Page loading... Please wait.
5|2|17 - अभ्यमित्राच्छ च
॥ तस्मै पाणिनये नमः ॥
5|2|17
SK 1818
अभ्यमित्राच्छ च   🔊
सूत्रच्छेदः
अभ्यमित्रात् (पञ्चम्येकवचनम्) , छ (लुप्तप्रथमान्तनिर्देशः)(अव्ययम्)
अनुवृत्तिः
तत्  5|2|7 (द्वितीयैकवचनम्) , अलंगामी  5|2|15 (प्रथमैकवचनम्) , यत्खौ  5|2|16 (प्रथमाद्विवचनम्)
अधिकारः
प्रत्ययः  3|1|1 परश्च  3|1|2 आद्युदात्तश्च  3|1|3 ङ्याप्प्रातिपदिकात्  4|1|1 तद्धिताः  4|1|76 समर्थानां प्रथमाद्वा  4|1|82
सम्पूर्णसूत्रम्
"तत् अलङ्गामी" (इति) अभ्यमित्रात् यत्खौ छः च
सूत्रार्थः
"पर्याप्तम् गच्छति" अस्मिन् अर्थे द्वितीयासमर्थात् "अभ्यमित्र" शब्दात् यत्, खः, छः - एते प्रत्ययाः भवति ।
"अभ्यमित्रम्" इति किञ्चन अव्ययम् ।"अमित्रस्य सम्मुखम्" (facing an enemy) अस्मिन् अर्थे "अभि" अव्ययेन सह "अमित्र" शब्दस्य अव्ययीभावसमासं कृत्वा "अभ्यमित्रम्" इति शब्दः सिद्ध्यति । अस्मात् शब्दात् "अलम् गच्छति" अस्मिन् अर्थे यत्,खः, छः - एते प्रत्ययाः विधीयन्ते ।

"अभ्यमित्रम् अलम् गच्छति" इत्युक्ते "अमित्रस्य (= शत्रोः) सम्मुखम् पर्याप्तरूपेण गच्छति" । appropriately faces an enemy - इति आशयः ।

रूपाणि एतादृशानि -
1. अभ्यमित्र + यत् → अभ्यमित्र्य ।
2. अभ्यमित्र + ख → अभ्यमित्रीण ।
3. अभ्यमित्र + छ → अभ्यमित्रीय ।

अभ्यमित्रम् अलङ्गामी सः अभ्यमित्र्यः, अभ्यमित्रीणः, अभ्यमित्रीयः वा ।

विशेषः - वस्तुतः "अभ्यमित्रम्" इति अव्ययम् अस्ति । परन्तु अस्मिन् सूत्रे क्रियाविशेषणरूपेण अस्य प्रयोगः भवति, अतः अत्र "द्वितीयासमर्थात्" इति निर्देशः क्रियते । मूलरूपेण अत्र "अभ्यमित्र" इति प्रातिपदिकम् । अस्मात् शब्दात् द्वितीया-एकवचनस्य अम्-प्रत्यये कृते अव्ययादाप्सुपः 2|4|82 इत्यनेन तस्य लोपे प्राप्ते तं बाधित्वा नाव्ययीभावादतोऽम्त्वपञ्चम्याः 2|4|83 इत्यनेन अम्-प्रत्ययस्य "अम्" इत्येव आदेशं कृत्वा "अभ्यमित्रम्" इति रूपम् सिद्ध्यति ।
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
अभ्यमित्रशदात् द्वितीयासमर्थातलङ्गामी इत्यस्मिन्नर्थे छः प्रत्ययो भवति। चकाराद् यत्खौ च। अभ्यमित्रम् अलङ्गामी अभ्यमित्रीयः अभमित्र्यः, अभ्यमित्रीणः। अमित्राभिमुखं सुष्ठु गच्छति इत्यर्थः।
`अभ्यमित्रात्` इति। अमित्रस्याभिमुखमभ्यमित्रम्। `लक्षणेनाभिप्रती आभिमुख्ये` 2|1|13 इत्यव्ययीभावः। क्रियाविशेषणञ्चैतत्। तेन द्वितीयैव समर्थविभक्तर्भवति॥
अब्यचामित्रामिति। ठ्लक्षणेनाभिप्रती आभिमुख्येऽ इत्यव्ययीभावः, क्रियाविशेषणत्वात्कर्मणि द्वितीया ॥
सिद्धान्तकौमुदी
चाद्यत्खौ । अभ्यमित्रीयः । अभ्यमित्र्यः । अभ्यमित्रीणः । अमित्राभिमुखं सुष्ठु गच्छतीत्यर्थः ॥
अभ्यमित्राच्छ च - अब्यमित्राच्छ च । अमित्रः=शत्रुः । तमभिमुखो भूत्वेत्यर्थेलक्षणेनाभिप्रती आभिमुख्ये॑ इत्यव्ययीभावे अभ्यमित्रशब्दः । तस्मादलङ्गामीत्यर्थे छप्रत्ययः स्यादित्यर्थः ।
अभ्यमित्राच्छ च - अभ्यमित्रात् । अभ्यमित्रशब्दोलक्षणेनाभिप्रती आभिमुख्ये॑इत्यव्ययीबावः । क्रियाविशेषणत्वाद्द्वितीया समर्थविभक्तिः ।
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
Text Unavailable. Please use feedback link below to provide the text if you have.