Page loading... Please wait.
4|4|55 - शिल्पम्‌
॥ तस्मै पाणिनये नमः ॥
4|4|55
SK 1605
शिल्पम्‌   🔊
सूत्रच्छेदः
शिल्पम् (प्रथमैकवचनम्)
अनुवृत्तिः
अस्य  4|4|51 (षष्ठ्येकवचनम्) , तत्  4|4|51 (प्रथमैकवचनम्)
अधिकारः
प्रत्ययः  3|1|1 परश्च  3|1|2 आद्युदात्तश्च  3|1|3 ङ्याप्प्रातिपदिकात्  4|1|1 तद्धिताः  4|1|76 प्राग्वहतेष्ठक्  4|4|1 समर्थानां प्रथमाद्वा  4|1|82
सम्पूर्णसूत्रम्
"तदस्य शिल्पम्" (इति) समर्थानां प्रथमात् परः ठक् तद्धितप्रत्ययः
सूत्रार्थः
"अस्य शिल्पम्" अस्मिन् अर्थे प्रथमासमर्थात् ठक् प्रत्ययः भवति ।
"शिल्पम्" इत्युक्ते कौशल्यम् / प्रावीण्यम् । यस्य प्राविण्यम् विद्यते, तस्य निर्देशार्थम् "यस्मिन् प्राविण्यम् विद्यते" तादृशात् प्रथमासमर्थात् ठक्-प्रत्ययः भवति । यथा -

1. मृदङ्गवादनं शिल्पम् अस्य सः = मृदङ्ग + ठक् → मार्दङ्गिकः ।
2. वीणावादनं शिल्पम् अस्य सः = वीणा + ठक् → वैणिकः ।
3. पणववादनं शिल्पम् अस्य सः = पणव + ठक् → पाणविकः ।

ज्ञातव्यम् - अत्र उदाहरणेषु यद्यपि कौशलम् तु "वादनम्" इति अस्ति, तथापि शिष्टप्रयोगमनुसृत्य तद्धितप्रत्ययः तु वाद्यवाचिशब्दात् विधीयते, न हि वादनवाचिशब्दात् । अस्मिन् विषये न्यासकारः वदति - "मृदङ्गशब्द एव प्रत्ययमुत्पदयति, स तु मृदङ्गवादने वर्तमानः, न मृदङ्गे। अत्रशब्दशक्तिस्वाभाव्यं हेतुः।" इत्युक्ते अत्र "मृदङ्ग"शब्देन "मृदङ्गवादनम्" इत्यस्यैव अर्थस्य ग्रहणं भवति करणीयं च ।
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
तदिति प्रथमासमर्थादस्य इति षष्ठ्यर्थे ठक् प्रत्ययो भवति यत्तत् प्रथमासमर्थं शिल्पं चेत् तद् भवति। शिल्पं कौशलम्। मृदङ्गवादनं शिल्पम् अस्य मार्दङ्गिकः। पाणविकः। वैणिकः। मृदङ्गवादने वर्तमानो मृदङ्गशब्दः प्रत्ययम् उत्पादयति। शिल्पं तद्धितवृत्तावन्तर्भवति।
`शिल्पं कौशलम्` इति। क्रियाभ्यासपूर्वको ज्ञानविशेषः। `मृदङ्गवादनं शिल्पमस्य` इति। मृदङ्गो वाद्यते येन शिल्पेन तन्मृदङ्गवादनम्। ननु च मृदङ्गवादनं शिल्पं यस्येति विगृह्र प्रत्यय उत्पद्यमानो मृदङ्गवादनशब्दादेव प्राप्नोति, न तु मृदङ्गशब्दात्, ततो मार्दङ्गवादनिक इति भवितव्यम्, तत्कथं मार्दङ्गिक इति भवति? इत्याह-- `मृदङ्गवादनम्` इत्यादि। मृदङ्गशब्द एव प्रत्ययमुत्पदयति, स तु मृदङ्गवादने वत्र्तमानः, न मृदङ्गे। अत्रशब्दशक्तिस्वाभाव्यं हेतुः। न चायं नियमः-- येन विग्रहः क्रियते, तत एव प्रत्ययेन भवितव्यमिति। यथा ह्रवेरिदं मांसमाविकम्, मांसमित्यविशब्देन विग्रहः क्रियतेऽविकशब्दादेव प्रत्ययो भवति, तथेहापि मृदङ्गवादनशब्देन विग्रहः क्रियते, प्रत्ययस्तु मृदङ्शब्दाद्भवति। तेन तत्र गतार्थत्वाच्छिल्पशब्दो न प्रयुज्यत इत्यभिप्रायः॥
कौशलमिति । क्रियाभ्यासपूर्वको ज्ञानविशेषः । मृदङ्गवादनं शिल्पमस्येति । मृदङ्गो वाद्यते येन तन्मृदङ्गवादनं शिल्पम् भावसाधनस्य गौणं सामानाधिकरण्यम् । मृदङ्गवादनविषयं शिल्पमस्येत्यर्थः । मार्दङ्गिक इति । ननु मृदङ्गवादनं शल्पिमस्येति विग्रहः कृतः, ततश्च मार्दङ्गवादनिक इति भवितव्यम् ? तत्राह---मृदङ्गेत्यादि । मृदङ्गवादनशब्दातु प्रत्ययो न भवत्यनभिधानात्, किं तूपचरितवृतेरपि मृदङ्गशब्दादेव भवति । अत एवानभिधानात् मृदङ्गनिष्पादनं श्लिपमस्य मार्दङ्गिकः कुम्भकार इत्यत्र न भवति ॥
सिद्धान्तकौमुदी
मृदङ्गवादनं शिल्पमस्य मार्दङ्गिकः ॥
शिल्पम् - शिल्पम् । तदस्य शिल्पमित्यर्थे प्रतमान्ताट्ठगित्यर्थः । क्रियासु कौशलं शिल्पम् । ननु "मार्दङ्गिक" इत्युदाहरणं वक्ष्यति, तत्र मृदङ्गं शिल्पमिति कथं विग्रहः, मृदङ्गस्य शिल्पत्वाऽसंभवात् । तत्राह — मृदङ्गवादनमिति । मृदङ्गवादनविषयकमित्यर्थः । मृदङ्गशब्दो लक्षणया मृदङ्गवादनविषयक इति भावः ।
शिल्पम् - शिल्पं — क्रियाकौशलम् । तच्च मृदङ्गवादनविषयकम् । तेन मृदङ्गवादनविषयके मृदङ्गशब्दस्य लक्षणेति निष्कर्षः ।
लघुसिद्धान्तकौमुदी
मृदङ्गवादनं शिल्पमस्य मार्दङ्गिकः॥
महाभाष्यम्
शिल्पम् (1793) (ठञ्ञोऽधिकरणम्) (अनिष्टनिवारकं भाष्यम्) किं यस्य मृदङ्गः शिल्पं स मार्दङि्गकः? किं चातः? कुम्भकारे प्राप्नोति। एवं तर्ह्युत्तरपदलोपो द्रष्टव्यः। शिल्पमिव ‐ शिल्पम्। मृदङ्गवादनं शिल्पमस्य ‐ मार्दङि्गकः, मौरजिकः, पाणविकः, पैठरिकः।।