Page loading... Please wait.
5|1|102 - योगाद्यच्च
॥ तस्मै पाणिनये नमः ॥
5|1|102
SK 1766
योगाद्यच्च   🔊
सूत्रच्छेदः
योगात् (पञ्चम्येकवचनम्) , यत् (प्रथमैकवचनम्) , च (अव्ययम्)
अनुवृत्तिः
प्रभवति  5|1|101 (क्रियापदम्) , तस्मै  5|1|101 (चतुर्थ्येकवचनम्)
अधिकारः
प्रत्ययः  3|1|1 परश्च  3|1|2 आद्युदात्तश्च  3|1|3 ङ्याप्प्रातिपदिकात्  4|1|1 तद्धिताः  4|1|76 प्राग्वतेष्ठञ्  5|1|18 समर्थानां प्रथमाद्वा  4|1|82
सम्पूर्णसूत्रम्
"तस्मै प्रभवति" (इति) योगात् यत् ठञ् च
सूत्रार्थः
"प्रभवति" अस्मिन् अर्थे चतुर्थीसमर्थात् "योग"शब्दात् "यत्" तथा "ठञ्" प्रत्ययः भवति ।
"प्रभवति" इत्युक्ते "अलम्" (sufficient) / समर्थः (capable) / शक्तः (competent) । अस्मिन् अर्थे चतुर्थीसमर्थात् "योग"शब्दात् "यत्" तथा "ठञ्" प्रत्ययौ भवतः । योगाय प्रभवतिः तत् योग्यम् यौगिकम् वा कार्यम् ।

स्त्रीत्वे यत्-प्रत्ययान्तशब्दात् अजाद्यतष्टाप् 4|1|4 इति टाप्-प्रत्ययः भवति, तथा च ठञ्-प्रत्ययान्तशब्दात् टिड्ढाणञ्.. 4|1|15 इति ङीप्-प्रत्ययः भवति । योगाय प्रभवतिः सा योग्या यौगिकी वा क्रिया ।
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
योगशब्दात् यत् प्रत्ययो भवति, चकारात् ठञ्, तस्मै प्रभवति इत्यस्मिन् विषये। योगाय प्रभवति योग्यः, यौगिकः।
Text Unavailable. Please use feedback link below to provide the text if you have.
Text Unavailable. Please use feedback link below to provide the text if you have.
सिद्धान्तकौमुदी
चाट्ठञ् । योगाय प्रभवति योग्यः यौगिकः ॥
योगाद्यच्च - योगाद्यच्च ।चतुथ्र्यन्तात्प्रभवतीत्यर्थे॑ इति शेषः ।
Text Unavailable. Please use feedback link below to provide the text if you have.
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
Text Unavailable. Please use feedback link below to provide the text if you have.