Page loading... Please wait.
5|1|88 - वर्षाल्लुक् च
॥ तस्मै पाणिनये नमः ॥
5|1|88
SK 1753
वर्षाल्लुक् च   🔊
सूत्रच्छेदः
वर्षात् (पञ्चम्येकवचनम्) , लुक् (प्रथमैकवचनम्) , च (अव्ययम्)
अनुवृत्तिः
तेन  5|1|79 (तृतीयैकवचनम्) , निर्वृत्तम्  5|1|79 (प्रथमैकवचनम्) , भृतः  5|1|80 (प्रथमैकवचनम्) , भावी  5|1|80 (प्रथमैकवचनम्) , अधीष्टः  5|1|80 (प्रथमैकवचनम्) , तम्  5|1|80 (द्वितीयैकवचनम्) , खः  5|1|85 (प्रथमैकवचनम्) , वा  5|1|86 (अव्ययम्) , द्विगोः  5|1|86 (पञ्चम्येकवचनम्) , भूतः  5|1|180 (प्रथमैकवचनम्)
अधिकारः
प्रत्ययः  3|1|1 परश्च  3|1|2 आद्युदात्तश्च  3|1|3 ङ्याप्प्रातिपदिकात्  4|1|1 तद्धिताः  4|1|76 प्राग्वतेष्ठञ्  5|1|18 कालात्  5|1|78 समर्थानां प्रथमाद्वा  4|1|82
सम्पूर्णसूत्रम्
"तम् अधीष्टो भृतो भूतो भावी" (तथा) "तेन निर्वृत्तम्" (इति) वर्षात् द्विगोः खः ठञ् वा, लुक् च |
सूत्रार्थः
"अधीष्टः", "भृतः", "भूतः" तथा "भावी" एतेषु अर्थेषु द्वितीयासमर्थात्, तथा च "निर्वृत्तम्" अस्मिन् अर्थे तृतीयासमर्थात् द्विगु-शब्दस्य उत्तरपदे विद्यमानात् "वर्ष"शब्दात् विकल्पेन ख-प्रत्ययः भवति । पक्षे औत्सर्गिकः ठञ्-प्रत्ययः, पक्षे च प्रत्ययस्य लुक् अपि विधीयते ।
तेन निर्वृत्तम् 5|1|79 इत्यनेन निर्दिष्टस्य "निवृत्तम्" अस्य अर्थस्य विषये ; तथा च तमधीष्टो भृतो भूतो भावी 5|1|80 इत्यनेन निर्दिष्टानाम् "अधीष्टः, भृतः, भूत, भावी" - एतेषाम् अर्थानाम् विषये द्विगुसमासस्य उत्तरपदरूपे विद्यमानात् "वर्ष" शब्दात् अनेन सूत्रेण विकल्पेन "ख" प्रत्ययः भवति, तथा च तस्य विकल्पेन लुक् अपि विधीयते । पक्षे तदन्तविधिना औत्सर्गिकः ठञ्-प्रत्ययः अपि विधीयते । यथा -

1) ख-प्रत्यये कृते - द्वि + वर्ष + ख → द्विवर्षीण ।
2) ठञ्-प्रत्यये कृते - द्वि + वर्ष + ठञ् → द्विवार्षिक । अत्र तद्धितेष्वचामादेः 7|2|117 इति आदिवृद्धौ प्राप्तायाम् तं बाधित्वा वर्षस्याभविष्यति [7।3।16]] इति उत्तरपदवृद्धिः भवति ।
3) प्रत्ययस्य लुकि कृते - द्वि + वर्ष + ख/ठञ् → द्वि + वर्ष → द्विवर्ष ।

एवमेव - त्रिवर्षीण / त्रिवार्षिक / त्रिवर्ष ; पञ्चवर्षीण / पञ्चवार्षिक / पञ्चवर्ष - एतादृशाः शब्दाः अपि सिद्ध्यन्ति ।

यथा -
1. द्वाभ्यां वर्षाभ्यां निर्वृत्तम् द्विवर्षीणम्, द्विवार्षिकम् द्विवर्षम् वा ।
2. द्वे वर्षे अधीष्टः / भृतः / भूतः द्विवर्षीणः द्विवार्षिकः द्विवर्षः वा । यथा - द्विवर्षीणः अध्यापकः, द्विवार्षिकः भृत्यः, द्विवर्षः ज्वरः - आदयः ।
3. द्वे वर्षे भावी द्विवर्षीणः द्वैवर्षिकः द्विवर्षः वा । अत्र ठञ्-प्रत्यये परे तद्धितेष्वचामादेः 7|2|117 इत्यनेन आदिवृद्धिः भवति । ।

ज्ञातव्यम् -
1. "द्विवार्षिक" तथा "द्वैवर्षिक" एतयोर्मध्ये विद्यमानम् सूक्ष्मभेदम् अत्र आचार्यः स्पष्टीकरोति । "द्वे वर्षे भूतः" इत्यस्मिन् अर्थे "द्विवार्षिक" तथा द्वे वर्षे भावी" इत्यस्मिन् अर्थे "द्वैवर्षिक" अयं शब्दः सिद्ध्यति इति सर्वदा स्मर्तव्यम् ।
2. "द्वे वर्षे भूतः" इत्यस्मिन् अर्थे यदि जीवितस्य निर्देशः क्रियते, तर्हि वर्तमानसूत्रेण विकल्पेन प्राप्तः लुक् अग्रिमसूत्रेण नित्यरूपेण भवति । यथा, "द्वे वर्षे भूतः पुत्रः" इत्यत्र "द्विवर्षः पुत्रः" इत्येव रूपम् सिद्ध्यति । अस्मिन् विषये अग्रिमसूत्रे विस्तारेण उच्यते ।
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
द्विगोः इत्येव। वर्षान्ताद् द्विगोर् निर्वृत्तादिष्वर्थेषु वा खः प्रत्ययो भवति। पक्षे ठञ्। तयोश्च वा लुग् भवति। एवं त्रीणि रूपाणि भवन्ति। द्विवर्षीणो व्याधिः, द्विवार्षिकः, द्विवर्षः। त्रिवर्षीणः, त्रिवार्षिकः, त्रिवर्षः। वर्षस्य अभविष्यति 7|3|16 इत्युत्तरपदवृद्धिः। भाविनि तु त्रैवर्षिकः।
`भाविनि तु त्रैवर्षिकः` इति। तत्र हि `अभविष्यति` 7|3|16 इति वचनात्। इहादिवृद्धिरेव भवति॥
Text Unavailable. Please use feedback link below to provide the text if you have.
सिद्धान्तकौमुदी
वर्षशब्दान्ताद्द्विगोर्वा खः । पक्षे ठञ् वा च लुक् । त्रीणि रूपाणि । द्विवर्षीणो व्याधिः । द्विवर्षः ॥
वर्षाल्लुक् च - वर्षाल्लुक् च । वा च लुगिति ।खठञो॑रिति शेषः । द्विवर्षीम इति । खे रूपम् । द्विवर्ष इति । खठञोर्लुकि रूपम् ।
वर्षाल्लुक् च - द्विवर्षीणो ब्याधिरिति । द्विवार्षिको मनुष्य इति । अत्र वदन्ति — -मनुष्येचित्तवती॑ति नित्यलुक्प्रसङ्गात्मनुष्यो मनुष्यसदृशः प्रतिमादिः॑इति व्याख्याय स्थितस्य गतिः समर्थनीयेति ।
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
Text Unavailable. Please use feedback link below to provide the text if you have.