Page loading... Please wait.
5|1|127 - कपिज्ञात्योर्ढक्
॥ तस्मै पाणिनये नमः ॥
5|1|127
SK 1792
कपिज्ञात्योर्ढक्   🔊
सूत्रच्छेदः
कपि-ज्ञात्योः (षष्ठीद्विवचनम्) , ढक् (प्रथमैकवचनम्)
अनुवृत्तिः
तस्य  5|1|119 (षष्ठ्येकवचनम्) , भावः  5|1|119 (प्रथमैकवचनम्) , च  5|1|124 (अव्ययम्) , कर्मणि  5|1|124 (सप्तम्येकवचनम्)
अधिकारः
प्रत्ययः  3|1|1 परश्च  3|1|2 आद्युदात्तश्च  3|1|3 ङ्याप्प्रातिपदिकात्  4|1|1 तद्धिताः  4|1|76 आ च त्वात्  5|1|120 समर्थानां प्रथमाद्वा  4|1|82
सम्पूर्णसूत्रम्
"तस्य भावः कर्मणि च" (इति) कपि-ज्ञात्योः ढक्
सूत्रार्थः
"भावः" तथा "कर्म" एतयोः अर्थयोः षष्ठीसमर्थात् "कपि"शब्दात् "ज्ञाति"शब्दात् च ढक्-प्रत्ययः भवति ।
"भावः" तथा "कर्म" एतयोः अर्थयोः "कपि" (= मर्कटः / monkey) तथा "ज्ञाति" (स्वजातीय / सम्बन्धी / relative) एतौ शब्दौ औत्सर्गिकरूपेण "त्व" तथा "तल्" प्रत्ययौ स्वीकुरुतः ; पक्षे च वर्तमानसूत्रेण ढक्-प्रत्ययम् अपि प्राप्नुवतः । यथा -
कपेः भावः कर्म वा
कपि + ढक्
→ कपि + एय [आयनेयीनीयियः फढखच्छघां प्रत्ययादीनाम् 7|1|2 इति "ढ" इत्यस्य एय-आदेशः]
→ कापि + एय [किति च 7|2|118 इति आदिवृद्धिः]
→ काप् + एय [यस्येति च 6|4|148 इति इकारलोपः]
→ कापेय ।
पक्षे "कपित्व" तथा "कपिता" - एतौ शब्दौ अपि भवतः । कपेः भावः कर्म वा कापेयम्, कपित्वम्, कपिता ।

तथैव - ज्ञातेः भावः कर्म वा ज्ञातेयम्, ज्ञातित्वम्, ज्ञातिता ।

स्मर्तव्यम् - यद्यपि अस्मिन् सूत्रे "भाव" तथा "कर्म" द्वयोः अर्थयोः विषये "कपि" तथा "ज्ञाति" द्वे प्रातिपदिके निर्दिष्टे स्तः, तथापि अत्र "यथासङ्ख्यत्वम्" न इष्यते । गुणवचनब्राह्मणादिभ्यः कर्मणि च 5|1|124 इत्यस्मात् आरभ्य ब्रह्मणस्त्वः 5|1|136 इति यावत्सु सर्वेषु सूत्रेषु उक्तानाम् सर्वेषाम् प्रातिपदिकानाम् विषये "भाव" तथा "कर्म" द्वयोः अपि अर्थयोः प्रसक्तिः विद्यते ।
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
कपिज्ञातिशब्दाभ्यां ढक् प्रययो भवति भावकर्मणोरर्थयोः। कपेर् भावः कर्म वा कापेयम्। ज्ञातेयम्। यथासङ्ख्यम् अर्थयोः सर्वत्र एव अत्र प्रकरणे न इष्यते।
कपिशब्दात्? `इगन्ताच्च लघुपूर्वात्` 5|1|130 इत्यणि प्राप्त इदं विधीयते। `यथासंख्यम्` इत्यादि। तत्र `गुणवचनब्राहृणादिभ्यः` 5|1|123 इत्यत्र यतासंख्याभावः प्रतिपादितः। इहापि प्रतिपाद्यते। तत्रेदं प्रतिपादनम्--अत्र चकारोऽनुवत्र्तते, स चैकस्याः प्रकृतेर्भावे कर्मणि च ढग्विंधिं समुच्चिनोति। तेन यथांसंख्यं न भवति; अन्यथा हि समुच्ययो नोपपद्यते। अस्वरितत्वाद्वा यथासंख्यं न भविष्यति, प्रतिपादितं हि पूर्वम्--`स्वरितत्वेन यथासंख्यं भवति` इति। न चेह यथासंख्यार्थं स्वरितत्वं प्रतिज्ञायते॥
राजास यिति। राजशब्दोऽसेऽसमासे यकमुत्पादयति--राज्ञो भावः कर्म वा राज्यम्। ठसेऽ इति किम्? आधिराज्यम्, ब्राह्मणादित्वलात्यञ्। यद्यपि तत्र राजशब्दः पठ।ल्ते, तथाप्ययमेवास इति प्रतिषेधो ज्ञापयति--ठस्त्यत्र राजशब्दे तदन्तविधिःऽ इति। एवं च ब्राह्मणादिपाठस्य समासे चरितार्थत्वादसमासे विशेषविहितो यगेव भवति। अपर आह--ठ्ब्राह्मणादेराकृतिगणत्वादेव तदन्तात् ष्यञि सिद्धे राजशब्दस्य तत्र पाठो यका सह समावेशार्थःऽ इति, तथा चावेष्ट।ल्धिकरणे शाबरबाष्ये उक्तम्--ठ्तस्य कर्मणि ष्यञ्ऽ इति ॥ प्राणमृज्जातिवयोवचनोद्गात्रादिभ्योऽञ् ॥ प्राणभृतःउप्राणिनः, प्राणिग्रहणमेव न कृतं वैचित्र्यार्थम्। प्राणभृद्ग्रहणातृणत्वं तृणतेत्यादौ न भवति, जातिग्रहणाद्देवदतत्वमित्यादौ न भवति। यत्विहेगन्तं लघुपूर्वं तस्मात्परत्वादण् भवति--तैतिरम्। उद्गात्रादिषु य ऋत्विग्वचनास्तेभ्यः ठ्होत्राब्यश्च्छःऽ इति छे प्राप्देऽञ् चविधीयते। सुष्ठुअदुष्ठुअभ्यां गुणवचनलक्ष्णे ष्यञि, वधूशब्दादिगन्तलक्षणेऽणि, शेषेभ्यस्त्वतलोः प्राप्तयोः। सुभगं मन्त्रे इति। सुभगमित्येतच्छब्दरूपं मन्त्रविषये प्रयोगेऽञमुत्पादयति--ठ्महते सौभगायऽ, सर्वविधीनां च्छन्दसि विकल्पितत्वात् ठ्हृद्भगसिन्ध्वन्तऽ इत्युतरपदवृद्धिर्न भवति। अत एव मन्त्रे क्वचिदञ् न भवति--सौभाग्यमस्यै दत्वाय ॥ हायनान्तयुवादिभ्योऽण् ॥ हायनान्तात्वतलोः प्राप्तयोरण्विधानम्। यौवनमिति। ठन्ऽ इति प्रकृतिभावः, मनोज्ञादित्वद्वुञपि भवति। स्थविरशब्दस्य वयोलक्षणेऽञि प्राप्ते पाठः, होतृशब्दस्याप्युद्गात्रादित्वादञ्येव। पुरुषास इति। पुरुषशब्दोऽसमासेऽणमुत्पादयति, पौरुषम्, प्राणभृज्जातिवाचित्वादञ् प्राप्तः, मनुष्यजातिवचनो ह्रसौ न पुंस्शब्दपर्यायः पुंल्लिङ्गवचनः; स्त्रियामपि दशनात्--तस्यामस्यां च पुरुषीश्च धेनुके दद्यरिति। अस इति किम्? राजपुरुषत्वम्। कमण्डलुशब्दस्येगन्तत्वादेवाणि सिद्धे त्वतल्निवृत्यर्थः पाठः। हृदयास इति। दृदयशब्दोऽसमासेऽणमुत्पादयति-हृदयस्य भावो हार्दम्, ठ्हृदयस्य हृल्लोखयदण्लासेषुऽ इति हृद्भावः। असे इति किम् ? अहृदयत्वम्। ग्रहणवता प्रातिपदिकेन तदन्तविधिप्रतिषेधादेव सिद्धे समासप्रतिषेधश्चिन्त्यप्रयोजनः। कुशलादीनां क्षेत्रज्ञान्तानां ब्राह्मणादित्वात्ष्यञपि भवति। श्रोत्रियस्य घलोपश्चेति। यदा ठ्श्रोत्रियÄश्च्छन्दोधीतेऽ इत्यत्र च्छन्दसः श्रोतृभावो घश्च प्रत्यय इति पक्षः, तदा घलोपः; यदा तु ठ्वाक्यर्थे पदवचनम्ऽ इति पक्षः, तदा घशब्देन य इति रुपं लक्ष्यते। क्वचितु यलोपश्चेति पाठः; तत्र यलोपे सङ्गातग्रहणम्, वर्णग्रहणे त्वकारस्य यस्येतिलोपे सति इकारस्य यणादेशप्रसङ्गः, सङ्घातलोपे त्विकारस्य यस्येति लोपः---सर्वथा श्रोत्रियस्य भावः श्रौत्रमिति ॥
सिद्धान्तकौमुदी
कापेयम् । ज्ञातेयम् ॥
कपिज्ञात्योर्ढक् - कपिज्ञात्योर्ढक् । पञ्चम्यर्थे षष्ठी । आभ्यामपि षष्ठन्ताभ्यां भावकर्मणोर्ढगित्यर्थः । अत्र कपि ज्ञात्योर्भावकर्मणोश्च न यथासङ्ख्य, व्याख्यानात् ।
कपिज्ञात्योर्ढक् - कपिज्ञात्योः । इह कपिज्ञाती द्वौ, भावकर्मणी अर्थावपि द्वौ, तयोर्यथासङ्ख्यं नभवति, अस्वरितत्वप्रतिज्ञानात् । एवंपत्यन्तपुरोहितादिभ्यःट,द्वन्द्वमनोज्ञादिभ्यः॑इत्यत्रापि बोध्यम् । ब्राआहृणादित्वादिति । यद्यपि ब्राआहृणादिषु राजन् शब्दः केवलः पठितस्तथाप्ययमेवअसे॑इति प्रतिषेधो ज्ञापयतिअस्त्यत्र प्रकरणे राजन्शब्देन तदन्तविधि॑रिति । एवं त ब्राआहृणादिपाठस्य समासे चरितार्थत्वादसमासे विशेषविहितो यगेव भवति । अन्ये तु ब्राआहृणादेराकृतिगणत्वादेव तदन्तात्कतंचित्ष्यञि सिद्धे राजन्शब्दस्य तत्रपाठो यका सह समावेशार्थ इति । तथा चावेष्टधिकरणे शाबरभाष्ये उक्तं — -॒राज्ञः कर्म राज्यं, ब्राआहृणादित्वात् ष्यञि॑ति । पुरोहित, सङ्ग्रामिक, पथिक, सारथिकेत्यादयः पुरोहितादयः ।
लघुसिद्धान्तकौमुदी
कापेयम्। ज्ञातेयम्।
महाभाष्यम्
Text Unavailable. Please use feedback link below to provide the text if you have.