Page loading... Please wait.
5|1|90 - षष्टिकाः षष्टिरात्रेण पच्यन्ते
॥ तस्मै पाणिनये नमः ॥
5|1|90
SK 1756
षष्टिकाः षष्टिरात्रेण पच्यन्ते   🔊
सूत्रच्छेदः
षष्टिकाः (प्रथमाबहुवचनम्) , षष्टिरात्रेण (तृतीयैकवचनम्) , पच्यन्ते (क्रियापदम्)
अनुवृत्तिः
-
अधिकारः
प्रत्ययः  3|1|1 परश्च  3|1|2 आद्युदात्तश्च  3|1|3 ङ्याप्प्रातिपदिकात्  4|1|1 तद्धिताः  4|1|76 प्राग्वतेष्ठञ्  5|1|18 कालात्  5|1|78 समर्थानां प्रथमाद्वा  4|1|82
सम्पूर्णसूत्रम्
"षष्टिरात्रेण पच्यन्ते" (इति) षष्टिकाः |
सूत्रार्थः
"षष्टिरात्रेण पच्यन्ते" अस्मिन् अर्थे "षष्टिक"शब्दः निपात्यते ।
अनेन सूत्रेण "षष्टिक" इति शब्दः निपात्यते । अयम् कस्यचन धान्यविशेषस्य संज्ञा अस्ति । यत् धान्यम् "षष्टिरात्रेण पच्यते" (इत्युक्ते षष्टिरात्रम् यावत् पाकक्रियां कृत्वा यस्य संस्करणम् भवति) तस्य निर्देशार्थम् "षष्टिक" इति संज्ञा विधीयते । षष्टिक is a specific type of grain whose processing invokes cooking for a period of sixty days.

प्रक्रिया इयम्
"षष्टिरात्रेण पच्यन्ते" अस्मिन् अर्थे कन्-प्रत्ययस्य निपातनम्
→ षष्टिरात्र + कन्
→ षष्टिक ["रात्र" शब्दस्य निपातनात् लोपः]

ज्ञातव्यम् -
1. सर्वेषाम् धान्यानाम् (यथा मुद्गादीनाम्) विषये अयम् शब्दः न प्रयुज्यते । आचार्यस्य काले प्रयुज्यमाणस्य कस्यचन विशिष्टस्य धान्यस्य इयम् संज्ञा अस्ति । अतएव भाष्यकारः अत्र वदति - षष्टिके संज्ञाग्रहणं कर्तव्यम् । इत्युक्ते, "षष्टिक"शब्दः संज्ञारूपेणैव बोध्यः ।

2. यद्यपि अस्मिन् सूत्रे "षष्टिकाः" इति बहुवचनान्तप्रयोगः कृतः अस्ति, तथापि अत्र बहुवचनस्य न किमपि प्रयोजनम् । "षष्टिक"शब्दस्य रूपाणि त्रिषु वचनेषु प्रयुक्तानि दृश्यन्ते ।
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
षष्टिकशब्दो निपात्यते। बहुवचनम् अतन्त्रम्। षष्टिरात्रशब्दात् तृतीयासमर्थात् कन् प्रत्ययो निपात्यते पच्यन्ते इत्येतस्मिन्नर्थे, रात्रिशब्दस्य च लोपः। षष्टिरात्रेण पच्यन्ते षष्टिकाः। संज्ञा एषा धान्यचिशेषस्य। तेन मुद्गादिष्वतिप्रसङ्गो न भवति।
`बहुवचवान्तस्य निर्देशाद्बहुवचन एव षष्टिकशब्दस्य साधुत्वम्, नान्यत्र` इति यश्चोदयेत्, तं प्रत्याह--`बहुवचनमतन्त्रम्` इति। अप्रधानमित्यचर्थः। अप्रधानत्वं तु तस्य नान्तरीयकत्वात्। अवश्यं हि येन केनचिद्वचनेन निर्देशः कत्र्तव्यः। यद्येवम्, एकवचनेन निर्देशः कस्मान्न कृतः, एवं हि लघुर्भवति? सत्यम्; वैचित्र्यार्थं बहुवचनेन कृतः। यदि `षष्टिरात्रेण पच्यन्ते` इत्यस्मिन्नयं एतन्निपातनं, मुद्गादिष्वतिप्रसङ्गः, तेऽपि हि षष्टिरात्रेणपच्यन्ते? इत्यत आह--`संज्ञैषा` इत्यातदि। धान्यविशेष एव हिं षष्टिकशब्दः संज्ञात्वेन रूढः। तेनाभिधानाम्मुद्गादिष्वतिप्रसङ्गो न भवति॥
लघुत्वात्प्रथमातिक्रमे कारणाभावाच्च एकवचनेनैव निर्देशाद्विवक्षितं तदिति मन्यमानं प्रत्याह--बहुवचनमतन्त्रमिति। तथा च वार्तिके--ठ्षष्टिके संज्ञाग्रहणं कर्तव्यम्ऽ इत्येकवचनं प्रयुक्तम्। प्रयोगबाहुल्यातु सूत्रे बहुवचनप्रयोगः, षष्टिरात्रेण पच्चन्त इत्यत्रार्थे निपात्यमानस्य षष्टिकशब्दस्य धान्यविशेष एव प्रयोगो यथा स्यात्, णुद्गादिषु मा भूदित्येवमर्थं संज्ञाग्रहणं कर्तव्यमिति वार्तिककारोणोक्तम्। तदेतन्निपातनादेव सिद्धमित्यभिप्रायेणाह--संज्ञैषेत्यादि ॥
सिद्धान्तकौमुदी
बहुवचनमतन्त्रम् । षष्टिको धान्यविशेषः । तृतीयान्तात्कन् रात्रशब्दलोपश्च निपात्यते ॥
षष्टिकाः षष्टिरात्रेण पच्यन्ते - षष्टिकाः । तृतीयान्तादिति ।षष्टिरात्रशब्दा॑दिति शेषः ।
Text Unavailable. Please use feedback link below to provide the text if you have.
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
षष्टिकाः षष्टिरात्रेण पच्यन्ते (1972) (निपातनाधिकरणम्) (5666 षष्टिकशब्दमर्यादाकरणवार्तिकम्।। 1 ।।) - षष्टिके संज्ञाग्रहणम् - (भाष्यम्) षष्टिके संज्ञाग्रहणं कर्तव्यम्। मुद्गा अपि हि षष्टिरात्रेण पच्यन्ते तत्र मा भूदिति।। (5667 सिद्धान्तवार्तिकम्।। 2 ।।) - उक्तं वा - (भाष्यम्) किमुक्तम्? अनभिधानादिति।।