Page loading... Please wait.
4|4|48 - अण् महिष्यादिभ्यः
॥ तस्मै पाणिनये नमः ॥
4|4|48
SK 1598
अण् महिष्यादिभ्यः   🔊
सूत्रच्छेदः
अण् (प्रथमैकवचनम्) , महिषी-आदिभ्यः (पञ्चमीबहुवचनम्)
अनुवृत्तिः
धर्म्यम्  4|4|47 (प्रथमैकवचनम्) , तस्य  4|4|47 (षष्ठ्येकवचनम्)
अधिकारः
प्रत्ययः  3|1|1 परश्च  3|1|2 आद्युदात्तश्च  3|1|3 ङ्याप्प्रातिपदिकात्  4|1|1 तद्धिताः  4|1|76 प्राग्वहतेष्ठक्  4|4|1 समर्थानां प्रथमाद्वा  4|1|82
सम्पूर्णसूत्रम्
"तस्य धर्म्यम्" इति महिष्यादिभ्यः अण्
सूत्रार्थः
महिष्यादिगणस्य शब्दानां विषये "धर्म्यम्" अस्मिन् अर्थे षष्ठीसमर्थात् अण्-प्रत्ययः भवति ।
"महिष्यादि"गणे विद्यमानाः ये शब्दाः, तेषां विषये षष्ठीसमर्थात् "धर्म्यम्" अस्मिन् अर्थे औत्सर्गिकं ठक्-प्रत्ययं बाधित्वा अण्-प्रत्ययः विधीयते ।

महिष्यादिगणः अयम् - महिषी, प्रजावती, प्रलेपिका, विलेपिका, अनुलेपिका, पुरोहित, मणिपाली, अनुचारक, होतृ, यजमान ।

उदाहरणानि -
1. महिष्याः धर्म्यम् = महिषी + अण् → माहिष ।
2. प्रजावत्याः धर्म्यम् प्राजावतम् ।
3. पुरोहितस्य धर्म्यम् पौरोहितम् ।
4. यजमानस्य धर्म्यम् याजमानम् ।
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
महिषी इत्येवम् आदिभ्यः अण् प्रत्ययो भवति तस्य धर्म्यम् इत्येतस्मिन् विषये। ठको ऽपवादः। महिस्याः धर्म्यम् माहिषम्। प्राजावतम्। महिषी। प्रजावती। प्रलेपिका। विलेपिका। अनुलेपिका। पुरोहित। मणिपाली। अनुचारक। होतृ। यजमान। महिष्यादिः।
Text Unavailable. Please use feedback link below to provide the text if you have.
Text Unavailable. Please use feedback link below to provide the text if you have.
सिद्धान्तकौमुदी
महिष्या धर्म्यं माहिषम् । याजमानम् ॥
अण् महिष्यादिभ्यः - अण् महिष्यादिभ्यः ।षष्ठन्तेभ्यो धम्र्यमित्यर्थे॑ इति सेषः ।
Text Unavailable. Please use feedback link below to provide the text if you have.
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
Text Unavailable. Please use feedback link below to provide the text if you have.