Page loading... Please wait.
4|4|98 - तत्र साधुः
॥ तस्मै पाणिनये नमः ॥
4|4|98
SK 1650
तत्र साधुः  
सूत्रच्छेदः
तत्र (अव्ययम्) , साधुः (प्रथमैकवचनम्)
अनुवृत्तिः
संज्ञायाम्  4|4|89 (सप्तम्येकवचनम्)
अधिकारः
प्रत्ययः  3|1|1 परश्च  3|1|2 आद्युदात्तश्च  3|1|3 ङ्याप्प्रातिपदिकात्  4|1|1 तद्धिताः  4|1|76 प्राग्घिताद्यत्  4|4|75 समर्थानां प्रथमाद्वा  4|1|82
सम्पूर्णसूत्रम्
"तत्र साधुः" (इति) संज्ञायाम् समर्थानाम् प्रथमात् परः यत्-प्रत्ययः
सूत्रार्थः
सप्तमीसमर्थात् साधुः (कुशलः / प्रवीणः / योग्यः) अस्मिन् अर्थे संज्ञायाः विषये यत्-प्रत्यय भवति ।
"साधुः" इत्युक्ते प्रवीणः, कुशलः, योग्यः । "साधुः" अस्मिन् अर्थे सप्तमीसमर्थात् यत्-प्रत्ययः वर्तमानसूत्रेण विधीयते ।

यद्यपि अस्य सूत्रस्य प्रयोगः सर्वेभ्यः सप्तमीसमर्थेभ्यः भवितुम् अर्हति, तथापि "संज्ञायाम्" इत्यस्य अनुवृत्तिः अत्र विद्यते, अतः केवलं विशिष्ट-प्रयोगेषु एव अस्य सूत्रस्य प्रसक्तिः अस्ति, न अन्यत्र ।

यथा -

1. सामसु साधुः
= सामन् + यत्
→ सामन्य । [नस्तद्धिते 6|4|144 इत्यनेन टिलोपे प्राप्ते, तथा च अल्लोपोऽनः 6|4|134 इत्यनेन उपधा-अकारस्य लोपे प्राप्ते, ये चाभावकर्मणोः 6|4|168 इत्यनेन प्रकृतिभावः]
सामकार्येषु प्रवीणः सः सामन्यः ।

एवमेव -
2. कर्मणि साधुः सः कर्मण्यः ।
3. वेमनि (हत्यायाम्) साधुः सः वेमन्यः ।
4. शरणे साधुः सः शरण्यः ।
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
तत्र इति सप्तमीसमर्थात् साधुः इत्येतस्मिन्नर्थे यत् प्रत्ययो भवति। सामसु साधुः सामन्यः। वेमन्यः। कर्मण्यः। शरण्यः। साधुः इह प्रवीणो योग्यो वा गृह्यते, न उपकारकः। तत्र हि परत्वात् तस्मै हितम् 5|1|5 इत्यनेन विधिना भवितव्यम्।
`सामन्यः` इति। `ये चाभावकर्मणोः` 6|4|168 इति प्रकृतिभावः। साधुरिह निपुणः, योग्य इति भावः॥
सामन्य इति । ठ्ये चाभावकर्मणोःऽ इति प्रकृतिभावः । प्रवीणः उ निपुणः, योग्यः उ समर्थः । तत्र हि परत्वादिति । ठ्तस्मै हितम्ऽ इत्यनेन चतुर्थीसमर्थात्प्रत्ययो विधीयते, अनेन तु सप्तमीसमर्थातेन नात्र ठ्विप्रतिषेधे परम्ऽ इत्येतत्परत्वापरत्वं विवक्षितम्, कि तर्हि ? इष्टवाची परशब्दः, उपकारलक्षणे साधौ प्राक्क्रीतीयानामेवेष्टत्वात् ठ्तस्मै हितम्ऽ इत्यनेन विधिना भवितव्यमित्यर्थः । एतच्च संज्ञाधिकाराल्लभ्यते ॥
सिद्धान्तकौमुदी
अग्रे साधुः अग्र्यः । सामसु साधुः सामन्यः । येचाभावकर्मणोः (कौमुदी-1154) इति प्रकृतिभावः । कर्मण्यः । शरण्यः ॥
तत्र साधुः - तत्र साधुः । सप्तम्यन्तात्साधुरित्यर्थे यत्स्यादित्यर्थः । अग्रय इति । अग्रे साधुरित्यर्थः । साधुरत्र प्रवीणो गृह्रते, नतु हितः, तत्रतस्मै हित॑मिति वक्ष्यमाणत्वात् ।
तत्र साधुः - तत्र साधुः । सा४धुरिह प्रवीणो योग्यो वा गृह्रते, निपकर्ता । तत्र हि परत्वात्तस्मै हित॑मित्येन भाव्यम् । संज्ञाधिकारादुपकर्ता न गृह्रत इत्यन्ये ।
लघुसिद्धान्तकौमुदी
अग्रे साधुः - अग्र्यः। सामसु साधुः सामन्यः। ये चाभावकर्मणोरिति प्रकृति भावः। कर्मण्यः। शरण्यः॥
महाभाष्यम्
Text Unavailable. Please use feedback link below to provide the text if you have.