Page loading... Please wait.
4|4|50 - अवक्रयः
॥ तस्मै पाणिनये नमः ॥
4|4|50
SK 1600
अवक्रयः   🔊
सूत्रच्छेदः
अवक्रयः (प्रथमैकवचनम्)
अनुवृत्तिः
तस्य  4|4|47 (षष्ठ्येकवचनम्)
अधिकारः
प्रत्ययः  3|1|1 परश्च  3|1|2 आद्युदात्तश्च  3|1|3 ङ्याप्प्रातिपदिकात्  4|1|1 तद्धिताः  4|1|76 प्राग्वहतेष्ठक्  4|4|1 समर्थानां प्रथमाद्वा  4|1|82
सम्पूर्णसूत्रम्
"तस्य अवक्रयः" इति समर्थानाम् प्रथमात् परः ठक् प्रत्ययः
सूत्रार्थः
"अवक्रयः" अस्मिन् अर्थे षष्ठीसमर्थात् ठक् प्रत्ययः भवति ।
"अवक्रय" इत्युक्ते अधिभारः / विक्रीकरः । वाणिज्यार्थम् तैलधान्यादीनि वस्तूनि एकस्मात् स्थलात् अन्यस्मिन् स्थले यदा नीयन्ते, तदा यानि भिन्नानि शुल्कानि दातव्यानि, तेषाम् निर्देशः "अवक्रय" अनेन क्रियते । यस्य स्थलस्य अवक्रयः निर्दिश्यते, तस्मात् षष्ठीसमर्थात् अवक्रयं निर्देशयितुम् ठक् प्रत्ययः भवति । यथा -

1. शुल्कशालायाः अवक्रयः शौल्कशालिकः । शुल्कशाला + ठक् → शौल्कशालिक । शुल्कशालायां यः अधिभारः दातव्यः सः शौल्कशालिकः ।
2. आपणस्य अवक्रयः आपणिकः । आपण + ठक् → आपणिक । आपणे दीयमानः अवक्रयः इत्यर्थः ।
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
तस्य इत्येव। षष्ठीसमर्थातवक्रय इत्येतस्मिन्नर्थे ठक् प्रत्ययो भवति। अवक्रीणिते ऽनेन इति अवक्रयः पिण्डकः उच्यते। शुल्कशालायाः अवक्रयः औल्कशालिकः। आकरिकः। आपणिकः। गौल्मिकः। ननु अवक्रयो ऽपि धर्म्यम् एव? न एतदस्ति। लोकपीडया धर्मतिक्रमेण अप्यवक्रयो भवति।
Text Unavailable. Please use feedback link below to provide the text if you have.
अवक्रीयतेऽनेनेत्यवक्रय इति । क्रयो नाम उ स्वद्रव्यत्यागेन परद्रव्यस्वीकरणम्, तस्यावमत्वमवशब्दो द्योतयति । वाणिज्यार्थं तैलधान्यादिकं देशान्तरं नयताऽस्मिन् शुल्कस्थाने प्रतिभारमेतावद् देयमिति तद्देशादिपतिना यत्कल्पितं सोऽवक्रयः, पिण्डक इति चोच्यते । तत्र स्वद्रव्यमेव दत्वा स्वद्रव्यमेव स्वीक्रियते इत्ययमवक्रयो भवति, न तु मुख्यः । नन्वित्यादि । अवक्रयस्याप्यनादिप्रवृतत्वादिति भावः । लोकपीडयेति । अर्थलोभेन धर्मातिक्रमेण धर्मापेतत्वं दर्शयति ॥
सिद्धान्तकौमुदी
षष्ठ्यन्ताट्ठक् स्यादवक्रयेऽर्थे । आपणस्यावक्रय आपणिकः । राजग्राह्यं द्रव्यमवक्रयः ॥
अवक्रयः - अवक्रयः । तस्येत्यनुवर्तते । तदाह — षष्ठन्तादिति ।
अवक्रयः - अवक्रयः । अवक्रीयते अनेनेति करणेएरच् ।
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
Text Unavailable. Please use feedback link below to provide the text if you have.