Page loading... Please wait.
5|2|101 - प्रज्ञाश्रद्धार्चाभ्यो णः
॥ तस्मै पाणिनये नमः ॥
5|2|101
SK 1908
प्रज्ञाश्रद्धार्चाभ्यो णः   🔊
सूत्रच्छेदः
प्रज्ञा-श्रद्धा-अर्चाभ्यः (पञ्चमीबहुवचनम्) , णः (प्रथमैकवचनम्)
अनुवृत्तिः
इति  5|2|94 (अव्ययम्) , मतुँप्  5|2|94 (प्रथमैकवचनम्) , अस्मिन्  5|2|94 (सप्तम्येकवचनम्) , अस्ति  5|2|94 (क्रियापदम्) , तत्  5|2|94 (प्रथमैकवचनम्) , अस्य  5|2|94 (षष्ठ्येकवचनम्) , अन्यतरस्याम्  5|2|96 (सप्तम्येकवचनम्)
अधिकारः
प्रत्ययः  3|1|1 परश्च  3|1|2 आद्युदात्तश्च  3|1|3 ङ्याप्प्रातिपदिकात्  4|1|1 तद्धिताः  4|1|76 समर्थानां प्रथमाद्वा  4|1|82
सम्पूर्णसूत्रम्
"तत् अस्य, अस्मिन् अस्ति इति" (इति) प्रज्ञा-श्रद्धा-अर्चाभ्यः णः, मतुँप् अन्यतरस्याम्
सूत्रार्थः
"अस्य अस्ति" तथा "अस्मिन् अस्ति" एतयोः अर्थयोः प्रथमासमर्थात् प्रज्ञा-शब्दात्, श्रद्धा-शब्दात् अर्चा-शब्दात् च "ण"-प्रत्ययः भवति, पक्षे "मतुँप्" अपि भवति ।
तदस्यास्त्यस्मिन्नति मतुँप् 5|2|94 अनेन सूत्रेण सर्वेभ्यः प्रातिपदिकेभ्यः "अस्य अस्ति" तथा "अस्मिन् अस्ति" अनयोः अर्थयोः औत्सर्गिकरूपेण "मतुँप्" प्रत्ययः उच्यते । एतयोः एव अर्थयोः "प्रज्ञा", "श्रद्धा", तथा "अर्चा" - एतेभ्यः शब्देभ्यः विकल्पेन ण-प्रत्ययः अपि भवति । यथा -

1. प्रज्ञा अस्य अस्मिन् वा अस्ति = प्रज्ञा + ण → प्राज्ञ । पक्षे - प्रज्ञा + मतुँप् → प्रज्ञावत् ।
2. श्रद्धा अस्य अस्मिन् वा अस्ति = श्रद्धा + ण → श्राद्ध । पक्षे - श्रद्धा + मतुँप् → श्रद्धावत् ।
3. अर्चा अस्य अस्मिन् वा अस्ति = अर्चा + ण → आर्च । पक्षे - अर्चा + मतुँप् → अर्चावत् ।

अत्र एकम् वार्त्तिकम् अपि ज्ञातव्यम् - वृतेश्च । इत्युक्ते, "वृत्ति" शब्दस्य अपि अस्मिन् सूत्रे ग्रहणं भवति । यथा -
वृत्तिः अस्य अस्मिन् वा अस्ति सः वार्त्तः । पक्षे मतुँप् प्रत्ययं कृत्वा "वृत्तिमान्" इत्यपि रूपं सिद्ध्यति ।

स्मर्तव्यम् - "ण"-प्रत्ययान्तशब्दाः स्त्रीत्वे विवक्षिते अजाद्यतष्टाप् 4|1|4 इति टाप्-प्रत्ययं स्वीकुर्वन्ति । यथा - प्राज्ञा, श्राद्धा, आर्चा, वार्त्ता ।

विशेषः - काशिकायाः बहुषु संस्करणेषु इदम् सूत्रम् "प्रज्ञाश्रद्धार्चावृत्तिभ्यो णः" इति पाठ्यते । इत्युक्ते, "वृत्ति" शब्दः सूत्रे एव निर्दिश्यते । परन्तु मूलरूपेण (पाणिनीय-रचनायाम्) "वृत्ति" शब्दः सूत्रे नास्ति - इति भाष्यात् स्पष्टीभवति ।
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
प्रज्ञा श्रद्धा अर्चा वृत्ति इत्येतेभ्यः णः प्रत्ययो भवति मतुबर्थे। मतुप् सर्वत्र समुच्चीयते। प्राज्ञः, प्रज्ञावान्। श्राद्धाः, स्रद्धावान्। आर्चः, अर्चावान्। वार्त्तः, वृत्तिमान्।
प्रज्ञाशब्दान्मतुपि पिच्छादिपाठादिलचि च प्राप्ते, इतरेभ्यस्तु मतुपि णो विधीयते॥
सूत्रे वृत्तिशब्दो वार्तिके दर्शनात्प्रक्षिप्तः---ठ्वृत्तिर्विच्छेदप्रतिविदानात्ऽ इति। प्रज्ञाग्रहणं किमर्थम्? प्राज्ञ इत्येतद्रूपं यथा स्यात्। ठ्प्रज्ञादिभ्यश्चऽ इत्यणि कुते सिद्धमेतत्, प्रज्ञ एव प्राज्ञः, यस्य हि प्रज्ञाऽस्ति स प्रजानाति ? सत्यम्; स्त्रियां त्वणि ङीब् भवति--प्राज्ञी, अस्मिस्तु णे टावेव भवति--प्राज्ञा। इह तु गुणभूतया क्रियया व्याकरणादिनां सम्बन्धे णाणोरुभयोरपि व्याकरणम्--प्राज्ञैति भवति, यथा--कृतपूर्वी कटमिति तद्धितप्रयोगे हि षष्ठी न भवतीत्युक्तम् ॥
सिद्धान्तकौमुदी
प्राज्ञो व्याकरणे । प्राज्ञा । श्राद्धः । आर्चः ॥ ।वृतेश्च (वार्तिकम्) ॥ वार्तः ॥
Text Unavailable. Please use feedback link below to provide the text if you have.
Text Unavailable. Please use feedback link below to provide the text if you have.
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
प्रज्ञाश्रद्धार्चाभ्यो णः (2119) (णप्रत्ययाधिकरणम्) (5769 उपसंख्यानवार्तिकम्।। 1 ।।) - वृत्तेश्च - (भाष्यम्) वृत्तेश्चेति वक्तव्यम्। वार्तम्।।