Page loading... Please wait.
5|1|27 - शतमानविंशतिकसहस्रवसनादण्
॥ तस्मै पाणिनये नमः ॥
5|1|27
SK 1692
शतमानविंशतिकसहस्रवसनादण्   🔊
सूत्रच्छेदः
शतमान-विंशतिक-सहस्र-वसनात् (पञ्चम्येकवचनम्) , अण् (प्रथमैकवचनम्)
अनुवृत्तिः
-
अधिकारः
प्रत्ययः  3|1|1 परश्च  3|1|2 आद्युदात्तश्च  3|1|3 ङ्याप्प्रातिपदिकात्  4|1|1 तद्धिताः  4|1|76 प्राग्वतेष्ठञ्  5|1|18 आर्हादगोपुच्छसंख्यापरिमाणाट्ठक्  5|1|19 समर्थानां प्रथमाद्वा  4|1|82
सम्पूर्णसूत्रम्
आ-अर्हात् शतमान-विंशतिक-सहस्र-वसनात् अण्
सूत्रार्थः
सर्वेषु आर्हीय-अर्थेषु शतमान, विंशतिक, सहस्र, वसन - एतेभ्यः शब्देभ्यः अण्-प्रत्ययः भवति ।
प्राग्वतीय-अधिकारे तेन क्रीतम् 5|1|37 इत्यस्मात् प्रथमात् अर्थात् आरभ्य तदर्हति 5|1|63 इति यावन्तः एकादश-अर्थाः "आर्हीय-प्रकरणे" समाविश्यन्ते । एतेषु सर्वेषु अर्थेषु "शतमान", "विंशतिक", "सहस्र", "वसन" - एतेभ्यः शब्देभ्यः अण्-प्रत्ययः भवति । क्रमेण पश्यामः -

1. शतमान (a weight of 100 units) इति कश्चन परिमाणवाची शब्दः । अस्मात् शब्दात् प्राग्वतेष्ठञ् 5|1|18 इत्यनेन औत्सर्गिकरूपेण ठञ्-प्रत्यये प्राप्ते तं बाधित्वा वर्तमानसूत्रेण अण्-प्रत्ययः भवति । शतमानेन क्रीतम् शातमानम् ।

2. "विंशतिक" अयम् शब्दः कस्यचन परिमाणस्य संज्ञा अस्ति । "विंशति" शब्दात् विंशतित्रिंशद्भ्यां ड्वुन्नसंज्ञायाम्‌ 5|1|24 इत्यस्य योगविभागेन संज्ञायाः विषये कन्-प्रत्ययं कृत्वा "विंशतिक" इति शब्दः सिद्ध्यति । अस्मात् अग्रे आर्हीय-अर्थेषु औत्सर्गिकं ठञ्-प्रत्ययं बाधित्वा अण्-प्रत्ययः भवति । विंशतिकेन क्रीतम् वैंशतिकम् ।

3. "सहस्र" इति सङ्ख्यावाची शब्दः । अस्मात् शब्दात् संख्यायाः अतिशदन्तायाः कन् 5|1|22 इति कन्-प्रत्यये प्राप्ते तं बाधित्वा वर्तमानसूत्रेण आर्हीय-अर्थेषु अण्-प्रत्ययः भवति । सहस्रेण क्रीतम् साहस्रम् ।

4. "वसन" इत्युक्ते वस्त्रम् । "वसन" शब्दात् सर्वेषु आर्हीय-अर्थेषु आर्हादगोपुच्छसंख्यापरिमाणाट्ठक् 5|1|19 इत्यनेन ठक्-प्रत्यये प्राप्ते तम् बाधित्वा वर्तमानसूत्रेण आर्हीय-अर्थेषु अण्-प्रत्ययः भवति । वसनेन क्रीतम् वासनम् ।
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
शतमानादिभ्यः शब्देभ्यः अण् प्रत्ययो भवति आर्हीयेष्वर्थेषु। ठक्ठञोरपवादः। शतमानेन क्रीतं शातमानं शतम्। वैशतिकम्। साहस्रम्। वासनम्।
`ठक्ठञोरपवादः` [`ठञोऽपवादः` इति मुद्रितः पाठः] इति। शतमानं परिमाणम्, सहरुआं संख्या, तेनैताभां ठग्न प्राप्नोतीति ठञोऽपवादः। विंसत्या क्रीतं `विंशातिकम्` इति। तच्च परमाणमपि सम्भवति। तत्र परिमाणाट्ठञोऽपवादः, अपरिमाणट्ठकः, वसनशब्दाट्ठगपवादः॥
ठकठञोरपवाद इति। शतमानं। परिमाणम्, सहस्रं संख्या; ताभ्यां ठञोऽपवादः। विंशत्या क्रीतं विंशतिकं संज्ञाशब्दोऽयम्, असंज्ञायाम् ठ्विंशतित्रिंशद्भयां ड्वुनसंज्ञायाम्ऽ इति ड्वुना भवितव्यम्, सा यदि परिमाणस्य संज्ञा ? तदा ततोऽपि ठञोऽपवादः। अथ त्वर्थान्तरस्य, ततष्ठकः। वसनशब्दातु ठक एव ॥
सिद्धान्तकौमुदी
एभ्योऽण् स्यात् । ठञ्ठक्कनामपवादः । शतमानेन क्रीतं शातमानम् । वैंशतिकम् । साहस्रम् । वासनम् ॥
शतमानविंशतिकसहस्रवसनादण् - शतमान । शातमानमिति । अत्र ठञ् प्राप्तः । वैंशतिकमिति । विंशत्या क्रीतं विंशतिकम् । संज्ञाशब्दोऽयम् ।विंशतितिंरशद्भ्या॑मिति योगविभागात्कन् । विंशतिकेन क्रीतिमिति विग्रहः । तत्र परिमाणविशेषस्य संज्ञा चेट्ठञ् प्राप्तः, अन्यस्य संज्ञा चेट्ठक् प्राप्तः । साहरुआमिति । सहरुओण क्रीतमिति विग्रहः ।सङ्ख्याया अतिशदन्तायाः॑ इति कन् प्राप्तः । वासनमिति । वसनेन क्रीतिमिति विग्रहः । अत्र ठक् प्राप्तः ।
शतमानविंशतिकसहस्रवसनादण् - ठञ्ठक्कनामिति । शतमानं परिमाणं, ततष्ठञ् प्राप्तः । विंशत्या क्रीतं विंशतिकम् । संज्ञाशब्दोऽयम् । असंज्ञायां हिविंशति तिंरशभ्द्या॑मिति ड्वुन् स्यात् । संज्ञा च यदि परिमाणस्य, तदा ठञ् प्राप्तः । अर्थान्तरस्य चेत्तर्हि ठक् प्राप्तः । वसनशब्दात्तु ठगेव । सहरुआशब्दस्य सङ्ख्यावाचित्वात्ततःसङ्ख्याया अतिशदन्तायाः॑इति कन्प्राप्त इति विवेकः ।
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
Text Unavailable. Please use feedback link below to provide the text if you have.