Page loading... Please wait.
4|4|56 - मड्डुकझर्झरादणन्यतरस्याम्
॥ तस्मै पाणिनये नमः ॥
4|4|56
SK 1606
मड्डुकझर्झरादणन्यतरस्याम्   🔊
सूत्रच्छेदः
मड्‍डुक-झर्झरात् (पञ्चम्येकवचनम्) , अण् (प्रथमैकवचनम्) , अन्यतरस्याम् (सप्तम्येकवचनम्)
अनुवृत्तिः
अस्य  4|4|51 (षष्ठ्येकवचनम्) , तत्  4|4|51 (प्रथमैकवचनम्) , शिल्पम्  4|4|55 (प्रथमैकवचनम्)
अधिकारः
प्रत्ययः  3|1|1 परश्च  3|1|2 आद्युदात्तश्च  3|1|3 ङ्याप्प्रातिपदिकात्  4|1|1 तद्धिताः  4|1|76 प्राग्वहतेष्ठक्  4|4|1 समर्थानां प्रथमाद्वा  4|1|82
सम्पूर्णसूत्रम्
"तदस्य शिल्पम्" (इति) मड्डुक-झर्झरात् अन्यतरस्याम् अण्
सूत्रार्थः
"अस्य शिल्पम्" अस्मिन् अर्थे प्रथमासमर्थात् मड्डुकशब्दात् झर्झरशब्दात् च विकल्पेन अण्-प्रत्ययः भवति, पक्षे औत्सर्गिकः ठक्-प्रत्ययः अपि विधीयते ।
"शिल्पम्" इत्युक्ते कौशल्यम् / प्रावीण्यम् । शिल्पम् 4|4|55 अस्मिन्नर्थे प्राविण्यवाचि-प्रथमासमर्थात् प्राग्वहतेष्ठक् 4|4|1 इत्यनेन ठक्-प्रत्यये प्राप्ते तं बाधित्वा मड्डुकशब्दात् झर्झरशब्दात् च वर्तमानसूत्रेण विकल्पेन अण्-प्रत्ययः भवति । पक्षे ठक् अपि विधीयते ।यथा -

1. मड्डुकवादनम् शिल्पमस्य सः = मड्डुक + अण् → माड्डुक । पक्षे - मड्डुक + ठक् → माड्डुकिक ।
2. झर्झरवादनम् शिल्पमस्य सः = झर्झर + अण् → झार्झरः । पक्षे - झर्झर + ठक् → झार्झरिक ।


ज्ञातव्यम् - मड्डुकः तथा झर्झरः - द्वावपि वाद्यविशैषणौ ।
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
मड्डुकझर्झरशब्दाभ्याम् अन्यतरस्याम् अण् प्रत्ययो भवति तदस्य शिल्पम् इत्येतस्मिन् विषये। पक्षे सो ऽपि भवति। मड्डुकवादनं शिल्पमस्थ माड्डुकः, माड्डुकिकः। झार्झरः, झार्झरिकः।
Text Unavailable. Please use feedback link below to provide the text if you have.
अयमेव निर्देशो ज्ञापयति---ठ्तद्वादनवृत्तिभ्यो मृदङ्गादिभ्यः प्रत्ययःऽ इति । न हि मुख्यमड्डुकझर्झरयोः शिल्पेन समानाधिकरण्यमुपपद्यते ॥
सिद्धान्तकौमुदी
मड्डुकवादनं शिल्पमस्य माड्डुकः । माड्डुकिकः । झार्झरः । झार्झरिकः ॥
मड्डुकझर्झरादणन्यतरस्याम् - मड्डुकझर्झरात् ।तदस्य शिल्प॑मित्येव । पक्षे ठक् ।मड्डुकझर्झरौ — वाद्यविशेषौ ।
Text Unavailable. Please use feedback link below to provide the text if you have.
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
Text Unavailable. Please use feedback link below to provide the text if you have.