Page loading... Please wait.
5|2|125 - आलजाटचौ बहुभाषिणि
॥ तस्मै पाणिनये नमः ॥
5|2|125
SK 1931
आलजाटचौ बहुभाषिणि   🔊
सूत्रच्छेदः
आलच्-आटचौ (प्रथमाद्विवचनम्) , बहुभाषिणि (सप्तम्येकवचनम्)
अनुवृत्तिः
अस्मिन्  5|2|94 (प्रथमैकवचनम्) , इति  5|2|94 (अव्ययम्) , अस्ति  5|2|94 (क्रियापदम्) , अस्य  5|2|94 (षष्ठ्येकवचनम्) , तत्  5|2|94 (प्रथमैकवचनम्) , वाचः  5|2|125 (पञ्चम्येकवचनम्)
अधिकारः
प्रत्ययः  3|1|1 परश्च  3|1|2 आद्युदात्तश्च  3|1|3 ङ्याप्प्रातिपदिकात्  4|1|1 तद्धिताः  4|1|76 समर्थानां प्रथमाद्वा  4|1|82
सम्पूर्णसूत्रम्
"तत् अस्य, अस्मिन् अस्ति इति" (इति) वाचः बहुभाषिणि आलच्-आटचौ
सूत्रार्थः
"अस्य अस्ति" तथा "अस्मिन् अस्ति" एतयोः अर्थयोः प्रथमासमर्थात् "वाच्" शब्दात् "बहुभाषी" एतम् अर्थम् दर्शयितुम् "आलच्" तथा "आटच्" प्रत्ययौ भवतः ।
"अस्य अस्ति" तथा "अस्मिन् अस्ति" एतयोः अर्थयोः सर्वेभ्यः प्रातिपदिकेभ्यः तदस्यास्त्यस्मिन्निति मतुँप् 5|2|94 इत्यनेन औत्सर्गिकरूपेण मतुँप्-प्रत्ययः भवति । अस्य अपवादत्वेन "वाच्" शब्दात् वाचो ग्मिनिः 5|2|124 इत्यनेन "ग्मिनि" प्रत्ययः भवति । परन्तु यत्र "बहुभाषी" इति अर्थः अपेक्षते, तत्र एतम् "ग्मिनि"प्रत्ययं बाधित्वा वर्तमानसूत्रेण "आलच्" तथा "आटच्" एतौ प्रत्ययौ भवतः । यथा - बह्वी वाक् अस्य अस्ति सः वाचालः वाचाटः वा । वाच् + आलच् → वाचाल । वाच् + आटच् → वाचाट ।

अत्र एकम् वार्त्तिकम् ज्ञातव्यम् - कुत्सिते इति वक्तव्यम् । इत्युक्ते, यः कुत्सितम् बहु भाषते (speaks irrelevant / bad things a lot) तस्यैव निर्देशार्थम् "वाचाल" तथा "वाचाट" एतयोः प्रयोगः भवति । यः "सम्यक् बहु भाषते", तस्य निर्देशार्थम् तु वाचो ग्मिनिः 5|2|124 इत्यनेन "ग्मिनि" प्रत्ययः एव क्रियते । यथा - सम्यक् बहु भाषते सः वाग्ग्मी ।
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
वाच्शब्दात् प्रथमासमर्थादालचाटचित्येतौ प्रत्ययौ भवतो मत्वर्थे बहुभाषिणि अभिधेये। ग्मिनेरपवादः। वाचालः। वाचाटः। कुत्सित इति वक्तव्यम्। यो हि सम्यग् बहु भाषते वाग्मीत्येव स भवति।
`कुत्सिते` इति। वक्तव्यशब्दस्तु व्याख्याने वत्र्तत इत्यभिप्रायः। `वक्तव्यम्` इति। कुत्सितं यो बहुभाषते तत्रालजाटचौ भवत इत्येतदर्थरूपं व्याख्येयमित्यर्थः। व्याख्यानं पूर्वसूत्र एव कृतम्॥
यो हि सम्यगग्भाषत इति। बपह्वपीति भावः ॥
सिद्धान्तकौमुदी
कुत्सित इति वक्तव्यम् (वार्तिकम्) ॥ कुत्सितं बहु भाषते वाचालः । वाचाटः । यस्तु सम्यग्बहु भाषते स वाग्ग्मीत्येव ॥
आलजाटचौ बहुभाषिणि - आलजाटचौ । वाच्शब्दात् — आलच्, आटच् एतौ मत्वर्थे बहुभाषिणीत्यर्थः । ग्मिनोऽपवादः । यस्तु सम्यगिति । नच अबहु अकुत्सितं च यो वदति तत्रापि वाग्ग्मीति कुतो न भवतीति वाच्यं,यो हि सम्यग्बहु भाषते वाग्गमीत्येव स भवती॑ति भाष्यबलेन पूर्वसूत्रस्य सम्यग्बहुभाषिण्येव प्रवृत्तेरभ्युपगमादिति भावः ।
Text Unavailable. Please use feedback link below to provide the text if you have.
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
आलजाटचौ बहुभाषिणि(2143) (आलजाटच्प्रत्ययाधिकरणम्) (एकदेशिभाष्यम्) कुत्सित इति वक्तव्यम्। यो हि सम्यग्बहु भाषते वाग्मीत्येव स भवति। तत्तर्हि वक्तव्यम्।। (समाधानभाष्यम्) न वक्तव्यम्। नानायोगकरणसार्मथ्यान्न भविष्यति।।