Page loading... Please wait.
5|2|119 - शतसहस्रान्ताच्च निष्कात्‌
॥ तस्मै पाणिनये नमः ॥
5|2|119
SK 1926
शतसहस्रान्ताच्च निष्कात्‌   🔊
सूत्रच्छेदः
शत-सहस्रान्तात् (पञ्चम्येकवचनम्) , च (अव्ययम्) , निष्कात् (पञ्चम्येकवचनम्)
अनुवृत्तिः
अस्मिन्  5|2|94 (प्रथमैकवचनम्) , इति  5|2|94 (अव्ययम्) , अस्ति  5|2|94 (क्रियापदम्) , अस्य  5|2|94 (षष्ठ्येकवचनम्) , तत्  5|2|94 (प्रथमैकवचनम्) , ठञ्  5|2|118 (प्रथमैकवचनम्)
अधिकारः
प्रत्ययः  3|1|1 परश्च  3|1|2 आद्युदात्तश्च  3|1|3 ङ्याप्प्रातिपदिकात्  4|1|1 तद्धिताः  4|1|76 समर्थानां प्रथमाद्वा  4|1|82
सम्पूर्णसूत्रम्
"तत् अस्य, अस्मिन् अस्ति इति" (इति) शत-सहस्रान्तात् निष्कात् ठञ्
सूत्रार्थः
"अस्य अस्ति" तथा "अस्मिन् अस्ति" एतयोः अर्थयोः "निष्कशत" तथा "निष्कसहस्र" एताभ्याम् शब्दाभ्याम् प्रथमासमर्थाभ्याम् ठञ्-प्रत्ययः भवति ।
"अस्य अस्ति" तथा "अस्मिन् अस्ति" एतयोः अर्थयोः सर्वेभ्यः प्रातिपदिकेभ्यः तदस्यास्त्यस्मिन्निति मतुँप् 5|2|94 इत्यनेन औत्सर्गिकरूपेण मतुँप्-प्रत्ययः भवति । अस्य अपवादरूपेण वर्तमानसूत्रेण "निष्कशत" तथा "निष्कसहस्र" एताभ्याम् शब्दाभ्याम् एतयोः अर्थयोः "ठञ्" प्रत्ययः विधीयते । यथा -

1. निष्कशतम् अस्य अस्मिन् वा अस्ति = निष्कशत + ठञ् → नैष्कशतिक । One who owns or contains 100 gold coins - इत्यर्थः ।
2. निष्कसहस्रम् अस्य अस्मिन् वा अस्ति = निष्कसहस्र + ठञ् → नैष्कसहस्रिक । One who owns or contains 1000 gold coins - इत्यर्थः ।

स्मर्तव्यम् - वस्तुतः अस्मिन् सूत्रे "शतसहस्रान्तात् निष्कात्" इति उक्तम् अस्ति । इत्युक्ते, येषु शब्देषु "निष्कशत" तथा "निष्कसहस्र" इति पदम् विद्यते, तेभ्यः सर्वेभ्यः शब्देभ्यः वर्तमानसूत्रेण ठञ्-प्रत्ययः भवेत् । यथा - सुवर्णनिष्कशत, महानिष्कसहस्र - एताभ्याम् शब्दाभ्याम् अपि अनेन सूत्रेण ठञ्-प्रत्ययः भवेत् । परन्तु तादृशाः शिष्टप्रयोगाः न विद्यन्ते, अतः तानि उदाहरणानि अत्र न दत्तानि सन्ति । केवलम् "निष्कशत" तथा "निष्कसहस्र" एतयोः शब्दयोः विषये एव अस्य सूत्रस्य प्रयोगः भवति ।
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
शतान्तात् सहस्रान्तात् च प्रातिपदिकात् ठञ् प्रत्ययो भवति मत्वर्थे तौ चेत् शतसहस्रशब्दौ निष्कात् परौ भवतः। निष्कशतम् अस्य अस्ति नैष्कशतिकः। नैष्कसहस्रिकः। सुवर्णनिष्कशतम् अस्य अस्ति इति अनभिधानान् न भवति।
Text Unavailable. Please use feedback link below to provide the text if you have.
निष्कादित्येतद् गुणभूताभ्यामपि शतसहस्राभ्यां सम्बध्यते, न तदन्तेनेत्याह---तौ चेदिति। सुवर्णानिष्कशतमित्यादि। यत्र निष्कशब्दः पूर्वपदं न भवतीत्यर्थः। अन्तग्रहणं किम् ? ठ्निष्काच्छतसहस्राभ्याम्ऽ इत्युच्यमाने सन्देहः स्यात्--किं पूर्वपदम् ?--इति ॥
सिद्धान्तकौमुदी
निष्कात्परौ यौ शतसहस्रशब्दौ तदन्तात्प्रातिपदिकाट्ठञ् स्यान्मत्वर्थे । नैष्कशतिकः । नैष्कसहस्रिकः ॥
शतसहस्रान्ताच्च निष्कात् - शतसहरुआ । निष्कात्पराविति । असामर्थ्येऽपि सौत्रत्वात्समास इति भावः ।
Text Unavailable. Please use feedback link below to provide the text if you have.
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
Text Unavailable. Please use feedback link below to provide the text if you have.