Page loading... Please wait.
5|2|123 - ऊर्णाया युस्
॥ तस्मै पाणिनये नमः ॥
5|2|123
SK 1929
ऊर्णाया युस्   🔊
सूत्रच्छेदः
ऊर्णायाः (पञ्चम्येकवचनम्) , युस् (प्रथमैकवचनम्)
अनुवृत्तिः
इति  5|2|94 (अव्ययम्) , अस्मिन्  5|2|94 (प्रथमैकवचनम्) , अस्ति  5|2|94 (क्रियापदम्) , अस्य  5|2|94 (षष्ठ्येकवचनम्) , तत्  5|2|94 (प्रथमैकवचनम्)
अधिकारः
प्रत्ययः  3|1|1 परश्च  3|1|2 आद्युदात्तश्च  3|1|3 ङ्याप्प्रातिपदिकात्  4|1|1 तद्धिताः  4|1|76 समर्थानां प्रथमाद्वा  4|1|82
सम्पूर्णसूत्रम्
"तत् अस्य, अस्मिन् अस्ति इति" (इति) ऊर्णायाः युस्
सूत्रार्थः
"अस्य अस्ति" तथा "अस्मिन् अस्ति" एतयोः अर्थयोः प्रथमासमर्थात् "ऊर्णा" शब्दात् युस्-प्रत्ययः भवति ।
"अस्य अस्ति" तथा "अस्मिन् अस्ति" एतयोः अर्थयोः सर्वेभ्यः प्रातिपदिकेभ्यः तदस्यास्त्यस्मिन्निति मतुँप् 5|2|94 इत्यनेन औत्सर्गिकरूपेण मतुँप्-प्रत्ययः भवति । अस्य अपवादस्वरूपेण "ऊर्णा" (wool) शब्दात् "युस्" इति प्रत्ययः वर्तमानसूत्रेण दीयते । यथा -
ऊर्णा अस्य अस्ति सः
= ऊर्णा + युस्
→ ऊर्णायु । [युस्-प्रत्यये परे यचि भम् 1|4|18 इत्यनेन अङ्गस्य भसंज्ञायां प्राप्तायाम् सिति च 1|4|16 इत्यनेन अङ्गस्य पदसंज्ञा भवति, अतः यस्येति च 6|4|148 इत्यनेन अङ्गस्य आकारस्य लोपः न जायते ।]
उर्णा अस्य अस्ति सः ऊर्णायुः (sheep) ।

विशेषः - केचन पण्डिताः अस्मिन् सूत्रे पूर्वसूत्रात् "छन्दसि" इति अनुवृत्तिं स्वीकुर्वन्ति । एतेषाम् मतेन "ऊर्णायु" इति शब्दः वेदेषु एव प्रयुज्यते, भाषायां तु "ऊर्णवान्" इत्येव साधुरूपम् । एतत् प्रायः समीचीनमेव, यतः यदि अत्र "छन्दसि" न आवश्यकम् मन्यते चेत् वर्तमानसूत्रस्य भिन्नरूपेण निर्माणमेव भवितुम् न अर्हति, अपितु अस्मिन्नेव प्रकरणे अहंशुभमोर्युस् 5|2|140 इत्यत्र यः युस्-प्रत्ययः पाठ्यते, तत्रैव "ऊर्णा" शब्दस्यापि ग्रहणं भवितुम् अर्हति । अतः वर्तमानसूत्रस्य विशेषरूपेण निर्माणमेव अस्य ज्ञापकम् यत् अत्र "छन्दसि" इति अनुवृत्तिः इष्यते ।
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
ऊर्णाशब्दाद् युस् प्रत्ययो भवति मत्यर्थे। सकारः पदसंज्ञार्थः। ऊर्णा अस्य विद्यते ऊर्णायुः। केचिच् छन्दोग्रहणम् अनुवर्तयन्ति।
`ऊर्णायुः` इति। पदत्वेन भसंज्ञाभावाद्यस्येति लोपो न भवति॥
ऊर्णायुरिति।क पदत्वाद्यस्येतिलोपो न भवति ॥
सिद्धान्तकौमुदी
सित्वात्पदत्वम् । ऊर्णायुः । अत्र छन्दसीति केचिदनुवर्तयन्ति । युक्तं चैतत् । अन्यथाहिअहंशुभमोः--(कौमुदी-1946)इत्यत्रैवोर्णाग्रहणं कुर्यात् ॥
ऊर्णाया युस् - ऊर्णाया युस् । ऊर्णायुशब्देयस्येति चे॑ति लोपमाशङ्क्याह — सित्त्वादिति । अनुवर्तयन्तीति ।बहुलं छन्दसीत्यस्मा॑दिति शेषः ।
ऊर्णाया युस् - पदत्वमिति । तेनयस्येति चे॑ति लोपो न प्रवर्तत इति भावः । अनुवर्तयन्तीति ।बहुलं छन्दसी॑त्यतः ।
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
Text Unavailable. Please use feedback link below to provide the text if you have.