Page loading... Please wait.
4|4|90 - गृहपतिना संयुक्ते ञ्यः
॥ तस्मै पाणिनये नमः ॥
4|4|90
SK 1642
गृहपतिना संयुक्ते ञ्यः   🔊
सूत्रच्छेदः
गृहपतिना (तृतीयैकवचनम्) , संयुक्ते (सप्तम्येकवचनम्) , ञ्यः (प्रथमैकवचनम्)
अनुवृत्तिः
संज्ञायाम्  4|4|89 (सप्तम्येकवचनम्)
अधिकारः
प्रत्ययः  3|1|1 परश्च  3|1|2 आद्युदात्तश्च  3|1|3 ङ्याप्प्रातिपदिकात्  4|1|1 तद्धिताः  4|1|76 प्राग्घिताद्यत्  4|4|75 समर्थानां प्रथमाद्वा  4|1|82
सम्पूर्णसूत्रम्
गृहपतिना संयुक्ते संज्ञायाम् ञ्यः
सूत्रार्थः
तृतीयासमर्थात् "गृहपति" शब्दात् "संयुक्तम् (= सम्बन्धी)" अस्मिन् अर्थे संज्ञायाम् ञ्य-प्रत्ययः भवति ।
गृहपतिः इत्युक्ते गृहस्य पतिः (प्रमुखः) । "संयुक्तम्" इत्युक्ते "सम्बन्धी" । गृहपतिना सह यस्य सम्बन्धः, तस्य निर्देशं कर्तुम् संज्ञाविधानार्थम् गृहपति-शब्दात् ञ्य प्रत्ययः भवति । यथा - गृहपतिना संयुक्तः अग्निः = गृहपति + ञ्य → गार्हपत्य । "गार्हपत्य" इति कश्चन अग्निविशेषः । वेदेषु अग्निनाम् भिन्नानि नामानि दत्तानि दृश्यन्ते, यथा गार्हपत्य-अग्निः, दक्षिण-अग्निः, आहवनीय-अग्निः आदयः । एतेषु "गार्हपत्य" शब्दस्य व्युत्पत्यर्थम् रचितम् इदम् सूत्रम् ।

ज्ञातव्यम् -
1. अस्मिन् सूत्रे "गृहपतिना" इत्येव समर्थेषु प्रथमः स्वीक्रियते, अत्र पूर्वसूत्राणि यावत् "तत्" इति न अनुवर्तते । अतः अत्र "तृतीयासमर्थः गृहपति-शब्दः" इत्यस्मात् एव प्रत्ययविधानम् भवति ।

2. वस्तुतः अस्मिन् सूत्रे "गृहपतिना संयुक्तम्" इत्यस्मिन् अर्थे ञ्य-प्रत्ययः पाठितः अस्ति, न हि "गृहपतिना संयुक्तः अग्निः" अस्मिन् अर्थे । अतः गृहपतिना सम्बधितम् यत् किमपि वर्तते (यथा - गृहपतिना संयुक्तम् गृहम् / कार्यम् / मन्दिरम् आदयः), तस्य सर्वस्य विषये अनेन सूत्रेण ञ्य-प्रत्ययविधानस्य प्रसक्तिः वर्तते । परन्तु तादृशम् न भवति, यतः अत्र "संज्ञायाम्" इत्यपि पूर्वसूत्रात् अनुवर्तते । "संज्ञायाम्" इत्यनेन "गार्हपत्य" शब्दस्य प्रयोगस्य संज्ञायाः विषये नियमनम् क्रियते, अतः अन्यत्र (यत्र "गार्हपत्य" इति संज्ञारूपेण न प्रयुज्यते तत्र) अस्य सूत्रस्य प्रयोगः न भवति । अतः "गृहपतिना संयुक्तम् गृहम् / कार्यम् / मन्दिरम्" एतेषु स्थलेषु अस्य सूत्रस्य प्रसक्तिः नास्ति ।
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
निर्देशादेव तृतीया समर्थविभक्तिः। गृहपतिशब्दात् तृतीयासमर्थात् संयुक्ते इत्येतस्मिन्नर्थे ञ्यः प्रत्ययो भवति। गृहपतिना संयुक्तः गार्हपत्यो ऽग्निः। अन्यस्य अपि गृहपतिना संयोगो ऽस्ति, तत्र संज्ञाधिकारादतिप्रसङ्गनिवृत्तिः।
`संयुक्ते` इति। सम्बद्ध इत्यर्थः।`अन्यस्यापि` इत्यादि। यथैव हि गृहपतिर्यजनमानो गार्हपत्ये कार्यं करोति, तथा दक्षिणाग्नावाहवनीये च। तस्मादन्यस्यापि दक्षिणादेर्गृहपतिना संयोगोऽस्ति। यद्येवम्, अतिप्रसङ्गोऽन्यत्र प्राप्नोति? इत्याह-- `तत्र् संज्ञाधिकारात्` इत्यादि। अभिधेयनियमार्थं संज्ञाग्रहणमनुवर्तते, तेनेह न भवत्यतिप्रसङ्गः॥
अन्यस्यापीत्यादि । गृहपतिर्हि यजमानः, स यथा गार्हपत्ये कार्याणि करोति तथा दक्षिणाग्नावाहवनीये च, भूयो वाऽऽहवनीये; तस्मादन्यस्यापि गृहपतिना योगोऽस्ति । यद्येवम्, तत्राप्यतिप्रसङ्गः ? इत्यत आह---तत्रेति । अपर आह---गृहपतिरग्निविशेषः, तेन संयोगो गार्हपत्यस्यैवाग्निहोत्रेऽपि गार्हपत्ये अग्नये गृहपतये प्रजापतये, पत्नीसंयाजेषु च तत्रैवेज्यते इति , तत्रापि गृहपतिरग्निर्गृह्यते न यजमान इत्यत्र संज्ञाधिकार एव शरणम् ॥
सिद्धान्तकौमुदी
गृहपतिर्यजमानस्तेन संयुक्तो गार्हपत्योऽग्निः ॥
गृहपतिना संयुक्ते ञ्यः - गृहपतिना । अस्मिन्नर्थे गृहपतिशब्दात्तृतीयान्ताञ्ञ्यः स्यादित्यर्#H । गार्हपत्योऽग्निरिति । अग्निविशेष इत्यर्थः । तत्र पत्नीसंयोजेषु अग्निहोत्तरे च गृहपतिदेवताकहोमस्य क्रियमामत्वाद्गृहपतियोगः । यद्यपिदेवसूहविःषु अग्नये गृहपतये पुरोडाशमष्टाकपालं निर्वपति॑ इति हविर्होम आहबनीये क्रियते, तथापि संज्ञाधिकारादाहरवनीये नास्य प्रयोगः ।
गृहपतिना संयुक्ते ञ्यः - गार्हपत्य इति ।गृहपतिने॑ति निर्देशादेव तृतीयान्तात्प्रत्ययः ।संज्ञाया॑मित्यनुवृत्तेराहवनीयादौ नातिप्रसङ्गः ।
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
गृहपतिना संयुक्ते ञ्ञ्यः (1828) (ञ्ञ्यप्रत्ययाधिकरणम्) (आक्षेपभाष्यम्) गृहपतिना संयुक्त इत्युच्यते, तत्रदक्षिणाग्नावपि प्राप्नोति। दक्षिणाग्निरपि गृहपतिना संयुज्यते।। (सिद्धान्तभाष्यम्) एवं तर्हि ‐ गृहपतिना संयुक्त इत्युच्यते, सर्वश्च गृहपतिना संयुक्तः। तत्र प्रकर्षगतिर्विज्ञास्यते ‐ साधीयो यो गृहपतिना संयुक्त इति। कश्च साधीयः? यस्मिन् पत्नीसंयाजाः क्रियन्ते।। अथ वा गृहपतिर्नाम मन्त्रः स यस्मिन्नुच्यते।। अथ वा संज्ञायामिति वर्तते।।