Page loading... Please wait.
5|2|129 - वातातिसाराभ्यां कुक् च
॥ तस्मै पाणिनये नमः ॥
5|2|129
SK 1935
वातातिसाराभ्यां कुक् च   🔊
सूत्रच्छेदः
वात-अतिसाराभ्याम् (पञ्चमीद्विवचनम्) , कुक् (प्रथमैकवचनम्) , च (अव्ययम्)
अनुवृत्तिः
अस्मिन्  5|2|94 (प्रथमैकवचनम्) , इति  5|2|94 (अव्ययम्) , अस्ति  5|2|94 (क्रियापदम्) , अस्य  5|2|94 (षष्ठ्येकवचनम्) , तत्  5|2|94 (प्रथमैकवचनम्) , इनिः  5|2|128 (प्रथमैकवचनम्)
अधिकारः
प्रत्ययः  3|1|1 परश्च  3|1|2 आद्युदात्तश्च  3|1|3 ङ्याप्प्रातिपदिकात्  4|1|1 तद्धिताः  4|1|76 समर्थानां प्रथमाद्वा  4|1|82
सम्पूर्णसूत्रम्
"अस्य, अस्मिन् अस्ति इति" (इति) वात-अतिसाराभ्याम् इनि, कुक् च
सूत्रार्थः
"अस्य अस्ति" तथा "अस्मिन् अस्ति" एतयोः अर्थयो" "वात" तथा "अतिसार" शब्दाभ्याम् प्रथमासमर्थाभ्याम् "इनि" प्रत्ययः भवति, तथा च प्रक्रियायाम् अङ्गस्य "कुक्" आगमः अपि विधीयते ।
"अस्य अस्ति" तथा "अस्मिन् अस्ति" एतयोः अर्थयोः सर्वेभ्यः प्रातिपदिकेभ्यः तदस्यास्त्यस्मिन्निति मतुँप् 5|2|94 इत्यनेन औत्सर्गिकरूपेण मतुँप्-प्रत्ययः भवति । अस्य अपवादस्वरूपेण रोगवाचिभ्यः शब्देभ्यः द्वंद्वोपतापगर्ह्यात्‌ प्राणिस्थादिनिः 5|2|128 इत्यनेन इनि-प्रत्ययः विधीयते । अस्मिन्नेव "इनि" प्रत्यये परे "वात" (gas) तथा "अतिसार" (diarrhoea) एतयोः अङ्गस्य वर्तमानसूत्रेण "कुक्" इति आगमः भवति । यथा -
अ) वातः अस्य अस्ति सः
= वात + कुक् + इन् [वर्तमानसूत्रेण इन्-प्रत्ययः, अङ्गस्य च कुक्-आगमः]
→ वात + क् + इन् ["कुक्" इत्यत्र ककारः इत्संज्ञकः, उकारः उच्चारणार्थः । द्वयोः लोपः भवति ।]
→ वातकिन्
वातः अस्य अस्ति सः वातकी ।
आ) अतिसारः अस्य अस्ति सः अतिसारकी ।

विशेषः - व्याख्यानेषु अत्र "रोगे च अयम् इष्यते" इति उच्यते । इत्युक्ते, "रोगः" अस्मिन् अर्थे प्रयुज्यमानौ यौ वात-अतिसार-शब्दौ, तयोर्विषये एव अस्य सूत्रस्य प्रसक्तिः अस्ति, अन्येषां विषये न । यथा - "वातः विद्यते यस्याम् गुहायाम्" अत्र वर्तमानसूत्रस्य प्रयोगः न भवति, केवलम् औत्सर्गिकः मतुँप्-प्रत्ययः एव विधीयते, येन "वातवती गुहा" इति रूपं सिद्ध्यति ।

अत्र एकं वार्त्तिकम् ज्ञातव्यम् - पिशाचाच्च । इत्युक्ते, "पिशाच"शब्दात् अपि अनेन सूत्रेण मतुबर्थयोः "इनि" प्रत्ययः तथा च अङ्गस्य कुक्-आगमः भवति । पिशाचः विद्यते अस्मिन् सः पिशाचकी ।
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
वातातिसारशब्दाभ्यां इनिः प्रत्ययो भवति, तत्संनियोगेन च तयोः कुगागमो भवति। वातातिसारयोरुपतापत्वात् पूर्वेण एव सिद्धे प्रत्यये कुगर्थम् एव इदं वचनम्। वातकी। अतिसारकी। पिशाचाच् च इति वक्तव्यम्। पिशाचकी वैश्रवणः। रोगे च अयम् इष्यते। इह न भवति, वातवती गुहा।
`वातातिसाराभ्याम्` इति। यद्यपि पञ्चमी, तथाप्यर्थाद्विभक्तिविपरिणामो भवति। आगमसम्बन्धे षष्ठीभावेन विपरिणम्यते। अत एवाह--`तस्यन्नियोगेन च तयोः कुगागमः` इति। अथ प्रत्ययस्यैवागमः कस्मान्न भवति? कुगागमवता प्रत्ययेनार्थंस्यानभिधानात्। स्वरूपं न सिध्यतीति च।`पिशाचाच्चेति वक्तव्यम्` इति। पिशाचशब्दादिनिप्रत्ययो भवतीत्येतदर्थरूपं व्याख्येयमित्यर्थः। तत्रेदं व्याख्यानम्--`बहुलं छन्दसि` 5|2|121 इत्यतो बहुलग्रहणमनुवत्र्तते, तेन पिशाचशब्दादपि भविष्यति॥
वातातिसारयोरुपतापत्वादिति। अतिसारसाहचर्याद्वातस्यापि व्याधेरेव ग्रहणम्, न वायोरिति भावः। सिद्धे प्रत्यय इति। इनावेवेत्यर्थः। रोगे चायमिष्यते इति क्वचित्पठ।ल्ते, तत्रोक्तो हेतुः ॥
सिद्धान्तकौमुदी
चादिनिः । वतकी । अतीसारकी ॥ । रोगे चायमिष्यते ॥ नेह, वातवती गुहा ॥ ।पिशाचाच्च (वार्तिकम्) ॥ पिशाचकी ॥
वातातिसाराभ्यां कुक् च - वातातीसाराभ्यां । चादिनिरिति । वात, अतीसार आभ्यां मत्वर्थे इनिः स्यात् प्रकृतेः कुक् चेत्यर्थः । कुकि ककार इत् । उकार उच्चारणार्थः । कित्त्वादन्तावयवः । वातकीति । वातरोगवानित्यर्थः । अथीसारकीति । अतीसाररोगवानित्यर्थः ।रोगे चायमिति । व्याख्यानादिति भावः । रोग एवेत्यर्थः । वातवती गुहेति । अत्र रोगस्याऽप्रतीतेरिनिकुकौ नेति भावः । पिशाचाच्चेति । वार्तिकमिदम् । पिशाचादिनिः प्रकृतेः कुक्चेत्यर्थः ।
Text Unavailable. Please use feedback link below to provide the text if you have.
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
वातातीसाराभ्यां कुक्च (2147) (ःथ्द्य;निप्रत्ययाधिकरणम्) (उपसंख्यानभाष्यम्) पिशाचाच्चेति वक्तव्यम्। पिशाचकी वैश्रवणः।।