Page loading... Please wait.
4|4|65 - हितं भक्षाः
॥ तस्मै पाणिनये नमः ॥
4|4|65
SK 1616
हितं भक्षाः   🔊
सूत्रच्छेदः
हितम् (प्रथमैकवचनम्) , भक्षाः (प्रथमाबहुवचनम्)
अनुवृत्तिः
अस्य  4|4|51 (षष्ठ्येकवचनम्) , तत्  4|4|51 (प्रथमैकवचनम्)
अधिकारः
प्रत्ययः  3|1|1 परश्च  3|1|2 आद्युदात्तश्च  3|1|3 ङ्याप्प्रातिपदिकात्  4|1|1 तद्धिताः  4|1|76 प्राग्वहतेष्ठक्  4|4|1 समर्थानां प्रथमाद्वा  4|1|82
सम्पूर्णसूत्रम्
"तत् हितम् भक्षाः अस्य" (इति) समर्थानाम् प्रथमात् परः ठक् प्रत्ययः
सूत्रार्थः
"भक्षाः अस्य हितम्" अस्मिन् अर्थे प्रथमासमर्थात् भक्ष्यवाचिशब्दात् ठक्-प्रत्ययः भवति ।
"अस्य हितम्" इत्युक्ते "अस्य उपकारकम् / अस्य लाभकारकम् " इति । कस्यचन भक्षस्य विषये "तत् भक्षम् अस्मै उपकारकं / लाभदायी भवति" अस्मिन् अर्थे वर्तमानसूत्रेण ठक्-प्रत्ययः भवति ।

यथा -
1) मोदकभक्षणम् हितम् (= लाभदायी ) अस्मै सः मौदकिकः । मोदकभक्षणेन यस्य लाभः भवति / वृद्धिः भवति, तस्य विषये "मोदकभक्षणम् हितम्" इति उच्यते । अत्र वर्तमानसूत्रेण ठक्-प्रत्ययः विधीयते । मोदक + ठक् → मौदकिक ।
2) अपूपभक्षणम् हितम् अस्मै सः आपूपिकः ।

ज्ञातव्यम् -
1) अस्य सूत्रस्य प्रयोगः तदैव भवति यदा हितकारकः शब्दः खाद्यपदार्थः (= भक्ष्यः) अस्ति । "अध्ययनम् हितम् अस्मै" एतादृशेषु वाक्येषु अस्य सूत्रस्य प्रयोगः न भवति ।

2) वस्तुतः "हितम्" इत्यस्य विषये चतुर्थी तदर्थार्थबलिहितसुखरक्षितैः 2|1|36 इत्यनेन चतुर्थी विभक्तिः प्रयोक्तव्या । परन्तु अत्र "अस्य" इति षष्ठीविभक्तेः प्रयोगः कृतः दृश्यते । अयम् आर्षप्रयोगः अस्ति । अस्मिन् विषये बालमनोरमाकारः वदति - "तत्र षष्ठी चतुर्थ्याविपरिणम्यते" । भाष्येऽपि स्पष्टरूपेण उच्यते - "स तर्हि चतुर्थीनिर्देशः कर्तव्यः...हितं भक्षास्तदस्मै" । अग्रिमसूत्रात् "तदस्मै" इत्यस्य अपकर्षः करणीयः इति अत्र आशयः ।
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
तदस्य इत्येव। तदिति प्रथमासमर्थादस्य इति षष्ठ्यर्थे ठक् प्रत्ययो भवति यत् तत्प्रथमासमर्थं हितं चेत् तद् भवति, तच् च भक्षाः। ननु च हितयोगे चतुर्थ्या भवितव्यं, तत्र कथं षष्ठ्यर्थे प्रत्ययो विधीयते? एवं तर्हि सामर्थ्याद् विभक्तिविपरिणामो भविष्यति। अपूपभक्षणं हितम् अस्मै आपूपिकः। शाष्कुलिकः। मौदकिकः। हितार्थक्रिया च तद्धितवृतावन्तर्भवति।
ननु हितशब्दयोगे चतुथ्र्या भवितव्यम्, `हितयोगे चतुर्थी भवति` (वा। 123) इत्युपसंख्यानात्, `तस्मैहितम्` 5|1|5 इति निर्देशात्? `सामथ्र्याद्विभक्तिविपरिणामो भविष्यति` इति। सामथ्र्य पुनस्तदेवोपसंख्यानम्। लिङ्गञ्च----हितार्था क्रिया तद्धितवृत्तान्तर्भवति, तेन न प्रयुज्यत इति॥
हितम्, भक्षाः---इति पदयोः पर्यवसानेन सम्बन्धः । अत्र ठ्हितम्ऽ इति सामान्योपक्रमत्वादेकवचनं नपुंसकत्वं च । ठ्भक्षाःऽ इत्यपूपादिविशेषेषूपसंग्रहात्पुंल्लिङ्गं बहुवचनं च । अत एवाह---यतत्प्रथमासमर्थं हितं चेतद्भवति तच्च भक्षा इति । एवं तर्हीति । एवं च चतुर्थ्यर्थे प्रत्ययो न षष्ठ।ल्र्थे । कथं तर्हि पूर्वमुक्तमस्येति षष्ठ।ल्र्थ इति ? एवं तर्ह्यधिकारमात्रापेक्षया तदुक्तम् । अपर आह---ठ्हितं भक्षास्तदस्मैऽ इति सूत्रच्छेदः, ततः ठ्दीयते नियुक्तम्ऽ इति तस्या एवेति । हितार्थः क्रिया चेति । हितार्थस्तावदु पातत्वादन्तर्भवति । भक्षणक्रियाप्यपूपादिशब्दानां लक्षणया तत्र वृतेरन्तर्भवति ॥
सिद्धान्तकौमुदी
अपूपभक्षणं हितमस्मै आपूपिकः ॥
हितं भक्षाः - हितं भक्षाः । तदस्येत्यनुवृत्तम् । तत्र षष्ठी चतुथ्र्याविपरिणम्यते, हितयोगात् । तत् अस्मै हितमित्यर्थे प्रथमान्ताट्ठक् स्यात्, यद्धितं भक्षाश्चेत्ते स्युरित्यर्थः । संस्कृतं भक्षा इति वद्व्याख्येयम् । अपूपभक्षणमिति । अनेन अपूपशब्दोऽपूपभक्षणे लाक्षणिक इति सूचितम् । अपूपो हितमित्यर्थे तु न ठक्, अभिधानस्वाभाव्यादिति भावः ।
हितं भक्षाः - हितं भक्षाः ।अस्ये॑ति प्रकृतमपीह हितयोगाच्चतुथ्र्या विपरिणम्यते,तदस्मै॑इत्यस्यापकर्षो वेत्याशयेनाह — -अपूपभक्षणं हितमस्मा इति । अपूपशब्दस्तद्भक्षणे लाक्षणिक इति भावः ।
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
हितं भक्षाः (1803) (5574 आक्षेपवार्तिकम्।। 1 ।।) - हितं भक्षा इति चतुर्थीनिर्देशः - (भाष्यम्) हितं भक्षा इति चतुर्थीनिर्देशः कर्तव्यः।। (5575 आक्षेपसमर्थकवार्तिकम्।। 2 ।।) - इतरथा ह्यनिर्देशः - (भाष्यम्) इतरथा हि निर्देशो न भवति। हितशब्देन च योगे चतुर्थी विधीयते, सा प्राप्नोति। स तर्हि चतुर्थीनिर्देशः कर्तव्यः? न कर्तव्यः। एवं वक्ष्यामि ‐ हितं भक्षास्तदस्मै। ततः ‐ दीयते नियुक्तम्। तदस्मा इति।।