Page loading... Please wait.
4|4|69 - तत्र नियुक्तः
॥ तस्मै पाणिनये नमः ॥
4|4|69
SK 1620
तत्र नियुक्तः   🔊
सूत्रच्छेदः
तत्र (अव्ययम्) , नियुक्तः (प्रथमैकवचनम्)
अनुवृत्तिः
-
अधिकारः
प्रत्ययः  3|1|1 परश्च  3|1|2 आद्युदात्तश्च  3|1|3 ङ्याप्प्रातिपदिकात्  4|1|1 तद्धिताः  4|1|76 प्राग्वहतेष्ठक्  4|4|1 समर्थानां प्रथमाद्वा  4|1|82
सम्पूर्णसूत्रम्
"तत्र नियुक्तः" (इति) समर्थानाम् प्रथमात् परः ठक् प्रत्ययः
सूत्रार्थः
"नियुक्तः" (= अधिकृतः) अस्मिन् अर्थे सप्तमीसमर्थात् ठक्-प्रत्यय भवति ।
"नियुक्तः" इत्युक्ते अधिकृतः / अधिकाररूपेण स्थापितः / नियोजितः । यस्मिन् स्थाने कश्चन मनुष्यः किञ्चन कार्यम् कर्तुम् अधिकाररूपेण स्थापितः अस्ति, तत्र तस्य मनुष्यस्य निर्देशं कर्तुम् स्थानवाचिशब्दात् ठक्-प्रत्ययः भवति । यथा -

1) शुल्कशालायां नियुक्तः शौल्कशालिकः । शुल्कशालायाम् शुल्कग्रहणकार्यार्थम् यः अधिकृतः अस्ति, सः शौल्कशालिकः अस्ति इत्युच्यते ।
2) द्वारे नियुक्तः सः दौवारिकः । प्रक्रिया इयम् -
द्वार + ठक्
→ द्वार + इक [ठस्येकः 7|3|50 इति इक्-आदेशः]
→ दौवार + इक [द्वारादीनां च 7|3|4 इति ऐच्-आगमः]
→ दौवार् + इक [यस्येति च 6|4|148 इति अकारलोपः]
→ दौवारिक ।
3) आपणे नियुक्तः सः आपणिकः ।
4) आकरे नियुक्तः सः आकरिकः । (आकरः इत्युक्ते शुल्कशाला)

ज्ञातव्यम् - पूर्वस्मिन् सूत्रे तदस्मै दीयते नियुक्तम् 4|4|66 इत्यत्र "नियुक्तम्" शब्दः प्रयुक्तः अस्ति, अतः तस्मात् एव अत्र अनुवृत्तिः किमर्थम् न क्रियते, अस्मिन् सूत्रे पुनः "नियुक्त" इति शब्दस्य प्रयोगः किमर्थम् कृतः अस्ति - इति प्रश्नः प्रायः उद्भवति । अस्य उत्तरार्थम् न्यासकारः वदति - "अर्थभेदात्। न तस्य हि अव्यभिचारलक्षणो नित्यभावः अर्थः" । इत्युक्ते, तदस्मै दीयते नियुक्तम् 4|4|66 इत्यत्र "नियुक्तम्" शब्दः "अव्यभिचार" इत्यस्मिन् अर्थे प्रयुक्तः अस्ति, वर्तमानसूत्रे च "अधिकारः" अस्मिन् अर्थे प्रयुक्तः अस्ति । द्वौ एतौ भिन्नौ अर्थौ स्तः । अनुवृत्तिः क्रियते चेत् तु अर्थभेदः न सम्भवति । अतः अत्र अनुवृत्तिः न क्रियते, अपितु "नियुक्तम्" शब्दः पुनः निर्दिष्टः अस्ति ।
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
तत्र इति सप्तमीसमर्थान् नियुक्त इत्येतस्मिन्नर्थे ठक् प्रत्ययो भवति। नियुक्तः आधिकृतो व्यापारितः इत्यर्थः। शुल्कशालायां नियुक्तः शौल्कशालिकः। आकरिकः। आपणिकः। गौल्मिकः। दौवारिकः।
अथ `नियुक्तः` 4|4|66 इति वत्र्तमाने पुनर्नियुक्तग्रहणं कस्मात् क्रियते? अर्थभेदात्। न तस्य ह्रकव्यभिचारलक्षणो नित्यभावोऽर्थः। अस्य तु ततोऽन्य एवार्थो यदाह-- `नियुतोऽधिकृतः` इत्यादि॥
नियुक्तमिति प्रकृते पुननियुक्तग्रहणमर्थभेदार्थमेव, तमेवार्थभेदं दर्शयति--नियुक्तोऽधिकृत इत्यादि । किञ्च--प्रकृतं नियुक्तग्रहणं प्रकृत्यर्थविशेषणस्य दीयत इत्यस्योपाधिः, न तस्येह प्रत्ययार्थत्वं शक्यं विज्ञातुम् ॥
सिद्धान्तकौमुदी
आकरे नियुक्त आकरिकः ॥
तत्र नियुक्तः - तत्र नियुक्तः । अस्मिन्नर्थे सप्तम्यन्ताट्ठक् स्यादित्यर्थः । नियुक्तः=अधिकृतः । संरक्षणादौ प्रेरित इति यावत् । आकरिक इति । आकरो रत्नाद्युद्भवस्थानम् ।
तत्र नियुक्तः - आकरिक इति ।खनिः स्त्रियामाकरः स्या॑दित्यमरः ।
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
Text Unavailable. Please use feedback link below to provide the text if you have.