Page loading... Please wait.
5|2|110 - गाण्ड्यजगात्‌ संज्ञायाम्
॥ तस्मै पाणिनये नमः ॥
5|2|110
SK 1917
गाण्ड्यजगात्‌ संज्ञायाम्   🔊
सूत्रच्छेदः
गाण्डी-अजगात् (पञ्चम्येकवचनम्) , संज्ञायाम् (सप्तम्येकवचनम्)
अनुवृत्तिः
अस्मिन्  5|2|94 (सप्तम्येकवचनम्) , इति  5|2|94 (अव्ययम्) , अस्ति  5|2|94 (क्रियापदम्) , अस्य  5|2|94 (षष्ठ्येकवचनम्) , तत्  5|2|94 (प्रथमैकवचनम्) , वः  5|2|110 (प्रथमैकवचनम्)
अधिकारः
प्रत्ययः  3|1|1 परश्च  3|1|2 आद्युदात्तश्च  3|1|3 ङ्याप्प्रातिपदिकात्  4|1|1 तद्धिताः  4|1|76 समर्थानां प्रथमाद्वा  4|1|82
सम्पूर्णसूत्रम्
"तत् अस्य, अस्मिन् अस्ति इति" (इति) संज्ञायाम् गाण्डी-अजगात् वः
सूत्रार्थः
"अस्य अस्ति" तथा "अस्मिन् अस्ति" एतयोः अर्थयोः "गाण्डी" शब्दात् तथा "अजग" शब्दात् प्रथमासमर्थात् संज्ञायाः विषये "व" इति प्रत्ययः भवति ।
"अस्य अस्ति" तथा "अस्मिन् अस्ति" एतयोः अर्थयोः सर्वेभ्यः संज्ञायाः विषये "गाण्डी" शब्दात् तथा "अजग" शब्दात् संज्ञायाः विषये "व" इति प्रत्ययः अनेन सूत्रेण दीयते । क्रमेण पश्यामः -

1. "गाण्डी (name of a tree) अस्मिन् अस्ति" अस्मिन् अर्थे "गाण्डी" शब्दात् "व" प्रत्ययं कृत्वा "गाण्डीव" इति शब्दः सिद्ध्यति । गाण्डी + व → गाण्डीव । अर्जुनस्य धनुषः इदम् नाम । "गाण्डी" नाम्नः वृक्षस्य काष्ठम् प्रयुज्य अस्य निर्माणम् अभवत्, अतः "गाण्डी अस्मिन् अस्ति" इति अस्य विग्रहः दीयते ।

विशेषः - "गाण्डि" (name of a tree) इत्यस्मात् ह्रस्व-इकारान्तशब्दादपि अनेन सूत्रेण व-प्रत्ययः भवति - इति व्याख्यानैः स्पष्टीक्रियते । गाण्डिः अस्मिन् अस्ति तत् गाण्डिवम् । अयं शब्दः अपि अर्जुनस्य धनुषः नाम्नः निर्देशार्थमेव प्रयुज्यते ।

2. "अजग (= विष्णुः) अस्मिन् अस्ति" अस्मिन् अर्थे "अजग" शब्दात् "व"प्रत्ययं कृत्वा "अजगव" इति शब्दः सिद्ध्यति । अजग + व → अजगव । शङ्करस्य धनुषः इदम् नाम । त्रिपुरासुरस्य वधस्य समये स्वयम् भगवान् विष्णुः शररूपेण शङ्करस्य धनुषि अतिष्ठत् - इति काचन कथा वर्तते । एताम् अनुसृत्य एव शङ्करस्य धनुषः नाम "अजगव" इति दत्त्म अस्ति । अजगः यस्मिन् अस्ति तत् अजगवम् शिवधनुः ।

स्मर्तव्यम् - अस्मिन् सूत्रे "संज्ञायाम्" इति उच्यते अतः अनेन सूत्रेण निर्मितौ शब्दौ केवलं विशिष्टे अर्थे एव प्रयुज्येते ।
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
गाण्दी अजग इत्येताभ्यां वः प्रत्ययो भवति संज्ञायां विषये मत्वर्थे। गान्दीवं धनुः। अजगवम् धनुः। ह्रस्वादपि भवति गाण्डिवं धनुः इति। तत्र तुल्या हि संहिता दीर्घह्रस्वयोः। उभयथा च सूत्रं प्रणीतम्।
`ह्यस्वादपि भवति` इति। कथं पुनर्दीर्घस्य ग्रहणे ह्यस्वादपि भवतीति? `तत्र तुल्या हि` हत्यादि। यादृशी दीर्घस्येह संहिता ह्यस्वग्रहणेऽपि तादृश्येव दृश्यते। तस्मात्? ह्यस्वस्यापि ग्रहणमिह न विरुध्यत इति भावः। तत्र चैतत्? स्यात्--यद्यपि तुल्या संहिता, तथापि कृतयणादेशोऽयमेक एव शब्दः, तस्य स्वरूप इत्यन्यतरस्य परिग्रहणेन भवितव्यम्। तत्र यदि दीर्घत्य ग्रहणं ह्यस्वान्न प्राप्नोति, अथ ह्यस्वस्य ग्रहणं दीर्घन्न प्राप्नोतीत्यत आह--`उभयथा` इति। उभयप्रकारं ह्राचार्येण प्रणीतं सूत्रम्। तस्मादुभयोरपि ग्रहणमित्यदोषः। अथ संज्ञाग्रहणं किम्, यावतेतिकरणस्य चानुवृत्तेरसंज्ञायां न भविष्यति, यथा द्युद्रभ्यां मप्रत्ययः? एवं तर्हि तस्यैवेतिकरणस्य प्रपञ्चः संज्ञाग्रहणमिति द्रष्टव्यम्॥
गाण्डीवं धनुरिति। अर्जुनस्य। अजगवं धनुरिति। पिनाकमेतत्। उभयथा सूत्रं प्रणीतमिति। तन्त्रन्यायाश्रयेण। प्रयोगश्चोभयथापि भवति--ठ्गाण्डीवी कनकशिलानिभं भुजाभ्याम्ऽ ठधिरोहति गाण्डिवं महेषौऽ इति च। संज्ञाग्रहणस्यैव प्रपञ्चः ॥
सिद्धान्तकौमुदी
ह्रस्वदीर्घयोर्यणा तन्त्रेण निर्देशः । गाण्डिवम् । गाण्डीवम् । अर्जुनस्य धनुः । अजगवं पिनाकः ॥
गाण्ड्यजगात् संज्ञायाम् - गाण्डजगात्संज्ञायाम् । ह्यस्वदीर्घयोरिति । गाण्डिशब्दस्य गाण्डीशब्दस्य च कृतयणो गाण्ड इति युगपन्निर्देशः — ॒ख्यत्वात्परस्ये॑त्यत्र खितिशब्दयोः खीतीशब्दयोश्च यथेत्यर्थः । ततश्च गाण्डिशब्दाद्गाण्जीशब्दादजगशब्दाच्च मत्वर्थे वप्रत्ययः स्यादित्यर्थः । रूढशब्दत्वादिह न मतुप्समुच्चयः ।
गाण्ड्यजगात् संज्ञायाम् - संज्ञायामिति ।तदस्यास्ती॑ति सूत्रस्थेतिशब्दस्यैवायं प्रपञ्चः ।यणेति ।ख्यत्या॑दिति वत्कृतयणादेशस्यानुकरणं न भवति, लक्ष्ये यणोऽभावात् । किं तु सूत्रे सांहितिकोऽयं यणिति भावः । प्रयिज्यते चोभयथा — -॒अधिरोहति गाण्डिवं महेषौ॑ ।गाण्डीवी कनकशिलानिबं भुजाभ्या॑मिति च ।
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
Text Unavailable. Please use feedback link below to provide the text if you have.