Page loading... Please wait.
5|1|17 - परिखाया ढञ्
॥ तस्मै पाणिनये नमः ॥
5|1|17
SK 1679
परिखाया ढञ्   🔊
सूत्रच्छेदः
परिखायाः (पञ्चम्येकवचनम्) , ढञ् (प्रथमैकवचनम्)
अनुवृत्तिः
स्यात्  5|1|16 (क्रियापदम्) , इति  5|1|16 (अव्ययम्) , अस्मिन्  5|1|16 (सप्तम्येकवचनम्) , तत्  5|1|16 (प्रथमैकवचनम्) , अस्य  5|1|16 (षष्ठ्येकवचनम्) , तत्  5|1|16 (प्रथमैकवचनम्)
अधिकारः
प्रत्ययः  3|1|1 परश्च  3|1|2 आद्युदात्तश्च  3|1|3 ङ्याप्प्रातिपदिकात्  4|1|1 तद्धिताः  4|1|76 प्राक्क्रीताच्छः  5|1|1 समर्थानां प्रथमाद्वा  4|1|82
सम्पूर्णसूत्रम्
"तत् अस्य स्यात् इति" (तथा) "तत् अस्मिन् स्यात् इति" (इति) परिखायाः ढञ्
सूत्रार्थः
प्रथमासमर्थात् परिखा-शब्दात् "अस्य स्यात्" तथा च "अस्मिन् स्यात्" एतयोः अर्थयोः ढञ्-प्रत्ययः भवति ।
"अस्य स्यात्" तथा "अस्मिन् स्यात्" एतयोः अर्थयोः प्रथमासमर्थात् तदस्य तदस्मिन् स्यादिति 5|1|16 अनेन सूत्रेण औत्सर्गिकरूपेण छ-प्रत्यये उक्ते "परिखा" (= कर्षू / खननेन निर्मिता रेषा / trench) शब्दस्य विषये तं बाधित्वा ढञ्-प्रत्ययः भवति । यथा - परिखा अस्याः अस्ति अस्याम् अस्ति वा सा पारिखेया भूमि ।

प्रक्रिया इयम् -
परिखा अस्याः अस्ति अस्याम् अस्ति वा सः =
परिखा + ढञ्
→ परिखा + एय [आयनेयीनीयियः फडखच्छघां प्रत्ययादीनाम् 7|1|2 इति एय्-आदेशः]
→ पारिखा + एय [तद्धितेष्वचामादेः 7|2|117 इति आदिवृद्धिः]
→ पारिख् + एय [यस्येति च 6|4|148 इति आकारलोपः । अत्र ढकारादिः प्रत्ययः अस्ति अतः पुंवद्भावः न भवति (भस्याढेः तद्धिते पुंवद्भावो वक्तव्यः अस्य वार्त्तिकस्य प्रसक्तिः नास्ति)]
→ पारिखेय

स्त्रीत्वे टिड्ढाणञ्.. 4|1|4 इति ङीप् - पारिखेयी । परिखा अस्याः अस्ति अस्याम् अस्ति वा सा पारिखेयी भूमिः ।


ज्ञातव्यम् - तद्धिताधिकारे ये पञ्च महोत्सर्गाः पाठ्यन्ते, तेषु चतुर्थः महोत्सर्गः (छाधिकारः) - यस्य प्रारम्भः प्राक्क्रीतात् छः 5|1|1 इत्यत्र भवति - अत्र समाप्यते ।
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
परिखाशब्दात् ढञ् प्रत्ययो भवति तदस्य तदस्मिन् स्यात् 5|1|16 इत्येतस्मिन्नर्थे। छस्य अपवादः। पारिखेयी भूमिः। छयतोः पूर्णो ऽवधिः। इतः परमन्यः प्रत्ययो विधीयते।
परिखाशब्देन चात्र खेयमुच्यते॥
Text Unavailable. Please use feedback link below to provide the text if you have.
सिद्धान्तकौमुदी
परिखेयी भूमिः ॥ छयतोः पूर्णोऽवधिः ॥। इति तद्धिताधिकारे आर्हीये छयद्विधिप्रकरणम्‌ ।
परिखाया ढञ् - परिखाया ढञ् । "पूर्वसूत्रविषये" इति शेषः । पारिखेयी भूमिरिति । परिखा अस्या अस्ति, अस्यामस्तीति वा विग्रहः । परिखायोग्येत्यर्थः । छयतोः पूर्णोऽवधिरिति ।प्राग्वतेष्ठ॑ञित्यारभ्यद्वित्रिपूर्वादण्चे॑त्यन्तै सूत्रैः प्रत्ययविशेषेष्वनुक्रान्तेषुतेनक्रीत॑मिति पठितम् । ततश्च प्राक्क्रीतादित्युक्तेस्तेष्वपि सूत्रेषु छयतोरनुवृत्तिः कुतो नेति न शङ्क्यं, प्रत्ययविशेषाणां श्रवणे तयोरनुवृत्त्यसंभवादिति भावः । *****इति बालमनोरमायाम् छयतोरवधिः*****अथ पाञ्चमिकाः । — — — — — — -
Text Unavailable. Please use feedback link below to provide the text if you have.
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
Text Unavailable. Please use feedback link below to provide the text if you have.