Page loading... Please wait.
4|4|8 - चरति
॥ तस्मै पाणिनये नमः ॥
4|4|8
SK 1556
चरति   🔊
सूत्रच्छेदः
चरति क्रियापदम्
अनुवृत्तिः
तेन  4|4|2 (तृतीयैकवचनम्)
अधिकारः
प्रत्ययः  3|1|1 परश्च  3|1|2 आद्युदात्तश्च  3|1|3 ङ्याप्प्रातिपदिकात्  4|1|1 तद्धिताः  4|1|76 प्राग्वहतेष्ठक्  4|4|1 समर्थानां प्रथमाद्वा  4|1|82
सम्पूर्णसूत्रम्
"तेन चरति" (इति) समर्थानाम् प्रथमात् परः ठक् प्रत्ययः
सूत्रार्थः
"चरति" अस्मिन् अर्थे तृतीयासमर्थात् औत्सर्गिकरूपेण ठक्-प्रत्ययः भवति ।
"चरति" इति चर्-धातोः लट्लकारस्य प्रथमपुरुषैकवचनम् । "चरति" इत्यस्य अस्मिन् सूत्रे द्वौ अर्थौ स्वीक्रियेते - भक्षति, तथा गच्छति । द्वयोः अपि अर्थयोः सर्वेभ्यः प्रातिपदिकेभ्यः वर्तमानसूत्रेण औत्सर्गिकरूपेण ठक्-प्रत्ययः विधीयते । यथा -

1. दध्ना चरति (= भक्षति) सः दाधिकः ।
दधि + ठक्
→ दधि + इक [ठस्येकः 7|3|50 इति ठकारस्य इकारादेशः]
→ दाधि + इक [किति च 7|2|118 इति आदिवृद्धिः]
→ दाध् + इक [यस्येति च 6|4|148 इति इकारलोपः]
→ दाधिक

2. शकटेन चरति (= गच्छति) सः शाकटिकः ।
शकट + ठक्
→ शकट + इक [ठस्येकः 7|3|50 इति ठकारस्य इकारादेशः]
→ शाकट + इक [किति च 7|2|118 इति आदिवृद्धिः]
→ शाकट् + इक [यस्येति च 6|4|148 इति अकारलोपः]
→ शाकटिक

3. हस्तिना चरति (= गच्छति) सः हास्तिकः ।
हस्तिन् + ठक्
→ हस्तिन् + इक [ठस्येकः 7|3|50 इति ठकारस्य इकारादेशः]
→ हास्तिन् + इक [किति च 7|2|118 इति आदिवृद्धिः]
→ हास्त् + इक [ नस्तद्धिते 6|4|144 इति टिलोपः]
→ हास्तिक
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
तेन इति तृतीयासमर्थाच् चरति इत्येतस्मिन्नर्थे ठक् पत्ययो भवति। चरतिर् भक्षणे गतौ च वर्तते। दध्ना चरति दधिकः। हास्तिकः। शाकटिकः।
Text Unavailable. Please use feedback link below to provide the text if you have.
Text Unavailable. Please use feedback link below to provide the text if you have.
सिद्धान्तकौमुदी
तृतीयान्ताद्गच्छति भक्षयतीत्यर्थयोष्ठक् स्यात् । हस्तिना चरति हास्तिकः । शाकटिकः । दध्ना भक्षयति दाधिकः ॥
चरति - चरति । गच्छतिभक्षयतीति ।चरगतिभक्षणयो॑रिति चरधातोरर्थद्वये वृत्तेरिति भावः । हास्तिक इति । ठनि इके "नस्तद्धिते" इति टिलोपः
Text Unavailable. Please use feedback link below to provide the text if you have.
लघुसिद्धान्तकौमुदी
तृतीयान्ताद्गच्छति भक्षयतीत्यर्थयोष्ठक् स्यात्। हस्तिना चरति हास्तिकः। दध्ना चरति दाधिकः॥
महाभाष्यम्
Text Unavailable. Please use feedback link below to provide the text if you have.