Page loading... Please wait.
5|1|56 - सोऽस्यांशवस्नभृतयः
॥ तस्मै पाणिनये नमः ॥
5|1|56
SK 1722
सोऽस्यांशवस्नभृतयः   🔊
सूत्रच्छेदः
सः (प्रथमैकवचनम्) , अस्य (षष्ठ्येकवचनम्) , अंश-वस्न-भृतयः (प्रथमाबहुवचनम्)
अनुवृत्तिः
-
अधिकारः
प्रत्ययः  3|1|1 परश्च  3|1|2 आद्युदात्तश्च  3|1|3 ङ्याप्प्रातिपदिकात्  4|1|1 तद्धिताः  4|1|76 प्राग्वतेष्ठञ्  5|1|18 आर्हादगोपुच्छसंख्यापरिमाणाट्ठक्  5|1|19 समर्थानां प्रथमाद्वा  4|1|82
सम्पूर्णसूत्रम्
"सः अस्य अंश-वस्न-भृतयः" इति समर्थानाम् प्रथमात् परः ठञ् प्रत्ययः
सूत्रार्थः
"अंशः", "वस्नम् ", "भृतिः" - एतेषु अर्थेषु प्रथमासमर्थात् यथाविहितं प्रत्ययः भवति ।
"अंश" इत्युक्ते भागः । "वस्नम्" इत्युक्ते मूल्यम् । "भृति" इत्युक्ते वेतनम् । एतेषु सर्वेषु अर्थेषु प्रथमासमर्थात् यथाविहितं प्रत्ययः भवति । उदाहरणानि एतानि -

1. पञ्च अंशाः अस्य सः = पञ्चकः । सङ्ख्यायाः अतिशदन्तायाः कन् 5|1|22 इति कन् ।
2. सहस्रम् वस्नम् अस्याः सा साहस्री । शतमानविंशतिकसहस्रवसनादण् 5|1|27 इति अण् । स्त्रीत्वे टिड्ढाणञ्.. 4|1|15 इति ङीप् ।
3. द्वे शते भृतिः अस्य सः द्विशत्यः द्विशतः वा । पणपादमाषशताद्यत्‌ 5|1|34 इति यत् । तस्य शताच् च इति वक्तव्यम् अनेन वार्त्तिकेन विकल्पः । पक्षे सङ्ख्यायाः अतिशदन्तायाः कन् 5|1|22 इति कन्, तस्य च लुक् ।
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
स इति प्रथमासमर्थातस्य इति षष्ठ्यर्थे यथाविहितं प्रत्ययो भवति यत् प्रथमासमर्थम् अंशवस्नभृतयश्चेत् ता भवति। अंशो भागः। वस्नं मूल्यम्। भृतिर्वेतनम्। पञ्च अंशो वस्नो वा भृतिर्वास्य पञ्चकः। सप्तकः। साहस्रः।
`वस्नद्रव्याभ्याम्` 5|1|50 इत्यत्रापि वस्नशब्देन मूल्यमुच्यते॥
इह च शतं यस्य वक्नो भवति स तेन क्रीतो भवति, तत्र तेन क्रीतमित्येव सिद्धम् नार्थो वस्नग्रहणेन ? नैतदस्ति; योग्यतामात्रेऽप्यस्येदं मूल्यमिति व्यवहारत् ॥
सिद्धान्तकौमुदी
अंशो भागः । वस्त्रं मूल्यम् । भृतिर्वेतनम् । पञ्च अंशो वस्त्रो भृतिर्वास्य पञ्चकः ॥
सोऽस्यांशवस्नभृतयः - सोऽस्यांश । स इति प्रत्येकमंशादिष्वन्वेति । सोऽस्यांशः, तदस्य वस्नम्, सास्य भृतिरित्यर्थेषु प्रथमान्ताद्यथाविहितं प्रत्ययाः स्युरित्यर्थः । पञ्चक इति । "संख्यायाः" इति कन् ।
Text Unavailable. Please use feedback link below to provide the text if you have.
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
Text Unavailable. Please use feedback link below to provide the text if you have.