Page loading... Please wait.
4|4|54 - शलालुनोऽन्यतरस्याम्
॥ तस्मै पाणिनये नमः ॥
4|4|54
SK 1604
शलालुनोऽन्यतरस्याम्   🔊
सूत्रच्छेदः
शलालुनः (पञ्चम्येकवचनम्) , अन्यतरस्याम् (सप्तम्येकवचनम्)
अनुवृत्तिः
पण्यम्  4|4|51 (प्रथमैकवचनम्) , अस्य  4|4|51 (षष्ठ्येकवचनम्) , तत्  4|4|51 (प्रथमैकवचनम्) , ष्ठन्  4|4|53 (प्रथमैकवचनम्)
अधिकारः
प्रत्ययः  3|1|1 परश्च  3|1|2 आद्युदात्तश्च  3|1|3 ङ्याप्प्रातिपदिकात्  4|1|1 तद्धिताः  4|1|76 प्राग्वहतेष्ठक्  4|4|1 समर्थानां प्रथमाद्वा  4|1|82
सम्पूर्णसूत्रम्
"तदस्य पण्यम्" (इति) शलालुनः ष्ठन् अन्यतरस्याम्
सूत्रार्थः
"अस्य पण्यम्" अस्मिन् अर्थे प्रथमासमर्थात् "शलालु"शब्दात् विकल्पेन ष्ठन् प्रत्ययः भवति, पक्षे औत्सर्गिकः ठक् अपि विधीयते ।
"पण्य" इति पण् (व्यवहारे) धातोः "यत्" प्रत्ययान्तरूपम् । व्यवहारम् कर्तुम् / क्रेतुम् योग्यम् तत् पण्यम् । तदस्य पण्यम् 4|4|51 इत्यत्र निर्दिष्ऱे "पण्यम्" अस्मिन् अर्थे सर्वेभ्यः प्रातिपदिकेभ्यः औत्सर्गिकरूपेण ठक्-प्रत्यये प्राप्ते तं बाधित्वा "शलालु"शब्दात् विकल्पेन ष्ठन्-प्रत्ययः भवति । (शलालु इति उकारान्तनपुँसकलिङ्गः गन्धविशेषवाची शब्दः) । यथा -

शलालु पण्यम् अस्य सः = शलालु + ष्ठन् → शलालुक । स्त्रीत्वे विवक्षिते षिद्गौरादिभ्यश्च 4|1|41 इति ङीष्-प्रत्ययं कृत्वा - शलालुकी ।

अत्र ष्ठन्-प्रत्ययविधानम् "अन्यतरस्याम्" कृतम् अस्ति, अतः पक्षे ठक् अपि भवति । यथा - शलालु पण्यम् अस्य सः = शलालु + ठक् → शालालुकः । स्त्रीत्वे विवक्षिते टिड्ढाणञ् 4|1|15 इति ङीप्-प्रत्ययं कृत्वा - शालालुकी ।
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
शलालुशब्दादन्यतरस्यां ष्ठन् प्रत्ययो भवति तदस्य पण्यम् इत्येतस्मिन् विषये। ठको ऽपवादः। पक्षे सो ऽपि भवति। शलालुशब्दो गन्धविशेषवचनः। शलालु पण्यम् अस्य शलालुकः। शलालुकी। शालालुकः। शालालुकी।
`शलालुकः`इति। `इसुसुक्तान्तात् कः` 7|3|51
शलालुक इति । ठिसुसुक्तान्तात्कःऽ ॥
सिद्धान्तकौमुदी
ष्ठन्स्यात् पक्षे ठक् । शलालुकः । शलालुकी । शालालुकः । शालालुकी । शलालुः सुगन्थिद्रव्यविशेषः ॥
शलालुनोऽन्यतरस्याम् - शलालुनोऽन्यतरस्याम् ।ष्ठ॑न्निति शेषः ।तदस्य पण्यमित्येव ।शलालुक इति । शलालु पण्यमस्येति विग्रहः । उकः परत्वाट्ठस्य कः । षित्त्वस्य फलमाह — शलालुकीति ।
शलालुनोऽन्यतरस्याम् - शलालुक इति ।इसुसुक्तान्तात्कः॑ । ठक्पक्षे त्वादिवृद्धिः । शालालुकः । मार्दङ्गिक इति । मृदङ्गशब्देन मृदङ्गवादनं लक्ष्यते । मुख्यार्थे तु प्रयोगो न भवति, अनभिधानादिति भावः ।
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
Text Unavailable. Please use feedback link below to provide the text if you have.