Page loading... Please wait.
4|4|88 - मूलमस्याबर्हि
॥ तस्मै पाणिनये नमः ॥
4|4|88
SK 1640
मूलमस्याबर्हि   🔊
सूत्रच्छेदः
मूलम् (प्रथमैकवचनम्) , अस्य (षष्ठ्येकवचनम्) , आबर्हि (प्रथमैकवचनम्)
अनुवृत्तिः
-
अधिकारः
प्रत्ययः  3|1|1 परश्च  3|1|2 आद्युदात्तश्च  3|1|3 ङ्याप्प्रातिपदिकात्  4|1|1 तद्धिताः  4|1|76 प्राग्घिताद्यत्  4|4|75 समर्थानां प्रथमाद्वा  4|1|82
सम्पूर्णसूत्रम्
"मूलम् अस्य आबर्हि" (इति) समर्थानाम् प्रथमात् परः यत् प्रत्ययः
सूत्रार्थः
"अस्य मूलम् आबर्हि (= निष्कासनयोग्यम्)" अस्मिन् अर्थे प्रथमासमर्थात् "मूल"शब्दात् मूलस्य वृक्षम् निर्देशयितुम् यत्-प्रत्ययः भवति ।
आदौ "आबर्हि" इति किम् तत् पश्यामः - "बृहूँ (उद्यमने)" इति तुदादिगणस्य धातुः । "आङ्"-उपसर्गेण सह अस्य प्रयोगः क्रियते चेत् "आ + बृह्" इत्यस्य अर्थः "उत्पाटनम् / निर्मूलनम् (uprooting) । "आ + बृह्" धातोः भावे घञ्-प्रत्ययं कृत्वा अग्रे मतुबर्थे इनि-प्रत्यये कृते "आबर्हिन्" इति प्रातिपदिकम् सिद्ध्यति । "यस्य निर्मूलनम् (भूमेः निष्कासनम्) क्रियते", तत् "आबर्हि" अनेन विशेषणेन सम्बुद्ध्यते । ("आबर्हि" इति आबर्हिन्-इत्यस्य नपुँसकलिङ्गस्य प्रथमैकवचनम्)।

अतः अस्य सूत्रस्य अर्थः अयम् - "अस्य वृक्षस्य मूलम् आबर्हणम् कर्तुम् योग्यम् अस्ति" अस्मिन् अर्थे "अस्य वृक्षस्य मूलम् आबर्हि अस्ति" इति वाक्यं प्रयुज्यते । अस्यां स्थितौ तस्य वृक्षस्य निर्देशार्थम् "मूल"शब्दात् यत्-प्रत्ययः भवति । उदाहरणद्वयम् पश्यामश्चेत् स्पष्टं भवेत् ।

1. "एते माषाः पक्वाः, एतेषाम् मूलस्य आबर्हणम् कर्तव्यम्" अस्मिन् अर्थे "माषानाम् मूलम् आबर्हि अस्ति" इति प्रयोगः क्रियते । अस्यां स्थितौ मूल-शब्दात् यत्-प्रत्ययविधानम् वर्तमानसूत्रेण भवति । मूल + यत् → मूल । येषाम् मूलम् आबर्हि ते मूल्याः माषाः ।

2. तथैव, "एते मुद्गाः मूलम् गृहीत्वा उत्पाटितव्याः" अस्मिन् अर्थे मूल-शब्दात् यत्-प्रत्ययविधानम् क्रियते । येषम् मूलम् आबर्हि ते मुद्गाः मूल्याः मुद्गाः ।

ज्ञातव्यम् - काशिकायाम् अस्य सूत्रस्य निर्देशः "मूलम् अस्य आवर्हि" इति कृतः अस्ति । "बृहूँ" धातुम् यावत् एव "वृहूँ (उद्यमने)" इत्यपि धातुः धातुपाठे दृश्यते, तस्य अयम् निर्देशः । द्वयोः अपि अर्थः समानः एव ।
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
मुलशब्दात् प्रथमासमर्थादावर्हि इत्येवम् उपाधिकादस्य इति षष्ठ्यर्थे यत् प्रत्ययो भवति। मूलम् एषाम् आवर्हि मूल्या माषाः। मूल्या मुद्गाः। वृहू उद्यमने। येषां मूलम् आवृह्यते उत्पाट्यते ते मूल्याः, सुष्ठु निष्पन्नाः। मूलोत्पाटनेन विना सङ्ग्रहीतुं न शक्यन्ते इत्यर्थः।
आवर्हणमावर्हः, उत्पादनमित्यर्थः। वृहेराङपूर्वाद्भावे घञ्, आवर्होऽस्यास्तीत्यावर्हीति। द्वितीयाविभक्तिरिह नास्ति। न च प्रथमाद्वितीयाभ्यामन्यस्यां विभक्तौ मूलमित्येतद्रूपमुपपद्यते। तस्मात् प्रथमान्तमेवैतत्। निर्देशादेव प्रथमा समर्थविभक्तिरुपपद्यते इति मत्वाह-- `मूलशब्दात् प्रथमासमर्थात्` इति॥
प्रथमासमर्थादिति । द्वितीयाया निमिताभावान्निर्देशादेव प्रथमैव भवतीति भावः । ठ्वृहू उद्यमनेऽ, वादिरयं न बादिः । दृश्यते हि ठुद्वृह रक्षः सहमूलमिन्द्र ह्यस्मुष्मिक् प्रवृहाणऽ, ठ्तद्ववर्हात्मनोदेवाऽ इति च आवर्हणमावर्हःऊत्पाटनम्, आवर्होऽस्यास्तीत्यावर्हि, सुष्ठुअ पक्वा न शक्यन्ते संग्रहीतुम् । मध्यतो लूयमाने कोशस्था अपि यस्यामवस्थायां पतेयुस्तामवस्थां प्राप्ता इत्यर्थः ॥
सिद्धान्तकौमुदी
आबर्हणमाबर्ह उत्पाटनं तदस्यास्तीत्याबर्हि । मूलमाबर्हि येषां ते मूल्या मुद्गाः ॥
मूलमस्याबर्हि - मूलमस्याबर्हि । आबर्हणमिति । उत्पाटनमित्यर्थः । उपसर्गवशात् "बृहूउद्यमने" इति धातोरुत्पाठने वृत्तिः । मूल्या मुद्गा इति । मूलत उत्पाटनीया इत्यर्थः ।
मूलमस्याबर्हि - मूलमस्याबर्हि । प्रथमान्तादाबर्हि इत्युपाधिकान्मूलशब्दादस्येति षष्ठर्थे यत्स्यात् । आवर्ह इति ।वृहू उद्यमने॑दन्त्योष्ठआदिरयम्, न तु परवर्गादिः,उद्वृह रक्षः सहमूलनिन्द्रे॑त्यादिप्रयोगदर्शनात् । मूल्या मुद्गा इति । मूलोत्पटनं विना सङ्ग्रहीतुमशक्याः, मध्यतो लूयमानेषु कोशस्था अपि सयस्यामवस्थायां पतेयुस्तमवस्थां प्राप्ताः । सुष्ठु शुष्का इति यावत् । यप्रत्यय इति । तेनधेनुष्याशब्दोऽन्त उदात्तः । यतु तु तित्स्वरः स्यादिति भावः ।
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
Text Unavailable. Please use feedback link below to provide the text if you have.