Page loading... Please wait.
5|1|6 - शरीरावयवाद्यत्‌
॥ तस्मै पाणिनये नमः ॥
5|1|6
SK 1666
शरीरावयवाद्यत्‌   🔊
सूत्रच्छेदः
शरीर-अवयवात् (पञ्चम्येकवचनम्) , यत् (प्रथमैकवचनम्)
अनुवृत्तिः
हितम्  5|1|5 (प्रथमैकवचनम्) , तस्मै  5|1|5 (चतुर्थ्येकवचनम्)
अधिकारः
प्रत्ययः  3|1|1 परश्च  3|1|2 आद्युदात्तश्च  3|1|3 ङ्याप्प्रातिपदिकात्  4|1|1 तद्धिताः  4|1|76 प्राक्क्रीताच्छः  5|1|1 समर्थानां प्रथमाद्वा  4|1|82
सम्पूर्णसूत्रम्
"तस्मै हितम्" इति शरीर-अवयवात् यत्
सूत्रार्थः
"हितम्" अस्मिन् अर्थे चतुर्थीसमर्थात् शरीरस्य अवयववाचि-प्रातिपदिकात् यत्-प्रत्ययः भवति ।
"हितम्" इत्युक्ते "योग्यम् / आवश्यकम् / हितकारकम् / उपयोगी / उपयुक्तम् " । "हितम्" अस्मिन् अर्थे चतुर्थीसमर्थात् प्रातिपदिकात् प्राग्क्रीतात् छः 5|1|1 इत्यनेन औत्सर्गिकरूपेण छ-प्रत्यये प्राप्ते इत्यनेन औत्सर्गिकरूपेण छ-प्रत्यये प्राप्ते; शरीरस्य अवयवस्य विषये तस्य अपवादरूपेण यत्-प्रत्ययः भवति ।

1. दन्ताय हितम् दन्त्यम् मञ्जनम् ।
2. कण्ठाय हितम् कण्ठ्या ओषधिः ।
3. ओष्टाभ्यां हितम् ओष्ठ्यम् घृतम् ।

अत्र वार्त्तिकद्वयं ज्ञातव्यम् -
1. नस् नासिकायाः । इत्युक्ते, नासिकाशब्दस्य यत्-प्रत्यये परे नस्-आदेशः भवति ।
यथा - नासिकायै हितम्
= नासिका + यत्
→ नस् + य [नस् नासिकायाः इति नासिका-इत्यस्य नस्-आदेशः]
→ नस्य ।

2. यत्प्रकरणे रथाच्चोपसंख्यानं कर्तव्यम् । इत्युक्ते, "रथ"शब्दात् अपि "हितम्" अस्मिन् अर्थे यत्-प्रत्ययः भवति । रथाय हितम् रथ्यम् चक्रम् ।

ज्ञातव्यम् -
1. शरीरावयवाच्च 4|3|55 इति किञ्चन सूत्रम् तत्र भवः 4|3|53 अस्मिन् अर्थे पाठितम् अस्ति । अनेन सूत्रेण अपि शरीरस्य अवयववाचिशब्दात् यत्-प्रत्ययः एव भवति, परन्तु सः "भवः" अस्मिन् अर्थे जायते । यथा - दन्ते भवः दन्त्यः । वर्तमानसूत्रेण तु "हितम्" अस्मिन् अर्थे प्रत्ययः विधीयते ।

2. अनेन सूत्रेण उक्तः यत्-प्रत्ययः तदन्तस्य विषये अपि भवति । यथा, दन्ताय हितम् दन्त्यम् ; राजदन्ताय हितम् राजदन्त्यम् । अस्मिन् विषये असमासे निष्कादिभ्यः 5|1|20 इत्यत्र विस्तारेण निरूपितम् अस्ति ।
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
शरीर प्राणिकायः। शरीरावयववाचिनः प्रातिपदिकात् यत् प्रत्ययो भवति तस्मै हितम् इत्येतस्मिन् विषये। छस्य अपवादः। दन्त्यम्। कण्ठ्यम्। ओष्ठ्यम्। नाभ्यम्। नस्यम्।
शीर्यत इति शरीरम्, तेन घटादेरपि ग्रहणं भविष्यतीत्यत आह--`शरीरं प्राणिकायः` इति। एतेन रूढिरियमिति दर्शयति। गवादावेति शरीरावयववाचिनः। तत्र तु याः प्रकृतयस्ताभ्योऽनेनापि पूर्वेणापि वा यति विशे षो नास्त्येव। यत्र विशेषः--`नाभि नभञ्च` (ग।सू।106) इति, स विशेषस्तत्रैव वेदितव्य एव॥
शरीरं प्राणिकाय इति। एतेनैतद्दर्शयति-शीर्यत इति शरीरमिति श्रृणातेरीरन्प्रत्ययमुत्पाद्य यद्यपि शरीरशब्दो व्युत्पाद्यते, तथापि योगरूढत्वात्प्राणिकाय एव वर्तते, न घटादाविति ॥ खलयवमाषतिलवृषब्रह्मणश्च ॥
सिद्धान्तकौमुदी
दन्त्यम् । कण्ठ्यम् ॥ ।नस् नासिकायाः (वार्तिकम्) ॥ नस्यम् । नाभ्यम् ॥
शरीरावयवाद्यत् - शरीरावयवाद्यत् । शरीरावयवविशेषवाचकाच्चतुथ्र्यन्ताद्धितमित्यर्थे यत्स्यादित्यर्थः । छस्यापवादः । नस्यमिति । नासिकायै हितमित्यर्थः । "पद्दन्" इति नस्, प्रभृतिग्रहणमस्य प्रकारार्थत्वात् । भाष्ये तुनासिकाया यत्-तस्-क्षुद्रेषु नस् इति पठितम् । नाभ्यमिति । नाभये हितमित्यर्थः । नाभिरत्र शरीरावयवः । रथावयवत्वे तु नभादेश उक्तः ।
शरीरावयवाद्यत् - नस्यमिति । नासिकायै हितम् ।नासिकायां भव॑मिति विग्रहे तुशरीरैवयवाच्चे॑ति यत् । नस्यम् । तस्युदाहरणं — -नस्तः ।अपादाने चाहीयरुहो॑रिति तसिः । क्षुद्रे तु — नासिकायाः क्षुद्रो नःक्षुद्रः ।सुप्सुपे॑ति समासः । नाभ्यमिति ।नाभि नभं चे॑ति नभादेशो रथनाभावेव प्रवर्तते, तस्य गवादियता संनियोगशिष्टत्वादिति भावः ।
लघुसिद्धान्तकौमुदी
दन्त्यम्। कण्ठ्यम्। नस्यम्॥
महाभाष्यम्
शरीरावयवाद्यत् (1888) (5596 संग्राहकवार्तिकम्।। 1 ।।) - यत्प्रकरणे रथाच्च - (भाष्यम्) यत्प्रकरणे रथाच्चोपसंख्यानं कर्तव्यम्। रथाय हिता-रथ्या।।