Page loading... Please wait.
5|1|100 - कर्मवेषाद्यत्
॥ तस्मै पाणिनये नमः ॥
5|1|100
SK 1764
कर्मवेषाद्यत्   🔊
सूत्रच्छेदः
कर्म-वेषात् (पञ्चम्येकवचनम्) , यत् (पञ्चम्येकवचनम्)
अनुवृत्तिः
सम्पादिनि तेन 3/1 [5|1|98]  5|1|99 (सप्तम्येकवचनम्)
अधिकारः
प्रत्ययः  3|1|1 परश्च  3|1|2 आद्युदात्तश्च  3|1|3 ङ्याप्प्रातिपदिकात्  4|1|1 तद्धिताः  4|1|76 प्राग्वतेष्ठञ्  5|1|18 समर्थानां प्रथमाद्वा  4|1|82
सम्पूर्णसूत्रम्
"तेन सम्पादिनि" (इति) कर्म-वेषात् यत्
सूत्रार्थः
तृतीयासमर्थात् "कर्म"शब्दात् "वेष"शब्दात् च "सम्पादिनि" अस्मिन् अर्थे यत्-प्रत्ययः भवति ।
"सम्पादिनि" इति सम्पादिन्-शब्दस्य सप्तम्येकवचनम् । सम्पादिन् इत्युक्ते "यः शोभते सः" (The one that looks beautiful - इत्यर्थः) । तृतीयासमर्थात् सम्पादिनि 5|1|100 इत्यनेन सर्वेभ्यः प्रातिपदिकेभ्यः ठञ्-प्रत्यये प्राप्ते तं बाधित्वा "कर्म"शब्दात् तथा "वेष"शब्दात् वर्तमानसूत्रेण यत्-प्रत्ययः भवति । यथा -

1. कर्मेण सम्पादि कर्म्यम् शरीरम् । कर्म कृत्वैव यत् शोभते, न हि आलस्येन, तत् कर्म्यम् शरीरम् ।
2. वेषेण सम्पादी वेष्यः नटः । उचितं वेषं धारयित्वा यः शोभते सः वेष्यः नटः (actor) ।

ज्ञातव्यम् - "सम्पत्ति" शब्दात् आवश्यकाधमर्णयोर्णिनिः 3|3|170 अनेन सूत्रेण "णिनि" प्रत्ययं कृत्वा "सम्पादिन्" इति इन्नन्तः शब्दः सिद्ध्यति ।
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
कर्मवेषशब्दाभ्यां तृतीयासमर्थाभ्यां यत् प्रत्ययो भवति सम्पादिनि इत्येतस्मिन् विषये। ठञो ऽपवादः। कर्मणा सम्पद्यते कर्मण्यम् शरीरम्। वेषेण संपद्यते वेष्यो नटः।
`कण्र्यम्` इति। `ये चाभावकर्मणोः` 6|4|168 इति प्रकृतिभावः॥
कर्मृउव्यायामः, वेषःउकृत्रिम आकारः ॥
सिद्धान्तकौमुदी
कर्मणा संपादि कर्मण्यं शौर्यम् । वेषेण संपादी वेष्यो नटः । वेषः कृत्रिम आकारः ॥
कर्मवेषाद्यत् - कर्मवेषाद्यत् । तृतीयान्तात्कर्मन्शब्दात्, वेषशब्दाच्च संपादिन्यर्थे यत्स्यादित्यर्थः ।
Text Unavailable. Please use feedback link below to provide the text if you have.
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
Text Unavailable. Please use feedback link below to provide the text if you have.