Page loading... Please wait.
4|4|99 - प्रतिजनादिभ्यः खञ्
॥ तस्मै पाणिनये नमः ॥
4|4|99
SK 1651
प्रतिजनादिभ्यः खञ्   🔊
सूत्रच्छेदः
प्रतिजन-आदिभ्यः (पञ्चमीबहुवचनम्) , खञ् (प्रथमैकवचनम्)
अनुवृत्तिः
संज्ञायाम्  4|4|89 (सप्तम्येकवचनम्) , साधुः  4|4|99 (प्रथमैकवचनम्) , तत्र  4|4|99 (अव्ययम्)
अधिकारः
प्रत्ययः  3|1|1 परश्च  3|1|2 आद्युदात्तश्च  3|1|3 ङ्याप्प्रातिपदिकात्  4|1|1 तद्धिताः  4|1|76 प्राग्घिताद्यत्  4|4|75 समर्थानां प्रथमाद्वा  4|1|82
सम्पूर्णसूत्रम्
"तत्र साधुः" इति प्रतिजनादिभ्यः संज्ञायाम् खञ्
सूत्रार्थः
"साधुः" अस्मिन् अर्थे प्रतिजनादिगणस्य शब्देभ्यः सप्तमीसमर्थेभ्यः शब्देभ्यः संज्ञायाः विषये खञ्-प्रत्ययः भवति ।
"साधुः" इत्युक्ते प्रवीणः, कुशलः, योग्यः । "साधुः" अस्मिन् अर्थे प्रतिजनादिगणस्य सप्तमीसमर्थेभ्यः शब्देभ्यः संज्ञायाः विषये खञ्-प्रत्ययः भवति ।

प्रतिजनादिगणः अयम् -
प्रतिजन, इदंयुग, संयुग, समयुग, परयुग, परकुल, परस्यकुल, अमुष्यकुल, सर्वजन, विश्वजन, पञ्चजन, महाजन ।

उदाहरणानि -
1. जनम् जनम् प्रतिजनम् । प्रतिजने साधुः सः प्रतीजनीनः ।
प्रतिजन + खञ्
→ प्रतिजन + ईन [आयनेयीनीयियः फढखच्छघां प्रत्ययादीनाम्‌ 7|1|2 इति खकारस्य ईन्-आदेशः]
→ प्रातिजन + ईन [तद्धितेष्वचामादेः 7|2|117 इति आदिवृद्धिः]
→ प्रातिजन् + ईन [यस्येति च 6|4|148 इति अकारलोपः]
→ प्रातिजनीन

प्रत्येकम् जनम् प्रति (व्यवहारे) यः कुशलः, सः प्रातिजनीनः उच्यते ।

2. इदंयुगे साधुः ऐदंयुगीनः । अस्मिन् युगे (भिन्नेषु कर्तव्येषु) यः प्रवीणः सः ऐदंयुगीनः ।

3. परयुगे साधुः पारयुगीणः ।
4. विश्वजने साधुः वैश्वजनीनः ।
5. महाजने साधुः माहाजनीनः ।
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
प्रतिजनादिभ्यः शब्देभ्यः खञ् प्रत्ययो भवति तत्र साधुः इत्येतस्मिन्नर्थे। यतो ऽपवादः। प्रतिजने साधुः प्रातिजनीनः। जने जने साधुः इत्यर्थः। ऐदंहुगीनः। सांयुगीनः। प्रतिजन। इदंयुग। संयुग। समयुग। परयुग। परकुल। परस्यकुल। अमुष्यकुल। सर्वजन। विश्वजन। पञ्चजन। महाजन। प्रतिजनादिः। यत्र हितार्थ एव साध्वर्थस्तत्र वचनात् प्राक्क्रीतीया बाध्यन्ते।
जनं जनं प्रति प्रतिजनम्, `यथार्थेऽव्ययम्` 2|1|6 इत्यव्ययीभावः। `परस्यकुलम्, अमुष्यकुलम्` इति। निपातनादलुक्। `षष्ठआ आक्रोशे` 6|3|20 इति वा यदा परकुलत्वेनाक्रुश्यते।`यत्र` इत्यादि। `प्रतिजन` , `सर्वजन` इत्येवमादिषु केषुचिद्धितार्थ एव प्रतियते, न तु प्रवीणो योग्यशब्दस्यार्थः। तेन तत्र वचनसामथ्र्यात् परेऽपि प्राक्क्रीतीयाः प्रत्यया बाध्यन्ते। अन्यथा हि वचनमनर्थकं स्यात्॥
जनं जनं प्रति प्रतिजनमिति ठ्यथार्थे--यदव्ययम्ऽ इति वीप्सायामव्ययीभावः । प्रतिजने साधुरिति । ठ्तृतीयासमप्तम्योर्वहुलम्ऽ । परस्यकुलम्, अमुष्यकुलमिति । षष्ठीसमासेऽस्मादेव निपातनात षष्ठ।ल अलुक् । पूर्वसूत्र उक्तम्---ठ्साधुः प्रवीणो योग्यो वा गृह्यते, नोपकारकःऽ, तत्र प्राक्क्रीतीयानामेवेष्टत्वादिति, इह तु न तथेत्याह---यत्रेति । प्राक्क्रीतीया बाध्यन्ते इति । अप्राप्तिरत्र बाधः; न हि चतुर्थ्यन्ताद्विधीयमानानां सप्तम्यन्तेभ्यः प्राप्तिरस्ति । तत्र प्राक्क्रीतीया न भवन्तीति वक्तव्ये बाध्यत इत्युक्तम्---ठ्चतुर्थ्यन्तेभ्योऽप्यनभिधानात्प्राक्क्रीतीया न भवन्तिऽ इति दर्शयितुम् ॥
सिद्धान्तकौमुदी
प्रतिजनं साधुः प्रातिजनीनः । सांयुगीनः । सार्वजनीनः । वैश्वजनीनः ॥
प्रतिजनादिभ्यः खञ् - प्रतिजनादिभ्यः खञ् । तत्र साधुरित्येव । सप्तम्यन्तेभ्य एभ्यः साधुरित्यर्थे खञ् स्यादित्यर्थः । प्रातिजनीन इति ।प्रतिजन॑मिति वीप्सायामव्ययीभावः । तत्र साधुरित्यर्थः । एवं-वैआजनीनः ।
प्रतिजनादिभ्यः खञ् - प्रतिजनमिति । जनंजनं प्ति[जनो जन इति] प्रतिजनम् । वीप्सायामव्ययीभावः । प्रतिजन, इदंयुग, संयुग, पापकुल, परस्यकुल, अमुष्यकुल, सर्वजन, विआजन, पञ्चजन ।परस्य॒॑अमुष्य॑इति षष्ठएषा निपातनादलुक् ।
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
Text Unavailable. Please use feedback link below to provide the text if you have.