Page loading... Please wait.
5|2|14 - आगवीनः
॥ तस्मै पाणिनये नमः ॥
5|2|14
SK 1815
आगवीनः   🔊
सूत्रच्छेदः
आगवीनः (प्रथमैकवचनम्)
अनुवृत्तिः
-
अधिकारः
प्रत्ययः  3|1|1 परश्च  3|1|2 आद्युदात्तश्च  3|1|3 ङ्याप्प्रातिपदिकात्  4|1|1 तद्धिताः  4|1|76 समर्थानां प्रथमाद्वा  4|1|82
सम्पूर्णसूत्रम्
"आगवीनः" (इति निपात्यते)
सूत्रार्थः
"यावत् गोप्रतिदानम् न क्रियते; तावत् कार्यम् करोति" अस्मिन् अर्थे "आगवीन"-शब्दः निपात्यते ।
अनेन सूत्रेण "आगवीनः" अस्य शब्दस्य निपातनम् क्रियते ।

किम् नाम आगवीनः ? यदि कश्चन निर्धनः कस्माच्चित् धनिकात् कांश्चन गाम् (धेनुम्) ऋणरूपेण स्वीकरोति ; तथा च यावत् सा गौः तस्मै धनिकाय न प्रत्यार्प्यते तावत् तस्य धनिकस्य भृत्यरूपेण कार्यम् करोति, तर्हि तादृशः भृत्यः "आगवीन" नाम्ना ज्ञायते । A person who takes a cow from someone on rent for a certain period, and serves the owner of the cow during that period is called आगवीन.

अनेन सूत्रेण "आगवीन" शब्दस्य निपातनम् एतादृशम् क्रियते -
1. "गोः मर्यादा" अस्मिन् अर्थे "आङ्" अव्ययेन सह "गो" शब्दस्य अव्ययीभावसमासम् कृत्वा प्रारम्भे "आगु" इति शब्दः सिद्ध्यति । अत्र "गो" शब्दः "गोप्रतिदानम्" (returning of a cow) अस्मिन् अर्थे प्रयुक्तः अस्ति इति भाष्ये स्पष्टीक्रियते ।
2. "आगु" अस्मात् शब्दात् "कर्म करोति" अस्मिन् अर्थे ख-प्रत्ययः निपात्यते । यः "गोप्रतिदानम् मर्यादारूपेण स्वीकृत्य कार्यम् करोति" (इत्युक्ते, यावत् गौः स्वसमीपे स्थापयति तावत् कार्यम् करोति") तस्य निर्देशार्थम् इदम् निपातनम् क्रियते ।
3. "ख" इत्यस्य आयनेयीनीयियः फढखच्छघां प्रत्ययादीनाम् 7|1|2 इत्यनेन "ईन" आदेशः भवति ।
3. "आगु + ईन" इत्यत्र ओर्गुणः 6|4|146 इत्यनेन गुणादेशं कृत्वा अग्रे एचोऽयवायावः 6|1|78 इति अवादेशं कृत्वा वर्णमेलने कृते "आगवीन" इति रूपम् सिद्ध्यति ।
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
आगवीनः इति निपात्यते। गोः आङ्पूर्वादा तस्य गोः प्रतिपादनात् कर्मकारिणि खः प्रत्ययो निपात्यते। आगवीनः कर्मकरः। यो गवा भृतः कर्म करोति आ तस्य गोः प्रत्यर्पणात्।
Text Unavailable. Please use feedback link below to provide the text if you have.
गोराङ्पूर्वादिति। गोशब्दान्तादाङ्पूर्वात्प्रातिपदिकादित्यर्थः। आ तस्य गोः प्रतिदानादिति। प्रतिदानमुप्रत्यर्पणम्। एतेन वृत्तिविषये गोशब्दो गोप्रतिदाने वर्तत इति दर्शयति। करिणीति। कृञ आवश्यके णिनिः। आगवीन इति। ठाङ् मर्यादाभिविध्योःऽ इत्यव्ययीभावे उपसर्जनह्रस्वत्वे च कृते खप्रत्ययः, ठोर्गुणःऽ ॥
सिद्धान्तकौमुदी
आङ् पूर्वाद्गोः कर्मकरे खप्रत्ययो निपात्यते । गोः प्रत्यर्पणपर्यन्तं यः कर्म करोति स आगवीनः ॥
आगवीनः - आगवीनः । कर्मकरे इति । वार्तिकलभ्यमिदम् । भृतिं गृहीत्वा यः कर्म करोति स — कर्मकरः । अत्र गोपालो विवक्षितः । स हि प्रातर्गां गृहीत्वा आसायं चारयित्वा स्वाभिनो गृहं नीत्वा प्रत्यर्पयति । तदाह — गोः प्रत्यर्पणेति । आगवीन इति । "गो" शब्दो गोप्रत्यर्पणे लाक्षणिकः ।आङ्मर्यादाभिविध्यो॑रित्यव्ययीभावेगोस्त्रियो॑रिति ह्यस्वत्वे, आगुशब्दात्खे "ओर्गुणः" इति भावः ।
आगवीनः - कर्मकतरे इति । यस्तु प्रातर्गा गृहीत्वा गच्छति गोपालस्तस्मिन्नित्यर्थः । गोः प्रत्यर्पणपर्यन्तमिति । गोशब्दो लक्षणया गोः प्रतिदाने वर्तते इति भाव । आगवीन इति ।आङ्भर्यादाभिविध्यो॑रित्यव्ययीभङावेगोस्त्रियो॑रिति ह्यस्वे कृतो खप्रत्ययः ।ओर्गुणः॑ ।
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
आगवीनः (2032) (निपातनजिज्ञासाभाष्यम्) आगवीन इति किं निपात्यते? (5709 निपातनार्थबोधकवार्तिकम्।। 1 ।।) - गोराङ्पूर्वादा तस्य गोः प्रतिदानात्कारिणि खः - (भाष्यम्) गोराङ्पूर्वात् आ तस्य गोः प्रतिदानात् कारिणि खो निपात्यते। आ तस्य गोः प्रतिदानात्कर्मकारी ‐ आगवीनः कर्मकरः।।