Page loading... Please wait.
5|2|126 - स्वामिन्नैश्वर्ये
॥ तस्मै पाणिनये नमः ॥
5|2|126
SK 1932
स्वामिन्नैश्वर्ये   🔊
सूत्रच्छेदः
स्वामिन् (प्रथमैकवचनम्) , ऐश्वर्ये (सप्तम्येकवचनम्)
अनुवृत्तिः
इति  5|2|94 (अव्ययम्) , अस्मिन्  5|2|94 (प्रथमैकवचनम्) , अस्ति  5|2|94 (क्रियापदम्) , अस्य  5|2|94 (षष्ठ्येकवचनम्) , तत्  5|2|94 (प्रथमैकवचनम्)
अधिकारः
प्रत्ययः  3|1|1 परश्च  3|1|2 आद्युदात्तश्च  3|1|3 ङ्याप्प्रातिपदिकात्  4|1|1 तद्धिताः  4|1|76 समर्थानां प्रथमाद्वा  4|1|82
सम्पूर्णसूत्रम्
"तत् अस्य, अस्मिन् अस्ति इति" (इति) ऐश्वर्ये स्वामिन् (निपात्यते)
सूत्रार्थः
"अस्य अस्ति" तथा "अस्मिन् अस्ति" एतयोः अर्थयोः ऐश्वर्ये गम्यमाने "स्वामिन्" शब्दः निपात्यते ।
अनेन सूत्रेण "स्वामिन्" इति शब्दः निपात्यते । "ऐश्वर्य" (= ईश्वरत्वम् / प्रभुत्वम् / ownership) अस्मिन् अर्थे प्रयुज्यमानः यः "स्व" शब्द", तस्मात् निपातनेन "आमिन्" प्रत्ययं कृत्वा अस्य शब्दस्य निर्माणम् भवति ।

स्वम् (= ऐश्वर्यम्) अस्य अस्तिः सः
= स्व + आमिन्
→ स्व् + आमिन् [यस्येति च 6|4|148 इति अकारलोपः]
→ स्वामिन्

यस्य प्रभुत्वम् / ownership अस्ति, तस्य निर्देशः "स्वामी" इत्यनेन क्रियते । यथा - धनस्य स्वामी, भूमेः स्वामी - आदयः ।

विशेषः - "स्व" शब्दस्य "ज्ञाति" (kinsmen / relatives) तथा धनम् - एतौ अन्यौ अर्थौ अपि स्तः । एतयोः अर्थयोः तु अस्मात् शब्दात् मतुँप्-प्रत्ययः एव भवति । यथा - स्वम् अस्य अस्ति सः स्ववान् ।
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
स्वामिनिति निपात्यते ऐश्वर्थे गम्यमाने। स्वशदादैश्वर्यवाचिनो मत्वर्थे आमिन् प्रत्ययो निपात्यते। स्वम् अस्य अस्ति इति ऐश्वर्यम् अस्य अस्ति इति स्वामी। स्वामिनौ। स्वामिनः। ऐश्वर्ये इति किम्? स्ववान्।
`एकाचः` इति रसादिषु 5|2|94 पाठान्मतुपि प्राप्त इदमारभ्यते। `ऐआर्यवाचिनः इति। धनवचनोऽयं स्वशब्द ऐआर्यवाची। तथा च-धनयोगादैआर्यं तदुच्यते।`स्ववान्` इति। आत्मादावर्थान्तरे स्वशब्दो वत्र्तते॥
स्वशब्दादैश्वर्यवाचिन इति। अन्यत्रात्मात्मीयज्ञातिधानवचिनोऽपि स्वशब्दस्यैतद्वृत्तिविषये ऐश्वर्यवाचित्वं स्वभावतो भवति, तेन धनवान्निर्धनो वेशिता स्वामीत्युच्यते, न त्वयं धनवचनः। तथा च धनस्य स्वामीत्यपि भवति; अन्यथा मतुप आमिनचा बाधप्रसङ्गः। अन्यतरस्यांग्रहणेन मतुप्समुच्चयेऽपि धनस्य श्वामतिवद् धनस्य स्ववानित्यपि प्राप्नोति। तस्मादैस्वर्यवचनः स्वशब्दः, न धनादिवचन इति स्थितम्। धनयोगादैश्वर्यमित्यपि नास्ति; कवागादिविषयेऽपि दर्शनात्--वाचस्पतिः, वाचः स्वमीति; न च तत्र धनत्वप्रसिद्धिरस्ति ॥
सिद्धान्तकौमुदी
ऐश्वर्यवाचकात्स्वशब्दान्मत्वर्थे आमिनच् । स्वामी ॥
स्वामिन्नैश्वर्ये - स्वामिन्नैआर्ये । "ऐआर्ये" इति प्रकृतिविशेषणमित्यभिप्रेत्याह — ऐआर्यवाचकादिति । आमिनजिति । "निपात्यते" इति शेषः । स्वामीति । स्वम्ैआर्यं, तद्वानित्यर्थः । नियन्तेति यावत् । ऐआर्ये इत्युक्तेर्धनवानित्यर्थे स्वामीति न भवति ।
स्वामिन्नैश्वर्ये - स्वामिन्नैआर्ये । ऐआर्यवाचकादिति । स्वशब्दस्यैआर्यवाचित्वमेतद्वृत्तिविषयकमेवेति बोध्यम् । ईशिता हि ईआरः । स तु स्वामीत्युच्यते । यथा वागीश एव वाचस्पतिः वाचः स्वामिति । ऐआर्ये किम् । स्ववान् ।
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
स्वामिन्नैश्वर्ये (2144) (निपातनाधिकरणम्) (अतिव्याप्त्याक्षेपनिरासभाष्यम्) इह कस्मान्न भवति ‐ स्वम् अस्य अस्ति इति ? नैष दोषः। नायं प्रत्ययार्थः। किं तर्हि?। प्रकृतिविशेषणमेतत् ‐ स्वामिन्नैश्वर्ये निपात्यते इति।।