Page loading... Please wait.
4|4|96 - बन्धने चर्षौ
॥ तस्मै पाणिनये नमः ॥
4|4|96
SK 1648
बन्धने चर्षौ   🔊
सूत्रच्छेदः
बन्धने (सप्तम्येकवचनम्) , च (अव्ययम्) , ऋषौ (सप्तम्येकवचनम्)
अनुवृत्तिः
संज्ञायाम्  4|4|89 (सप्तम्येकवचनम्) , हृदयस्य  4|4|95 (षष्ठ्येकवचनम्)
अधिकारः
प्रत्ययः  3|1|1 परश्च  3|1|2 आद्युदात्तश्च  3|1|3 ङ्याप्प्रातिपदिकात्  4|1|1 तद्धिताः  4|1|76 प्राग्घिताद्यत्  4|4|75 समर्थानां प्रथमाद्वा  4|1|82
सम्पूर्णसूत्रम्
"हृदयस्य बन्धने" (इति) संज्ञायाम् ऋषौ यत् च
सूत्रार्थः
षष्ठीसमर्थात् "हृदय" शब्दात् "बन्धने" अस्मिन् अर्थे ऋषौ (वेदे) अभिधेये संज्ञायाम् यत्-प्रत्ययः भवति ।
आदौ सूत्रे प्रयुक्तानां शब्दानाम् अर्थं पश्यामः -
1. बन्धनम् = बद्ध्यते (बाधनम् क्रियते) येन, तत् बन्धनम् ।
2. ऋषिः = वेदमन्त्रः ।

अतः अस्य सूत्रस्य अर्थः अयम् - येन वेदमन्त्रेण हृदयस्य बन्धनम् क्रियते (इत्युक्ते, मनः वशीक्रियते), तस्य निर्देशार्थम् "हृदय" शब्दात् यत्-प्रत्ययः भवति ।

हृदयस्य बन्धनम् करोति सः
= हृदय + यत्
→ हृद् + य [हृदयस्य हृल्लेखयदण्लासेषु 6|3|50 इत्यनेन भसंज्ञकस्य "हृदय"शब्दस्य यत्-प्रत्यये परे हृद्-आदेशः]
→ हृद्यः ऋषिः (वेदमन्त्रः)

ज्ञातव्यम् - अत्र "संज्ञायाम्" इति अनुवर्तते, अतः अत्र "ऋषि" इत्यस्य अर्थः केवलं "वेदः" इत्येव स्वीक्रियते, न हि "मुनिः" इति ।
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
हृदयस्य इत्येव। बन्धने इति प्रत्ययार्थः। तद्विशेषणम् ऋषिग्रहनम्। वध्यते येन तद् बन्धनम्। हृदयशब्दात् षष्ठीसमर्थाद् बन्धने ऋषावभिधेये यत् प्रत्ययो भवति। ऋषिर् वेदो गृह्यते। हृदयस्य बन्धनम् ऋषिः हृद्यः। परहृदयं येन बध्यते वशीक्रियते स वशीकरणमन्त्रो हृद्यः इत्युच्यते।
ऋषिशब्दोऽयमस्त्येव गुणवति पुरुषविशेषे, अस्ति च वेदे;इह संज्ञाधिकारादेव न मनुष्यग्रहणमिति दर्शयति-- `ऋषिर्वेदो गृह्रते (इति)॥
षष्ठीसमर्थादिति । बन्धनयोगे कृद्योगलक्षणा कर्मणि षष्ठी । ऋषिर्वेदो गृह्यते इति । ठ्तदुक्तमृषिणाऽ इत्यादौ दर्शनात् । यत्स्वाध्यानसम्पन्ने वसिष्ठादवृषिशब्दः, तस्य ग्रहणं न भवति; संज्ञाधिकारात् ॥
सिद्धान्तकौमुदी
हृदयशब्दात् षठ्यन्ताद्बन्धने यत्स्याद्वेदेऽभिधेये । हृदयस्य बन्धनं ह्रद्यो वशीकरणमन्त्रः ॥
बन्धने चर्षौ - बन्धने चर्षौ ।
बन्धने चर्षौ - बन्धने । बध्यतेऽनेनेति बन्धनः । करणे ल्युट् । वशीकरणमन्त्र इति । ते नहि परह्मदयं वशीक्रियते । संज्ञाधिकारद्व सिष्ठादावृषौ नायं यत् ।
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
Text Unavailable. Please use feedback link below to provide the text if you have.