Page loading... Please wait.
4|4|58 - परश्वधाट्ठञ्च
॥ तस्मै पाणिनये नमः ॥
4|4|58
SK 1608
परश्वधाट्ठञ्च   🔊
सूत्रच्छेदः
परश्वधात् (पञ्चम्येकवचनम्) , ठञ् (प्रथमैकवचनम्) , च (अव्ययम्)
अनुवृत्तिः
अस्य  4|4|51 (षष्ठ्येकवचनम्) , तत्  4|4|51 (प्रथमैकवचनम्) , प्रहरणम्  4|4|57 (प्रथमैकवचनम्)
अधिकारः
प्रत्ययः  3|1|1 परश्च  3|1|2 आद्युदात्तश्च  3|1|3 ङ्याप्प्रातिपदिकात्  4|1|1 तद्धिताः  4|1|76 प्राग्वहतेष्ठक्  4|4|1 समर्थानां प्रथमाद्वा  4|1|82
सम्पूर्णसूत्रम्
"तदस्य प्रहरणम्" (इति) परश्वधात् ठञ् ठक् च
सूत्रार्थः
"अस्य प्रहरणम्" अस्मिन् अर्थे प्रथमासमर्थात् "परश्वध"शब्दात् ठञ् तथा ठक् प्रत्ययौ भवतः ।
"परश्वध" इति "परशु"समानम् किञ्चन प्रहणम् (शस्त्रम्) । प्रहरणम् 4|4|57 अस्मिन् अर्थे "परश्वध"शब्दात् प्राग्वहतेष्ठक् 4|4|1 इत्यनेन ठक्-प्रत्यये प्राप्ते वर्तमानसूत्रेण ठञ्-प्रत्ययः अपि विधीयते । द्वयोः प्रत्यययोः प्रयोगेन दृश्यरूपं तु समानमेव भवति - परश्वधं प्रहरणम् अस्य सः पारश्वधिकः । परन्तु द्वयोः रूपयोः उच्चारणे भेदः वर्तते। ठञ्-प्रत्ययान्तः "पारश्वधिक"शब्दः ञ्नित्यादिर्नित्यम् 6|1|197 इत्यनेन आद्युदात्तः अस्ति । परन्तु कित्-प्रत्ययान्तः "पारश्वधिक"शब्दः कितः 6|1|165 इत्यनेन अन्तोदात्तः अस्ति ।

प्रक्रिये एते -

1. परश्वध + ठक्
→ परश्वध + इक [ठस्येकः 7|3|50 इति इक्-आदेशः]
→ पारश्वध + इक [किति च 7|2|118 इति आदिवृद्धिः]
→ पारश्वध् + इक [यस्येति च 6|4|148 इति अकारलोपः]
→ पारश्वधिक

2. परश्वध + ठञ्
→ परश्वध + इक [ठस्येकः 7|3|50 इति इक्-आदेशः]
→ पारश्वध + इक [तद्धितेष्वचामादेः 7|2|117 इति आदिवृद्धिः]
→ पारश्वध् + इक [यस्येति च 6|4|148 इति अकारलोपः]
→ पारश्वधिक
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
परश्वधशब्दात् ठञ् प्रत्ययो भवति, चकारात् ठक्। स्वरे विशेषः। परश्वधः प्रहरणम् अस्य पारश्वधिकः।
Text Unavailable. Please use feedback link below to provide the text if you have.
परश्वधः उ परशु ॥
सिद्धान्तकौमुदी
पारश्वधिकः ॥
परश्वधाट्ठञ्च - परआआधाट्ठञ् च ।तदस्य प्रहरण॑मित्येव । चाट्ठक् । "परशुश्च परआधः" इत्यमरः ।
परश्वधाट्ठञ्च - परआधाट्ठञ् । चाट्ठक् ।द्वयोः कुठारः स्वधितिः परशुश्च परआधः॑ । परलोक इति । एतच्चाबिधानशक्तिस्वाभाव्याल्लभ्यते ।
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
Text Unavailable. Please use feedback link below to provide the text if you have.