Page loading... Please wait.
4|4|57 - प्रहरणम्
॥ तस्मै पाणिनये नमः ॥
4|4|57
SK 1607
प्रहरणम्   🔊
सूत्रच्छेदः
प्रहरणम् (प्रथमैकवचनम्)
अनुवृत्तिः
अस्य  4|4|51 (षष्ठ्येकवचनम्) , तत्  4|4|51 (प्रथमैकवचनम्)
अधिकारः
प्रत्ययः  3|1|1 परश्च  3|1|2 आद्युदात्तश्च  3|1|3 ङ्याप्प्रातिपदिकात्  4|1|1 तद्धिताः  4|1|76 प्राग्वहतेष्ठक्  4|4|1 समर्थानां प्रथमाद्वा  4|1|82
सम्पूर्णसूत्रम्
"तदस्य प्रहरणम्" (इति) समर्थानां प्रथमात् परः ठक् प्रत्ययः
सूत्रार्थः
"अस्य प्रहरणम्" अस्मिन् अर्थे प्रथमासमर्थात् ठक् प्रत्ययः भवति ।
प्रहरणम् इत्युक्ते शस्त्रम् । प्रथमासमर्थात् प्रहरणवाचिशब्दात् "अस्य अस्ति" अस्मिन् अर्थे ठक्-प्रत्ययः भवति । यथा -

1. दण्डः प्रहरणम् अस्य सः दाण्डिकः । दण्ड + ठक् → दाण्डिक ।
2. चक्रं प्रहरणम् अस्य च चाक्रिकः ।
3. धनुः प्रहरणम् अस्य सः धानुष्कः । प्रक्रिया इयम् -
धनुस् + ठक् [यद्यपि प्रातिपदिकस्य दृश्यरूपम् "धनुष्" इति अस्ति, तथापि आदेशप्रत्यययोः 8|3|59 इत्यनेन विधीयमानं "षत्वम्" त्रिपादीकार्यम् अस्ति , अतः अत्र असिद्धम् ज्ञातव्यम् ।]
→ धनुस् + क [इसुसुक्तान्तात् कः 7|3|51 इति ठकारस्य ककारादेशः]
→ धानुस् + क [किति च 7|2|118 इति आदिवृद्धिः]
→ धानुरुँ + क [स्वादिष्वसर्वनामस्थाने 1|4|17 इति अङ्गस्य पदसंज्ञा । ससजुषो रुँः 8|2|66 इति पदान्तसकारस्य रूँत्वम् ]
→ धानुः + क [खरवसानयोर्विसर्जनीयः 8|3|14 इति विसर्गः]
→ धानुष् + क [इणः षः 8|3|39 इति विसर्गस्य षकारः]
→ धानुष्क

ज्ञातव्यम् - प्राग्दीव्यतीय-अधिकारे तदस्यां प्रहरणम् इति क्रीडायां णः 4|2|57 इति कश्चन अर्थः विधीयते । अस्मिन् अर्थे प्रहरणवाचिशब्दात् क्रीडायाः निर्देशं कर्तुम् "ण"-प्रत्ययः भवति । यथा - दण्डं प्रहरणम् अस्यां क्रीडायाम् सा दाण्डा क्रीडा । वर्तमानसूत्रे तु प्रहरणधारिणः निर्देशः क्रियते, न तु क्रीडायाः । यथा, दण्डं प्रहरणम् अस्य राज्ञः सः दाण्डिकः राजा । द्वावपि अर्थौ भिन्नौ स्तः एतत् स्मर्तव्यम् ।
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
तदस्य इत्येव। तदिति प्रथमासमर्थादस्य इति षष्ठ्यर्थे ठक् प्रत्ययो भवति, यत्तत् प्रथमासमर्थं प्रहरणं चेत् तद् भवति। असिः प्रहरणम् अस्य आसिकः। प्रासिकः। चाक्रिकः धानुष्कः।
`धानुष्कः` इति। कादेशः `इणः षः` 8|3|39 इति विसर्जनीयस्य षत्वम्॥
प्रहरणमायुधम्, प्रह्रियतेऽनेनेति कृत्वा । धानुष्क इति । पूर्ववत् कादेशः, ठिणः षःऽ इति विसर्जनीयस्य षत्वम् ॥
सिद्धान्तकौमुदी
तदस्येत्येव । असिः प्रहरणमस्य आसिकः । धानुष्कः ॥
प्रहरणम् - प्रहरणम् ।तदस्ये॑त्येव । प्रहरणवाचिनः प्रथमान्तात्तदस्येत्यर्थे ठगित्यर्थः । प्रह्यियतेऽनेनेति प्रहरणम्ायुधम् । धानुष्क इति । धनुः प्रहरणमस्येति विग्रहः । उसन्तात्परत्वाट्ठस्य कः । "इणः षः" इति षः ।
प्रहरणम् - प्रहरणम् । प्रह्यियते अनेनेति प्रहणमायुधम् । धानुष्क इति ।इसुसुक्तान्तात्कः॑ ।इणः षः॑इति विसर्गस्य षः ।
लघुसिद्धान्तकौमुदी
तदस्येत्येव। असिः प्रहरणमस्य आसिकः। धानुष्कः॥
महाभाष्यम्
Text Unavailable. Please use feedback link below to provide the text if you have.