Page loading... Please wait.
4|4|77 - धुरो यड्ढकौ
॥ तस्मै पाणिनये नमः ॥
4|4|77
SK 1628
धुरो यड्ढकौ   🔊
सूत्रच्छेदः
धुरः (पञ्चम्येकवचनम्) , यत्-ढकौ (प्रथमाद्विवचनम्)
अनुवृत्तिः
वहति  4|4|76 (क्रियापदम्) , तत्  4|4|76 (द्वितीयैकवचनम्)
अधिकारः
प्रत्ययः  3|1|1 परश्च  3|1|2 आद्युदात्तश्च  3|1|3 ङ्याप्प्रातिपदिकात्  4|1|1 तद्धिताः  4|1|76 प्राग्घिताद्यत्  4|4|75 समर्थानां प्रथमाद्वा  4|1|82
सम्पूर्णसूत्रम्
"तत् वहति" इति धुरः यत्-ढकौ
सूत्रार्थः
"वहति" अस्मिन् अर्थे द्वितीयासमर्थात् धुर्-शब्दात् यत् तथा ढक्-प्रत्ययौ भवतः ।
"धुर्" इति रेफान्तः शब्दः, "भारः" इत्यर्थः । "भारम् वहति" अस्मिन् अर्थे द्वितीयासमर्थात् धुर्-शब्दात् "यत्" तथा "ढक्" प्रत्ययौ भवतः ।

"धुर्वीँ हिंसायाम्" अस्मात् धातोः क्विप्-प्रत्यये कृते "धुर्" इति प्रातिपदिकम् सिद्ध्यति । "क्विबन्ताः विजन्ताश्च प्रातिपदिकत्वं न जहति, धातुत्वमपि न मुञ्चन्ति" इत्यनेन सिद्धान्तेन "धुर्" इति प्रातिपदिकस्य धातुसंज्ञा अपि वर्तते । अस्यां स्थितौ अनेन सूत्रेण "यत्"-प्रत्यये कृते "धुर् + यत्" इति स्थिते हलि च 8|2|77 इत्यनेन उकारस्य दीर्घादेशः प्राप्नोति । परन्तु अत्र धुर्-शब्दस्य भसंज्ञा अपि भवति, अतः न भर्कुछुराम् 8|2|79 इत्यनेन तस्य निषेधः क्रियते, अतः अन्ते केवलं वर्णमेलनं कृत्वा रूपनिर्माणं भवति। धुर् + यत् → धुर्य ।

पक्षे ढक्-प्रत्ययः अपि विधीयते । धुर् + ढक् → धुर् + एय → धौर् + एय → धौरेय ।

ज्ञातव्यम् -
1. अस्मिन् सूत्रे वस्तुतः पूर्वसूत्रात् "यत्" इति अनुवर्तते । अतः अत्र "यत्" इति निर्देशः अनावश्यकः अस्ति । अस्मिन् विषये तत्वबोधिन्याम् उच्यते - "धुरः ढक् च - इत्येव सुवचम्" । इत्युक्ते, अस्य सूत्रस्य स्थाने "धुरः ढक् च" इत्येव उक्त्वा "यत्" इत्यस्य अनुवृत्तिः स्वीकरणीया । परन्तु न्यासकारस्य मतेन अत्र यत्-ग्रहणम् अपि आवश्यकम् अस्ति । अस्मिन् विषये न्यासकारः ब्रूते - "यो हि धुरं वहति, धुरः असौ वोढा भवति। तस्य यथाविहिते प्रत्यये विज्ञायमाने तस्येदम् 4|3|120 इति अण्-अपि स्यात्। यद्-ग्रहणात् तस्येदम्-विवक्षायाम् अपि यदेव भवति" । इत्युक्ते, "धुरः वोढा" (भारस्य वाहकः) अस्मिन् अर्थे वस्तुतः तस्येदम् 4|3|120 इत्यनेन अण्-प्रत्ययः भवेत्, परन्तु अत्र यत्-इत्यस्य पुनर्ग्रहणेन एतत् निर्दिश्यते, यत् "धुरः वोढा" अस्मिन् अर्थे अपि "यत्"प्रत्ययः एव कर्तव्यः । धुरः वोढा सः धुर्यः ।

2. अस्य सूत्रस्य विषये बालमनोरमाकारः वदति - "यड्ढकञौ इति पाठान्तरम्" । इत्युक्ते, पाठभेदेन ढक्-इत्यस्य स्थाने ढकञ्-प्रत्ययः अपि कुत्रचित् क्रियते । धुरम् वहति सः = धुर् + ढकञ् → धौरेयक । परन्तु इमम् पाठभेदम् पदमञ्जरीकारः न स्वीकरोति । तस्य मतेन "ढञ् अत्र विधीयते, न तु ढकञ्" । इत्युक्ते, अत्र पाठभेदेन ढञ्-प्रत्ययः भवितुम् अर्हति, न हि ढकञ्-प्रत्ययः ।
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
तद् वहति इत्येव। धुरित्येतस्माद् द्वितीयासमर्थाद् वहति इत्येतस्मिन्नर्थे यत् ढकित्येतौ प्रत्ययौ भवतः। धुरं वहति धुर्यः, धौरेयः।
अथ `धुरो ठक् च` इत्येवं कस्मान्नोक्तम्, चकारः समुच्चयार्थः, यथाभिहिते प्रत्यये विज्ञायमाने यदेव भविष्यति? नैतदेवम्; यो हि धुरं वहति धुसोऽसौ वोढा भवति।तस्य यथाविहिते प्रत्यये विज्ञायमाने `तस्येदम्` 4|3|120 इत्यणपि स्यात्। यद्गर्हणात् तस्येदंविवक्षायामपि यदेव भवति॥
धूर्धूर्वतेः, ठ्भ्राजभासऽ इति क्विप्, ठ्राल्लोपःऽ । धुरं वहतीति धुर्य इति । ठ्न भकुर्छुअराम्ऽ इति प्रतिषेधात् ठ्हलि चऽ इति इति दीर्घाभावः । ढञत्र विधीयते, न तु ढकञ् । धौरेयो भविता पितुरिति च दृश्यते, धौरेयक इति स्वार्थिके कनि भवति । इह ठ्धुरो ढक् चऽ इति वक्तव्यम्, चकारात्प्राग्घतीयो यद्भविष्यति ॥
सिद्धान्तकौमुदी
हलि च (कौमुदी-354) इति दीर्घे प्राप्ते ॥
धुरो यड्ढकौ - धुरो यड्ढकौ । धुरशब्दाद्द्वितीयान्ताद्वहतीत्यर्थे यत्, ढक्च स्यादित्यर्थः ।यड्ढकञो॑विति पाठान्तरम् । हलि चेतीति । "धुर्वी हिंसायां"भ्राजभासे॑ति क्विप् । "राल्लोपः" इति लोपः । अआआदिस्कन्धवाह्रप्रदेशो युगावयवो धुः । धुर्शब्दाद्यतिहलि चे॑ति दीर्घे प्राप्ते सतीत्यर्थः ।
धुरो यड्ढकौ - धुरो ।धुरो ढक् चे॑त्येव सुवचम् ।
लघुसिद्धान्तकौमुदी
हलि चेति दीर्घे प्राप्ते -।
महाभाष्यम्
Text Unavailable. Please use feedback link below to provide the text if you have.