Page loading... Please wait.
5|1|79 - तेन निर्वृत्तम्
॥ तस्मै पाणिनये नमः ॥
5|1|79
SK 1743
तेन निर्वृत्तम्   🔊
सूत्रच्छेदः
तेन (तृतीयैकवचनम्) , निर्वृत्तम् (प्रथमैकवचनम्)
अनुवृत्तिः
-
अधिकारः
प्रत्ययः  3|1|1 परश्च  3|1|2 आद्युदात्तश्च  3|1|3 ङ्याप्प्रातिपदिकात्  4|1|1 तद्धिताः  4|1|76 प्राग्वतेष्ठञ्  5|1|18 कालात्  5|1|78 समर्थानां प्रथमाद्वा  4|1|82
सम्पूर्णसूत्रम्
"तेन निर्वृत्तम्" (इति) समर्थानाम् प्रथमात् कालात् ठञ् प्रत्ययः
सूत्रार्थः
"निर्वृत्तम्" अस्मिन् अर्थे तृतीयासमर्थात् कालवाचीप्रातिपदिकात् ठञ्-प्रत्ययः भवति ।
"निवृत्तम्" इत्युक्ते "कृतम् / निष्पादितम्" । "निर्मितम्" अस्मिन् अर्थे तृतीयासमर्थात् कालवाचिप्रातिपदिकात् ठञ्-प्रत्ययः भवति । यथा -

1. मासेन निर्वृत्तम् = मास + ठञ् → मासिक । तत् कार्यम् यत् एकमासेन निष्पाद्यते (a task accomplished in a month) , मासिकम् नाम्ना ज्ञायते ।
2. अह्ना निर्वृत्तम् आह्निकम् । प्रकिया इयम् -
अहन् + ठञ्
→ अहन् + इक [ठस्येकः 7|3|50 इति इक-आदेशः]
→ आहन् + इक [तद्धितेष्वचामादेः 7|2|117 इति आदिवृद्धिः]
→ आह् न् + इक [नस्तद्धिते 6|4|144 इति टिलोपे प्राप्ते अह्नष्टखोरेव 6|4|145 इति सः प्रतिषिध्यते, अतः अल्लोपोऽनः 6|4|134 इति उपधा-अकारलोपः भवति ।]
→ आह्निक । a task accomplished in a day इत्यर्थः ।
3. वर्षेण निर्वृत्तम् वार्षिकम् ।
4. अर्धमासेन निर्वृत्तम् आर्धमासिकम् ।

ज्ञातव्यम् - अस्मिन् सूत्रे "तेन" इति "करणे" प्रयुज्यते । तथा च, कालात् 5|1|78 इति अधिकारः अत्र प्रवर्तते, अतः "निर्वृत्तम्" अस्य अर्थः अत्र "निष्पादितम्" ( accomplished / achieved / done / prepared) इति स्वीकर्तव्यः । अत्र क्त-प्रत्ययः भूते न प्रयुज्यते, अपितु वर्तमाने प्रयुज्यते ।
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
मासेन निर्वृत्तम् मासिकम्। आर्धमासिकम्। सांवत्सरिकम्। कालातित्यधिकारः व्युष्टाऽदिभ्यो ऽण् 5|1|97 इति यावत्। तेन निर्वृत्तम् 5|1|79। तेन इति तृतीयासमर्थात् कालवाचिनः प्रातिपदिकात् विर्वृत्तम् इत्यस्मिन्नर्थे ठञ् प्रत्ययो भवति। अह्ना विर्वृत्तम् आह्निकम्। आर्धमासिकम्। सांवत्सरिकम्।
`आह्निकः` [आह्निकम्-काशिका] इति। `अल्लोपोऽनः` 6|4|134 इत्यकारलोपः। टिलोपस्तु `अह्नष्टखोरेव` 6|4|145 इति नियमादिह न भवति॥
तेनेति करणे तृतीया। निवृतमुनिष्पादितम्। अन्तर्भावितण्यर्थे वृत्तिः ॥
सिद्धान्तकौमुदी
अह्ना निर्वृत्तमाह्निकम् ॥
तेन निर्वृत्तम् - तेन निर्वृत्तम् । तृतीयान्तान्निर्वृत्तमित्यर्थे ठञ्स्यादित्यर्थः । आह्निकमिति ।अह्नष्टखोरेवे॑ति नियमान्न टिलोपः ।
तेन निर्वृत्तम् - तेन निर्वृत्तम् । तृतीयान्कतात्कालवाचिनष्ठञ्स्यात् । तेनेति करणे तृतीया । चतुरथ्र्यान्तर्गतेतेन निर्वृत्त॑मित्यत्र तु कर्तरि तृतीयेति विशेषः । उभयत्राप्यन्तर्भावितण्यर्थाद्वृतेः कर्मणि क्तः । आह्निकमिति ।अह्नष्टखोरेवे॑ति नियमात् ।नस्तद्धिते॑इति टिलोपो न ।
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
Text Unavailable. Please use feedback link below to provide the text if you have.