Page loading... Please wait.
5|1|34 - पणपादमाषशताद्यत्‌
॥ तस्मै पाणिनये नमः ॥
5|1|34
SK 1699
पणपादमाषशताद्यत्‌   🔊
सूत्रच्छेदः
पण-पाद-माष-शतात् (पञ्चम्येकवचनम्) , यत् (प्रथमैकवचनम्)
अनुवृत्तिः
अध्यर्धपूर्वद्विगोः  5|1|28 (षष्ठ्येकवचनम्)
अधिकारः
प्रत्ययः  3|1|1 परश्च  3|1|2 आद्युदात्तश्च  3|1|3 ङ्याप्प्रातिपदिकात्  4|1|1 तद्धिताः  4|1|76 प्राग्वतेष्ठञ्  5|1|18 आर्हादगोपुच्छसंख्यापरिमाणाट्ठक्  5|1|19 समर्थानां प्रथमाद्वा  4|1|82
सम्पूर्णसूत्रम्
आ-अर्हात् पण-पाद-माष-शतात् यत्
सूत्रार्थः
सर्वेषु आर्हीय-अर्थेषु "पण", "पाद", "माष", "शत" - एतेषां विषये अध्यर्धपूर्व/द्विगुसमासात् यत्-प्रत्ययः भवति ।
"पण", "पाद", "माष" (त्रीणि अपि मापनस्य परिमाणानि) उत "शत" शब्दस्य विषये तद्धितार्थे विहितः यः अध्यर्धपूर्वसमासः द्विगुसमासः वा, तस्मात् आर्हीयेषु अर्थेषु यत्-प्रत्ययः भवति ।

1. द्वौ पणौ परिमाणम् अस्य तत् द्विपण्यम् ।
2. अध्यर्धेन पादेन क्रीतम् तत् अध्यर्धपाद्यम् ।
3. त्रयः माषाः परिमाणम् अस्य तत् त्रिमाष्यम् ।
अत्र त्रिषु अपि उदाहरणेषु औत्सर्गिकरूपेण विहितं ठञ्-प्रत्ययं बाधित्वा यत्-प्रत्ययः विधीयते ।

4. अध्यर्धेन शतेन क्रीतम् अध्यर्धशत्यम् । द्वाभ्याम् शताभ्याम् क्रीतम् द्विशत्यम् । अत्र "शत" शब्दात् संख्याया अतिशदन्तायाः कन् 5|1|22 इत्यस्य अपवादरूपेण यत्-प्रत्ययः भवति । तथा च, अत्र नित्यरूपेण विहितः यत्-प्रत्ययः अग्रिमसूत्रे निर्दिष्टेन शताच्चेति वक्तव्यम् अनेन वार्त्तिकेन विकल्प्यते, अतः पक्षे कन्-प्रत्ययः अपि विधीयते, तस्य च अध्यर्धपूर्वद्विगोर्लुगसंज्ञायाम् 5|1|28 इत्यनेन लुक् भवति । यथा - द्वाभ्यां शताभ्यां क्रीतम् द्विशतम् ।


ज्ञातव्यम् -
1. पाद-शब्दस्य विषये पद् यत्यतदर्थे 6|3|53 इत्यनेन पद्-आदेशः न भवति यतः तस्मिन् सूत्रे "पाद" इत्यनेन केवलं शरीरस्य अवयवः एव गृह्यते, न हि परिमाणवाची पादशब्दः ।
2. अध्यर्धपूर्व/द्विगुसमासस्य विषये आर्हीय-प्रत्ययस्य अध्यर्धपूर्वद्विगोर्लुगसंज्ञायाम् 5|1|28 इत्यनेन वस्तुतः लुक्-भवति । परन्तु अत्र निर्देशसामर्थ्यात् लुकं बाधित्वा यत्-प्रत्ययः क्रियते ।
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
अध्यर्धपूर्वाद् द्विगोः इत्येव। अध्यर्धपूर्वाद् द्विगोश्च पणपादमाषशतशब्दान्तातार्हीयेष्वर्थेषु यत् प्रत्ययो भवति। अव्यर्धपण्यम्। द्विपण्यम्। त्रिपण्यम्। पाद अध्यर्धपाद्यम्। द्विपाद्यम्। त्रिपाद्यम्। पद्भावो न भवति पद् यत्यतदर्थे 6|3|53 इति। प्राण्यङ्गस्य स इष्यते। इदं तु परिमाणम्। माष अध्यर्धमाष्यम्। द्विमास्यम्। त्रिमास्यम्। शत अध्यर्धशत्यम्। द्विशत्यम्। त्रिशत्यम्।
पणपादमाषेभ्यः `असमासे निष्कादिभ्यः` 5|1|20 इति असमासे ठको विधानाट्ठञि प्राप्ते तस्य लुकि शतशब्दादप्यसमासे `शताच्च ठन्यतावशते` 5|1|21 इति ठन्यतोर्विधानात्? समासे संख्यालक्षणे कनि यद्? विधीयते। `द्विपाद्यम्` इत्यादि। ननु पद्भावः कस्मान्न भवति `पद्यत्यतदर्थे` 6|3|53 इति? सत्यम्; `पादस्य पदाज्याति` 6|3|51 इत्यत्र प्राण्यङ्गस्यैव पद्भावविधानात्। कृत एतत्? `आज्याति` इत्यादिना गतिवचनेन सम्बन्धस्तस्यैवोपपद्यते; न परिमाणशब्दस्य। स एव प्राण्यङ्गवाच्युत्तरसूत्रेऽप्यनुवर्तिष्यत इति तस्यैव पद्भाव इष्यते। स्यादेतत्--अयमपीह पादशब्दः प्राण्यङ्गवाची, अतो भवितव्यमेवेह पद्भावेन? इत्यत आह--`पद्भावो न भवति` इति। `पद्यत्यतदर्थे` 6|3|52 इति पद्भावः प्राप्नोति, स न भवति। किं कारणमित्याह--`प्राण्यङ्गस्य` इत्यादि। `पादस्य पदाज्यातिगोपहतेषु` 6|3|51 इत्यत्र प्राण्यङ्गस्य पादस्य ग्रहणम्। `इदं तु परिमाणग्रहणम्` [`परिमाणम्-काशिका] इति। पणादिभिः परिमाणैः साहचर्यात्? परिमाणं पादो गृह्रते, न प्राण्यङ्गमिति पद्भावस्याप्रसङ्गः॥
पद्बावोऽत्र न भवतीति। ठ्पद्यत्यतदर्थेऽ इत्यनेन। किं कारणमित्याह--प्राण्यङ्गस्येति। ठ्पादस्य पदाज्यातिगोपहतेषुऽ इत्यत्र तावत् प्राण्यङ्गस्य पादस्य ग्रहणं तस्यैवाज्यादिभिर्गतिवचनैः सबन्धसद्भावात् पद्यतीत्यादावपि तस्यैवानुवृत्तिः। इह तु परिमाणमिति। गृह्यते इति शेषः। पणमाभ्यां साहचर्यादिति भावः ॥
सिद्धान्तकौमुदी
अध्यर्धपण्यम् । द्विपण्यम् । अध्यर्धपाद्यम् । द्विपाद्यम् । इह पादः पत् (कौमुदी-414) इति न । यस्य-(कौमुदी-311) इति लोपस्य स्थानिवद्भावात् । पद्यत्यतदर्थे (कौमुदी-991) इत्यपि न, प्राण्यङ्गार्थस्यैव तत्र ग्रहणात् ॥
पणपादमाषशतादत् - प्राण्यङ्गार्थस्येति । व्याख्यानादिति भावः । इह सूत्रे पणमाषसाहचर्यात्पादशब्दोऽपि परिमाणविशेषवाची गृह्रते ।
पणपादमाषशतादत् - प्राण्यङ्गार्थस्यैवेति । अयं भावः — -॒पादस्य पदाज्यातिदोपहतेषु॑इत्यत्र प्राण्यङ्गस्यैव हि पादस्य ग्रहणं , तस्यै वाज्यातिभिर्गतिवचनैः संबन्धसंभवात् । तथा चपद्यती॑त्यादावपि तस्यैवानुवृत्तिः । इह तु पणमाषाभ्यां साहचर्यात्परिमाणवाचिनो ग्रहणमिति ।
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
Text Unavailable. Please use feedback link below to provide the text if you have.