Page loading... Please wait.
5|1|110 - विशाखाषाढादण् मन्थदण्डयोः
॥ तस्मै पाणिनये नमः ॥
5|1|110
SK 1773
विशाखाषाढादण् मन्थदण्डयोः   🔊
सूत्रच्छेदः
विशाखा-आषाढात् (पञ्चम्येकवचनम्) , अण् (प्रथमैकवचनम्) , मन्थ-दण्डयोः (सप्तमीद्विवचनम्)
अनुवृत्तिः
अस्य  5|1|104 (षष्ठ्येकवचनम्) , तत्  5|1|104 (प्रथमैकवचनम्) , प्रयोजनम्  5|1|109 (प्रथमैकवचनम्)
अधिकारः
प्रत्ययः  3|1|1 परश्च  3|1|2 आद्युदात्तश्च  3|1|3 ङ्याप्प्रातिपदिकात्  4|1|1 तद्धिताः  4|1|76 प्राग्वतेष्ठञ्  5|1|18 समर्थानां प्रथमाद्वा  4|1|82
सम्पूर्णसूत्रम्
"तत् अस्य प्रयोजनम्" (इति) विशाखा-आषाढात् मन्थ-दण्डयोः अण्
सूत्रार्थः
"अस्य प्रयोजनम्" अस्मिन् अर्थे प्रथमासमर्थात् "विशाखा" शब्दात् मन्थस्य निर्देशं कर्तुम्, तथा च "आषाढा" शब्दात् दण्डस्य निर्देशं कर्तुम् अण् प्रत्ययः भवति ।
प्रयोजनम् इत्युक्ते उद्देशः / कारणम् / फलम् (goal / purpose) । प्रथमासमर्थात् उद्देशवाचीशब्दात् "अस्य" इत्यस्मिन् अर्थे प्रयोजनम् 5|1|109 इत्यनेन औत्सर्गिकरूपेण ठञ्-प्रत्यये प्राप्ते तं बाधित्वा वर्तमानसूत्रेण "विशाखा" शब्दात् मन्थस्य निर्देशं कर्तुम्, तथा च "आषाढा" शब्दात् दण्डस्य निर्देशं कर्तुम् अण्-प्रत्ययः भवति । क्रमेण पश्यामः -

1) "विशाखा" शब्दात् "मन्थ" (मन्थनार्थे प्रयुक्तः दण्डः) अस्मिन् अर्थे अण् प्रत्ययः भवति । विशाखा प्रयोजनम् अस्य सः वैशाखः मन्थः । सः दण्डः यः मन्थनार्थम् विशाखानक्षत्रे प्रयुज्यते, सः वैशाखः मन्थः ।
2) "आषाढा" शब्दात् "दण्ड" (मुनीनाम् हस्ते अस्ति सः दण्डः) अस्मिन् अर्थे अण् प्रत्ययः भवति । आषाढा प्रयोजनम् अस्य सः आषाढः दण्डः । आषाढानक्षत्रे प्रयुज्यमानः दण्डः "आषाढः" इति संज्ञां प्राप्नोति ।

स्मर्तव्यम् - "वैशाखः मन्थः तथा आषाढः दण्डः - एतौ द्वौ विशिष्टौ संज्ञावाचकशब्दौ स्तः । कस्यचन विशिष्टस्य मन्थस्य नाम "वैशाख" इति अस्ति; तथा च कस्यचन विशिष्टस्य दण्डस्य नाम "आषाढः दण्डः" इति वर्तते । एतयोः शब्दयोः व्युत्पत्यर्थम् अस्य सूत्रस्य निर्माणम् कृतम् अस्ति ।

अत्र वार्त्तिकमेकं ज्ञातव्यम् - चूडादिभ्यः उपसंख्यानम् - "चूडा" तथा "श्रद्धा" - एताभ्यां शब्दाभ्यां "प्रयोजनम्" अस्मिन् अर्थे अण् प्रत्ययः भवति । चूडा प्रयोजनम् अस्य चौडम् । श्रद्धा प्रयोजनम् अस्य तत् श्राद्धम् ।
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
विशाखाषढाशब्दाभ्याम् अण् प्रत्ययो भवति तदस्य प्रयोजनम् इत्येतस्मिन् विषये यथासङ्ख्यम् मन्थदण्डयोरभिधेययोः। विशाखा प्रयोजनम् अस्य वैशाखो मन्थः। आषाढो दण्डः। चूडादिभ्य उपसङ्ख्यानम्। चूडा प्रयोजनम् अस्य चौडम्। श्रद्धा प्रयोजनम् अस्य श्राद्धम्।
ठञपवादो योगः। मन्थोऽवक्षारो विलोडनदण्डो वा॥
विशाखा प्रयोजनमस्येति। विशाखाषाढशब्दौ रूढिरूपेण मन्थदण्डयोर्वर्तेते, तयोर्यथाकञ्चिद्व्युत्पत्तिः क्रियते। मन्थःउविलोडनदण्डः। आषाढःउव्रतीनां दण्डः। श्रद्धा प्रयोजनमस्येति। अत्र करणं प्रयोजनम् ॥
सिद्धान्तकौमुदी
आभ्यामण्स्यात्प्रयोजनमित्यर्थे क्रमान्मन्थदण्डयोर्थयोः । विशाखा प्रयोजनमस्य वैशाखो मन्थः । आषाढो दण्डः ॥ । चूडादिभ्य उपसंख्यानम् (वार्तिकम्) ॥ चूडी, चौडम् । श्रद्धा, श्राद्धम् ॥
विशाखाऽ‌ऽषाढादण् मन्थदण्डयोः - विशाखाषाढात् । विशाखाशब्दादाषाढशब्दाच्च प्रथमान्तादस्य प्रयोजनमित्यर्थे अण् स्यात्, समुदायेन मन्थे दण्डे च क्रमाद्गम्ये सतीत्यर्थः । तदाह — आब्यामिति । स्थूणामेका निखाय तस्यां रज्जुद्वयमधरोत्तरमासज्य तयो रज्ज्वोर्मन्थनदण्ड ऊध्र्वमासज्यते । येन रज्ज्वा भ्रामितेन दधि विलोडते इति स्थितिः । तत्र स्थूणा मन्थ इत्युच्यते । मन्थानाख्यदण्डो दण्ड उच्यते । अनयोर्वैशाखशब्द आषाढशब्दश्च रूढौ । तत्रावयवार्थाभिनिवेशो न कर्तव्यः । चूडादिभ्य इति । चूडादिभ्यः प्रतमान्तेभ्योऽस्य प्रयोजनमित्यर्थे अणित्यर्थः । चौडमिति । चूडाप्रयोजनमस्येति विग्रहः । डलयोरभेदाच्चौलमित्यपि । श्राद्धमिति । श्रतद्धा प्रयोजनमस्येति विग्रहः । श्रद्धाशब्दादणि श्राद्धमित्यर्थः । अत्र प्रयोजनशब्दः कारणवाची । श्रद्धाहेतुकमिति यावत् ।
Text Unavailable. Please use feedback link below to provide the text if you have.
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
Text Unavailable. Please use feedback link below to provide the text if you have.