Page loading... Please wait.
4|4|80 - शकटादण्
॥ तस्मै पाणिनये नमः ॥
4|4|80
SK 1632
शकटादण्   🔊
सूत्रच्छेदः
शकटात् (पञ्चम्येकवचनम्) , अण् (प्रथमैकवचनम्)
अनुवृत्तिः
वहति  4|4|76 (क्रियापदम्) , तत्  4|4|76 (द्वितीयैकवचनम्)
अधिकारः
प्रत्ययः  3|1|1 परश्च  3|1|2 आद्युदात्तश्च  3|1|3 ङ्याप्प्रातिपदिकात्  4|1|1 तद्धिताः  4|1|76 प्राग्घिताद्यत्  4|4|75 समर्थानां प्रथमाद्वा  4|1|82
सम्पूर्णसूत्रम्
"तत् वहति" इति शकटात् अण्
सूत्रार्थः
"वहति" अस्मिन् अर्थे द्वितीयासमर्थात् शकटशब्दात् अण्-प्रत्ययः भवति ।
"शकटम् वहति सः" अस्मिन् अर्थे शकटशब्दात् अण्-प्रत्ययः विधीयते । शकटम् वहति सः = शकट + अण् → शाकटः गौः ।

ज्ञातव्यम् - "शकटम् वहति सः = शकटस्य वाहकः" इति प्राप्ते तस्येदम् 4|3|120 इत्यनेन अण्-प्रत्ययः पूर्वमेव प्राप्तः अस्ति । अतः अत्र अण्-प्रत्ययस्य पुनर्विधानम् किमर्थम् क्रियते - इति प्रश्नः उपतिष्ठति । अस्य उत्तरार्थम् तत्वबोधिन्याम् उच्यते - "आरम्भसामर्थ्यात् अत्र तदन्तविधिः। तेन द्वे शकटे वहति इत्यत्र द्विगोर्लुगनपत्ये 4|1|88 इति प्राग्दीव्यतीयो लुक् न भवति, तस्येदम् 4|3|120 इति अणि तु स्यादेव लुगिति" । इत्युक्ते, अस्मिन् सूत्रे "अण्" प्रत्ययस्य पुनर्विधानम् तदन्तविधिम् दर्शयति । अतः "द्वे शकटे वहति" इत्यत्र "द्विशकट" इत्यस्मात् अपि अनेन सूत्रेण अण्-प्रत्ययः क्रियते, येन "द्वैशकट" इति रूपं सिद्ध्यति । एवं न क्रियते चेत् किम् भवेत्? यदि वर्तमानसूत्रम् न अभविष्यत्, तर्हि "द्वे शकटे वहति" = "द्वयोः शकटयोः वोढा" इत्यत्र "द्विशकट" इत्यस्मात् तस्येदम् 4|3|120 अस्मिन् अर्थे प्राग्दीव्यतः अण् 4|1|83 इत्यनेन अण्-प्रत्ययः भवेत्, यस्य अग्रे द्विगोर्लुगनपत्ये 4|1|88 इत्यनेन च लुक् प्राप्नुयात् । लुकि कृते च अन्तिमम् रूपम् "द्विशकट" इत्येव स्यात् । परन्तु अण्-प्रत्यये कृते "द्वैशकट" इति शब्दः अपि प्रयुज्यते, यत्र अण्-प्रत्ययस्य लुक् न क्रियते । अस्य रूपस्य सिद्ध्यर्थम् एव वर्तमानसूत्रम् विशिष्टरूपेण पाठितम् अस्ति । अतः यद्यपि "शकटम् वहति" इत्यत्र वर्तमानसूत्रम् अनावश्यकं भासते, तथापि "द्वे शकटे वहति" इत्यत्र वर्तमानसूत्रस्य आवश्यकता अस्ति एव ।

"द्विशकटस्य वाहकः" इत्यत्र तु प्राग्दीव्यतः अण् 4|1|83 इत्यनेन अण्-प्रत्ययविधानम् कृत्वा द्विगोर्लुगनपत्ये 4|1|88 इति लुकि कृते "द्विशकट" इत्येव रूपम् सिद्ध्यति इति स्मर्तव्यम् । इत्युक्ते, द्विशकटं वहति सः द्वैशकटः, परन्तु द्विशकटस्य वोढा सः द्विशकटः । अनेन प्रकारेण एकस्मिन्नेव अर्थे शब्दद्वयं सिद्ध्यति ।

अतः अस्य सूत्रस्य निर्माणम् "पाणिनिना सूत्रनिर्माणे कियता विस्तारेण चिन्तनम् कृतम्" अस्यैव ज्ञापकम् ।
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
तद्वहति इत्येव। शकटशब्दाद् द्वितीयासमर्थाद् वहति इत्येतस्मिन्नर्थे अण् प्रत्ययो भवति। शकटम् वहति शाकटो गौः।
रथशकटहलसीरेभ्यः प्रत्ययविधानमनर्थकम्, `तस्येदम्` 4|3|120 इत्यनेनैव सिद्धत्वात्। शब्दभेदाद्विधानमिति चेदन्यो हि शब्दो रथं वहतीति, अन्यो हि रथस्य वोढेति। तदाऽर्थाश्रयत्वात् प्रत्ययविधानस्यार्थसामान्यात् सिद्धम्। न हि कश्चिद्रव्यमित्युक्ते रथस्यायमित्येवावैति, वहत्यर्थः प्रतीयते। तस्मात् स्यादेव रथाद्यत्॥बाल-मनोरमाशकटादण 1612, 4.4.80 शकटादण्। द्वितीयान्ताच्छकटशब्दाद्वहतीत्यर्थे अण् स्यादित्यर्थः। यतोऽपवादः। बाल-मनोरमाअगारान्ताट्ठन् 1601, 4.4.80 अगारान्ताट्ठन्। तत्र नियुक्त इत्येव। नित्त्वान्नादिवृद्धिः। तदाह--देवगारिक इति।
शकटादण्विधानमनर्थकम् । कथं शाक्ट इति ? ठ्तस्येदम्ऽ इत्यण् भविष्यति, यो हि शकट्ंअ वहति शकटस्यासौ वोढा भवति ? तत्राहुः---आरम्भसामर्थ्यादत्रापि तदन्तविधिः, तेन द्वे शकटे वहति, द्वैशकट इति प्राग्दीव्यतीयो लुग्न भवति ॥
सिद्धान्तकौमुदी
शकटं वहति शाकटो गौः ॥
शकटादण् - अगारान्ताट्ठन् । तत्र नियुक्त इत्येव । नित्त्वान्नादिवृद्धिः । तदाह — देवगारिक इति ।
शकटादण् - शाकटो गौरिति । ननुतस्येद ॑मित्यणा सिद्धम् । यौ हि शकटं वहति शकटस्यासौ भवति । अत्राहुः — -आरम्भसामथ्र्यादत्र तदन्तविधिः । तेन द्वे शकटे वहति द्वैशकट इत्यत्रद्विगोर्लुगनपत्ये॑इति प्राग्दीव्यतीयो लुङ् न भवति,तस्येद॑मित्यणि तु स्यादेव लुगिति ।
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
Text Unavailable. Please use feedback link below to provide the text if you have.