Page loading... Please wait.
5|2|132 - धर्मशीलवर्णान्ताच्च
॥ तस्मै पाणिनये नमः ॥
5|2|132
SK 1938
धर्मशीलवर्णान्ताच्च   🔊
सूत्रच्छेदः
धर्मशीलवर्णान्तात् (पञ्चम्येकवचनम्) , च (अव्ययम्)
अनुवृत्तिः
अस्मिन्  5|2|94 (प्रथमैकवचनम्) , इति  5|2|94 (अव्ययम्) , अस्ति  5|2|94 (क्रियापदम्) , अस्य  5|2|94 (षष्ठ्येकवचनम्) , तत्  5|2|94 (प्रथमैकवचनम्) , इनिः  5|2|128 (प्रथमैकवचनम्)
अधिकारः
प्रत्ययः  3|1|1 परश्च  3|1|2 आद्युदात्तश्च  3|1|3 ङ्याप्प्रातिपदिकात्  4|1|1 तद्धिताः  4|1|76 समर्थानां प्रथमाद्वा  4|1|82
सम्पूर्णसूत्रम्
"तत् अस्य, अस्मिन् अस्ति इति" (इति) धर्म-शील-वर्णान्तात् इनिः
सूत्रार्थः
"अस्य अस्ति" तथा "अस्मिन् अस्ति" एतयोः अर्थयोः धर्मान्तशब्देभ्यः शीलान्तशब्देभ्यः तथा वर्णान्तशब्देभ्यः प्रथमासमर्थेभ्यः "इनि" प्रत्ययः भवति ।
"अस्य अस्ति" तथा "अस्मिन् अस्ति" एतयोः अर्थयोः सर्वेभ्यः प्रातिपदिकेभ्यः तदस्यास्त्यस्मिन्निति मतुँप् 5|2|94 इत्यनेन औत्सर्गिकरूपेण मतुँप्-प्रत्ययः भवति । परन्तु यस्मिन् शब्दे "धर्म", "शील" तथा "वर्ण" (cast) एतेषु कश्चनशब्दः अन्ते विद्यते, तस्मात् शब्दात् मतुँप्-प्रत्ययं बाधित्वा वर्तमानसूत्रेण "इनि" प्रत्ययः विधीयते ।

यथा -
1. ब्राह्मणधर्मः अस्य अस्ति सः ब्राह्मणधर्मी ।
2. क्षत्रियशीलम् अस्य अस्ति सः क्षत्रियशीली ।
3. वैश्यवर्णः अस्य अस्ति सः वैश्यवर्णी ।

ज्ञातव्यम् - एतेभ्यः सर्वेभ्यः शब्देभ्यः "अस्य अस्ति" अस्मिन् अर्थे अत इनिठनौ 5|2|115 इत्यनेन मतुँप्, इनि, तथा ठन् प्रत्ययेषु प्राप्तेषु वर्तमानसूत्रेण पुनः "इनि" प्रत्ययः विधीयते, येन "मतुँप्" तथा "ठन्" प्रत्यययोः निषेधः भवति ।
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
अन्तःशब्दः प्रत्येकम् अभिसम्बध्यते। धर्माद्यन्तात् प्रातिपदिकातिनिः प्रत्ययो नियम्यते। ब्रह्मणानां धर्मो ब्राह्मणधर्मः, सो ऽस्य अस्ति इति ब्राह्मणधर्मी। ब्राह्मणशीली। ब्राह्मणवर्णी।
Text Unavailable. Please use feedback link below to provide the text if you have.
ब्राह्मणवर्णिति। ब्राह्मणानां वर्णःउजातिः, तद्वान् ब्राह्मणवर्णी ब्राह्मण एव ॥
सिद्धान्तकौमुदी
धर्माद्यन्तादिनिर्मत्वर्थे । ब्राह्मणधर्मी । ब्राह्मणशीली । ब्राह्मणवर्णी ॥
धर्मशीलवर्णान्ताच्च - धर्मशील । धर्माद्यन्तादिति । धर्म, शील, वर्ण — एतदन्तादिनिरेवेत्यर्थः ।
Text Unavailable. Please use feedback link below to provide the text if you have.
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
Text Unavailable. Please use feedback link below to provide the text if you have.