Page loading... Please wait.
5|1|117 - तदर्हम्
॥ तस्मै पाणिनये नमः ॥
5|1|117
SK 1780
तदर्हम्  
सूत्रच्छेदः
तत् (द्वितीयैकवचनम्) , अर्हम् (प्रथमैकवचनम्)
अनुवृत्तिः
क्रिया  5|1|115 (सप्तम्येकवचनम्, "क्रियायाम्" इति सप्तम्या विपरिणम्यते) , वतिः  5|1|115 (प्रथमैकवचनम्)
अधिकारः
प्रत्ययः  3|1|1 परश्च  3|1|2 आद्युदात्तश्च  3|1|3 ङ्याप्प्रातिपदिकात्  4|1|1 तद्धिताः  4|1|76 समर्थानां प्रथमाद्वा  4|1|82
सम्पूर्णसूत्रम्
"तत् अर्हम्" (इति) क्रियायाम् वतिः
सूत्रार्थः
"अर्हति" अस्मिन् अर्थे क्रियायाः निर्देशे कर्त्तव्ये द्वितीयासमर्थात् वति-प्रत्ययः भवति ।
अस्य सूत्रस्य अर्थज्ञानात् पूर्वम् केचन बिन्दवः ज्ञातव्याः -

1. अस्मिन् सूत्रे "अर्हम्" इति विद्यमानः शब्दः "अर्ह" इत्यस्य प्रथमैकवचनम् । "अर्ह" अयम् शब्दः अर्ह्-धातोः नन्दिग्रहिपचादिभ्यो ल्युणिन्यचः 3|1|134 इत्यनेन अच्-प्रत्ययं कृत्वा सिद्ध्यति । अर्हति सः अर्हः । अस्मिन्नेव अर्थे द्वितीयासमर्थात् वति-प्रत्ययः विधीयते ।

2. नन्दिग्रहिपचादिभ्यो ल्युणिन्यचः 3|1|134 इत्यनेन अच्-प्रत्यये कृते कर्ता वस्तुतः कर्तृकर्मणोः कृति 2|3|65 इत्यने षष्ठीविभक्तौ भवेत् । यथा - "आसनम् अर्हति सः आसनस्य अर्हः" इति । परन्तु अस्मिन् सूत्रे द्वितीया प्रयुज्यते । अतः अस्य सूत्रस्य सम्यक् अर्थम् कारयितुम् "अर्हः" इत्यस्य स्थाने विग्रहवाक्ये "अर्हति" इत्यस्यैव प्रयोगः क्रियते । यथा - "आसनम् अर्हति" इति ।

3. तेन तुल्यम् क्रिया चेद्वतिः 5|1|115 इत्यस्मात् "क्रिया" इत्यस्य अनुवृत्तिः अस्मिन् सूत्रे भवति । अपि च, एतम् शब्दं सप्तम्या विपरिणम्यते । इत्युक्ते, "अर्हति" अस्मिन् अर्थे क्रियायाः विषये एव अस्य सूत्रस्य प्रयोगः भवति, न हि "गुणस्य / वस्तुनः / पदार्थस्य विषये ।

एकम् उदाहरणम् पश्यामश्चेत् स्पष्टतरं स्यात् । कश्चन देवदत्तः यः स्वयम् ब्राह्मणः अस्ति, सः ब्राह्मणम् यावत् एव (समीचीनम्) वर्तनम् करोति - इति चिन्तयामः ।अस्यां स्थितौ "देवदत्तस्य वर्तनम् ब्राह्मणम् अर्हति" इति प्रयोगः भाषायां भवति । "ब्राह्मणम् अर्हति" इत्यत्र "वर्तन"क्रियायाः योग्यता उक्ता अस्ति । अतः अत्र वर्तमानसूत्रस्य प्रयोगं कृत्वा "देवदत्तः ब्राह्मणवत् वर्तते" इति उच्यते ।

अन्यानि अपि उदाहरणानि अग्रे वक्ष्यन्ते; परन्तु तस्मात् पूर्वम् अत्र कश्चन बिन्दुः ज्ञातव्यः । वस्तुतः उपरिनिर्दिष्टे उदाहरणे "देवदत्तः ब्राह्मणेन तुल्यम् वर्तते" इति वाक्यं क्रियते चेत् तेन तुल्यं क्रिया चेद्वतिः 5|1|115 इत्यनेनापि "वति"प्रत्ययविधानम् भवति । इत्युक्ते, सामान्यरूपेण "ताम् क्रियाम् अर्हति" इत्यस्य स्थाने "तेन तुल्यम् क्रियां करोति" इति वाक्यपरिवर्तनं कृत्वा नित्यमेव तेन तुल्यं क्रिया चेद्वतिः 5|1|115 इत्यनेन वति-प्रत्ययं कर्तुम् शक्यते । एवमस्ति चेत् वर्तमानसूत्रम् निरर्थकमेव स्यात् - इति भासते । परन्तु भाष्यकारः तु अस्य सूत्रस्य समर्थनमेव करोति । अस्य स्पष्टीकरणम् भाष्यकारेण एतादृशम् दीयते - तेन तुल्यं क्रिया चेद्वतिः 5|1|115 इत्यत्र "यदाऽन्येन कर्तव्यां क्रियामन्यः करोति तदा प्रत्यय उत्पाद्यते"; अपितु वर्तमानसूत्रे "आत्म-अर्हायाम् क्रियायाम् प्रत्ययः उत्पाद्यते" । कः अस्य अर्थः ? भाष्यकारस्य मतेन तेन तुल्यं क्रिया चेद्वतिः 5|1|115 इत्यस्य प्रसक्तिः तदा वर्तते यदा "अन्येन कर्तव्या क्रिया अन्यः करोति" । यथा, "देवदत्तः स्वयम् राजा नास्ति, परन्तु राजा यथा शासनम् करोति तथैव सोऽपि शासनम् करोति" - अस्याम् अवस्थायाम् देवदत्तः "अन्येन कर्तव्या क्रिया स्वयं करोति", अतः अत्र तेन तुल्यं क्रिया चेद्वतिः 5|1|115 इत्यनेन वति-प्रत्ययं कृत्वा "देवदत्तः राजवत् शास्ते" इति प्रयोगः भवति । परन्तु वर्तमानसूत्रे "आत्म-अर्हायाम् क्रियायाम्" प्रत्ययः उत्पाद्यते । इत्युक्ते, "देवदत्तः, यः स्वयम् एकः राजा अस्ति, सः तादृशम् शासनम् करोति यादृशम् राज्ञा कर्तव्यम्" - इत्यत्र देवदत्तः "स्वेन कर्तव्या क्रिया एव करोति" । अस्यां स्थितौ अत्र काऽपि तुलना एव न वर्तते; अतः च अत्र तेन तुल्यं क्रिया चेद्वतिः 5|1|115 इत्यस्य प्रसक्तिः अपि नास्ति । अस्याम् अवस्थायाम् "वति" प्रत्ययं कारयितुम् "राजानम् अर्हति देवदत्तः" इति उक्त्वा वर्तमानसूत्रम् प्रयुज्यते, अतश्च "देवदत्तः राजवत् अर्हति " इति प्रयोगः सिद्ध्यति । अतः भाष्यकारस्य मतेन वर्तमानसूत्रम् आवश्यकमेव । अस्मिन् विषये अधिकः विस्तारः तु जिज्ञासुभिः प्रदीपोद्योते द्रष्टव्यः ।

इदानीम् अन्यानि उदाहरणानि स्पष्टरूपेण दातुम् शक्यन्ते -

1. देवदत्तेन प्रजायाः कृतम् पालनम् राजानम् अर्हति (इत्युक्ते, यथा राजा पालयति तथैव देवदत्तः अपि पालयति)। अतः देवदत्तः "राजवत्" प्रजाम् पालयति ।
2. रामेण कृता इयम् पूजा विधिम् अर्हति (इत्युक्ते, विधिम् अनुसृत्य एव पूजा कृता अस्ति) । अतः रामः "विधिवत्" पूजयति ।
3. वसिष्ठेन कृतम् तपः ऋषिम् अर्हति । अतः वसिष्ठः "ऋषिवत्" तपते । वसिष्ठः स्वयम् एकः ऋषिः एव, अतः "आत्म-अर्हायाम् क्रियायाम्" प्रत्ययः उत्पाद्यते ।
4. कृष्णेन शत्रूणाम् कृतम् हननम् क्षत्रियम् अर्हति । अतः कृष्णः "क्षत्रियवत्" हन्ति ।

विशेषः - सूत्रपाठे वति-प्रत्ययः चतुर्षु अर्थेषु पाठ्यते - तेन तुल्यं क्रिया चेद्वतिः 5|1|115, तत्र तस्येव 5|1|116, तदर्हम् 5|1|117, तथा च उपसर्गाच्छन्दसि धात्वर्थे 5|1|118 । एते चत्वारः अर्थाः सामान्यरूपेण "वत्यर्थाः" नाम्ना ज्ञायन्ते । एतेभ्यः तृतीयः अर्थः वर्तमानसूत्रेण दीयते ।

ज्ञातव्यम् - वति-प्रत्ययस्य विषये केचन बिन्दवः तेन तुल्यं क्रिया चेद्वतिः 5|1|115 इत्यत्र उक्ताः सन्ति । ते अत्र संक्षेपेण निर्दिश्यन्ते । विस्तारेण पिपठिषवः तेन तुल्यं क्रिया चेद्वतिः 5|1|115 इत्यत्र पश्येयुः ।
[अ] तद्धितश्चासर्वविभक्तिः 1|1|38 अनेन सूत्रेण वति-प्रत्ययान्तशब्दाः अव्ययसंज्ञकाः भवन्ति ।
[आ] वति-प्रत्यये परे अङ्गस्य स्वादिष्वसर्वनामस्थाने 1|4|17 इत्यनेन पदसंज्ञा भवति, अतः पदविशिष्टं कार्यम् अपि भवितुम् अर्हति ।
[इ] "वति" प्रत्यये तकारस्य इत्संज्ञा मा भूत् - इति निर्देशयितुम् इकारः स्थापितः अस्ति ।
[ई] स्त्री-शब्दात् तथा पुम्स्-शब्दात् स्त्रीपुंसाभ्यां नञ्स्नञौ भवनात् 4|1|87 इति बाधित्वा वत्यर्थेषु "वति" प्रत्ययः एव भवति ।
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
ततिति द्वितीयासमर्थातर्हम् इत्येतस्मिन्नर्थे वतिः प्रत्ययो भवति। राजानम् अर्हति राजवत् पालनम्। ब्राह्मणवतृषिवत्। क्षत्रियवत्।
अरहतीत्यर्थः। क्रियाग्रहणमिहानुवत्र्तते, ततोऽस्यामेवर्हणक्रियायां कर्तृभूतायां प्रत्ययो विधीयत इति। यत्रासौ प्रत्ययार्थत्वेन विवक्ष्यते, तत्र वाक्यमेव भवति--ब्राआहृणमर्हतीति॥
तदिति द्वितीयासमर्थादिति। अर्हशब्दः पचाद्यजन्तस्तद्योगे कर्मणि षष्ठ।ल भवितव्यम्, निपातनातु द्वितीया। अपर आह--विग्रहवाक्याभिप्रायमेतत्; यदा राजानमर्हतीत्येवं तिह्न्तेन विग्रह्यते तदा द्वितीया समर्थमिति। सूत्रे त्वर्हमिति कर्मोपपदादच्प्रत्ययः कृत इति। इह क्रियाग्रहणमनुवर्तते--यतदर्ह क्रिया चेत्सा भवतीति, राजानमर्हति वृतं राजवद्वर्तते, इह न भवति--राजानमर्हति च्छत्रम्, व्राह्मणमर्हति दधीति। यद्येवम्, राज्ञा तुल्यं वर्तते इति विग्रहाश्रयणेन पूर्वेणैव वतिः सिद्धः ? इह तर्हि राजवद्वर्तते राजेति भेदाभावेन तन्निबन्धनस्य सादृश्यस्याभावादप्राप्तो वतिरनेन विधीयते। अत्रापि राजत्वेन ये प्रसिद्दा भरतादयस्त उपमानानीदानीन्तनानामिति सिद्धो वतिः। यदा तर्हि राजशब्दः सामान्यवचनः प्रसिद्धविशेषविषयो वा--राजवदयं वर्तते भरत इति, तदा सादृश्याभावादप्राप्तिः। विनीतवदुपस्यितं चिच्छेद कृतहस्तवदिति विनीतानामिदं योग्यमुपस्थानम् कृतहस्तानामिदं योग्यं छेदन मिति गम्यते, न तु सादृश्यम्। उक्तं च-- ठ्युक्तमौपयिकं राज्ञ इत्यर्थस्य निदर्शनम्। उपमानविवक्षायां तदर्हमिति पठ।ल्ते ऽ ॥ इति । यदा त्वेकमेव वस्तु अवस्थाभेदपरिकल्पितभेदमुपमानोपमेयत्वेन विवक्ष्यते, तदा नार्थोऽनेन। तथा चेवशब्दस्य प्रयोगो दृश्यते--राजेवायं राजा युध्यते, वैय्याकरण इव वैत्याकरणो ब्रूते, रामरावणयोर्युद्धं रामरावणयोरिवेति। उक्तम्---- ठ्तदर्हमिति नारब्धं सूत्रं व्याकर्णान्तरे। सम्भवत्युपमात्रापि भेदस्य परिकल्पनात्ऽ ॥
सिद्धान्तकौमुदी
विधिमर्हति विधिवत्पूज्यते । क्रियाग्रहणं मण्डूकप्लुत्यानुर्तते । तनेह न । राजानमर्हति छत्रम् ॥
तदर्हम् - तदर्हम् । अर्हतीत्यर्हम् । पचाद्यच् । तदिति कर्मणि द्वितीयान्तम्, लब्धुं योग्यं भवतीत्यर्थात् । कृद्योगलक्षणषष्ठभावस्तु आर्षः । वतिरित्यनुवर्तते । द्वितीयान्तादर्हतीत्यर्थे वतिः स्यादित्यर्थः । विधिमर्हतीति । विधिं लब्धुं योग्यं भवतीत्यर्थः । विधिबत्पूज्यत इति ।हरि॑रिति शेषः । विंधिं लब्धु योग्यं हरिपूजनमित्यर्थः । विहितं प्रकारमनतिक्रान्तमिति यावत् । मण्डूकप्लुत्येति । पूर्वसूत्रे अननुवृत्तेरिति भावः ।
तदर्हम् - तदर्हम् । अर्हतीत्यहम् । पचाद्यच् । यद्यपि कृद्योगे कर्मणि षष्ठआ भवितव्यम्, तथापि अत्र सौत्रो विभक्तिव्यत्यय इत्येके ।कर्तृकर्मणो॑रिति षष्ठआ अनित्यत्वे ज्ञापकमिदम् । तेन चधायैरामोदमुत्तम॑मिति भट्टिप्रयोगः सङ्गच्छत इति तु कारकेष्ववोटाम । द्वितीयान्तादेव प्रत्यय इति स्फुटीकर्तुं तिङन्तेन वगृह्णाति — — विधिमर्हतीति । कथं तर्हिततो यथावद्विहिताध्वराये ॑कि असत्त्वार्थकस्य कर्मत्वाऽसंभवेन द्वितीयान्तत्वाऽभावादिति चेत् । अत्राहुः — — यथाशब्दो वृत्तिविषये सत्त्वार्थकः,तथात्वं॑यथात्व॑मित्यादिषु त्वतलादिदर्शनात् । अन्यथा षष्ठपि नास्तीति त्वतलौ न स्याताम् । तथा च द्वितीयान्ताद्यशब्दादर्हार्थे वतिः । योग्यतामर्हतीति विधानमित्यर्थाक्रियायोगोऽपि सुलभ इति ।
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
तदर्हम् (1999) (सूत्राक्षेपभाष्यम्) किमर्थमिदमुच्यते न तेन तुल्यं क्रिया चेद्वतिः (115) इत्येव सिद्धम्? (फलसमर्थकभाष्यम्) न सिध्यति। तृतीयासमर्थात्तत्र यदाऽन्येन कर्तव्यां क्रियामन्यः करोति तदा प्रत्यय उत्पाद्यते। इह पुनर्द्वितीयासमर्थादात्मार्हायां क्रियायामर्हतिकर्तरि निश्चितबलाधाने प्रत्यय उत्पाद्यते ‐ ब्राह्मणवद्भवान् वर्तते। एतद्वृत्तं ब्राह्मणमर्हतीति।।