वा प्रधानं यस्य स तथोक्तः। स यदा च गुणमात्रे मुख्यया वृत्त्या वत्र्तते तदा गुणप्रधानो वेदितव्यः। `तदा सख्यशब्देन सामानाधिकरण्यं भवति` इति। द्वयोरप्येकार्थवृत्तित्वात्। `यदा तु` इत्यादि। लक्षणा उपचारः। धर्मधर्मिणोरभेनोपचारेण गौण्या वृत्त्या तद्धिति संख्यावति पुरुषे वत्र्तते तदानेनैव समानाधिकरणो भवति। यथा यदा शुक्लशब्दो गुणमात्रे वत्र्तते तदा द्रव्यशब्देन समानाधिकरणो न भवति--पटस्य शुक्ल इति, यदा त्वसौ त्वमित्यभिसम्बन्धात्? पटे वत्र्तते तदा सामानाधिकरण्यं भवति--शुक्लः पद इति; तथेहापि वेदितव्यम्॥
साप्तपदीनमिति निपात्यत इति। किं पुनरत्र निपात्यते ? समर्थविभक्तिस्तृतीया। अवाप्यत इति प्रत्ययार्थः, सप्तभिः पदैरवाप्यत इति तद्वितार्थे द्विगुः समासः, सप्तपदशब्दात्खञ्। कथमिति। सख्युर्भावः कर्म वा सख्यम्, तत्र व्युत्पादितस्य न सखिशब्देन प्रश्नः, उपचारेणेत्युतरम्, गुणप्रधान इति। गुणो भावः, कर्म च भावः, प्रवृत्तिनिमितत्वाद्गुणः। यस्य हि गुणस्य भावादिति कर्माणि हि सख्यशब्दवाच्यत्वाद्गुण इत्युक्तम् ॥
सिद्धान्तकौमुदी
सप्तभिः पदैरवाप्यते साप्तपदीनम् ॥
साप्तपदीनं सख्यम् - साप्तपदीनम् । सप्तपदशब्दात्तृतीयान्तादवाप्यं सख्यमित्यर्थे खञि साप्तपदीनमिति भवतीत्यर्थः । सप्तभिः पदैरिति । पदविक्षेपैरित्यर्थः ।
साप्तपदीनं सख्यम् - साप्तपदीनम् । योग्यतया समर्थविभक्तिस्तृतीयेति दर्शयति — -सप्तभिः पदैरिति । पदमिह संभाषणं पादवक्षेपो वा तद्धितार्थे द्विगुः । अवाप्यतैत्यर्थे खञ् ।
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
Text Unavailable. Please use feedback link below to provide the text if you have.