Page loading... Please wait.
4|4|46 - संज्ञायां ललाटकुक्कुट्यौ पश्यति
॥ तस्मै पाणिनये नमः ॥
4|4|46
SK 1596
संज्ञायां ललाटकुक्कुट्यौ पश्यति   🔊
सूत्रच्छेदः
संज्ञायाम् (सप्तम्येकवचनम्) , ललाट-कुक्‍कुट्यौ (द्वितीयाद्विवचनम्) , पश्यति क्रियापदम्
अनुवृत्तिः
तत्  4|4|28 (द्वितीयैकवचनम्)
अधिकारः
प्रत्ययः  3|1|1 परश्च  3|1|2 आद्युदात्तश्च  3|1|3 ङ्याप्प्रातिपदिकात्  4|1|1 तद्धिताः  4|1|76 प्राग्वहतेष्ठक्  4|4|1 समर्थानां प्रथमाद्वा  4|1|82
सम्पूर्णसूत्रम्
"तत् ललाटकुकुट्यौ पश्यति" इति संज्ञायाम् समर्थानां प्रथमात् परः ठक् प्रत्ययः
सूत्रार्थः
"पश्यति" अस्मिन् अर्थे द्वितीयासमर्थात् "ललाट"शब्दात् तथा "कुक्कुटी"शब्दात् संज्ञायाः विषये ठक्-प्रत्ययः भवति ।
यः "ललाटं पश्यति" तथा यः "कुक्कुटीं पश्यति" तस्य निर्देशं कर्तुम् द्वितीयासमर्थात् वर्तमानसूत्रेण ठक्-प्रत्ययः भवति - इति अस्य सूत्रस्य सामान्यः अर्थः । परन्तु अस्मिन् सूत्रे "संज्ञायाम्" इति निर्दिश्यते । अस्य अर्थं काशिकाकारः वदति - "संज्ञाग्रहणम् अभिधेयनियमार्थं, न तु रूढ्यर्थम्"। इत्युक्ते, अत्र "संज्ञा"शब्दस्य ग्रहणम् "विशिष्ट"-अर्थस्य निर्देशार्थं कृतम् अस्ति, न हि रूढ्यर्थस्य निर्देशार्थम् । इत्युक्ते, शरीरस्य अवयवः ललाटः, उत पक्षिणः जातिः कुकुट्टी - एतौ अर्थौ अत्र न गृह्येते, अपि तु लक्षणार्थौ अत्र स्वीक्रियेते । सर्वेषु अवयवेषु ललाटं दूरात् दृश्यते, अतः "ललाटं पश्यति" इत्युक्ते "दूरे तिष्ठति" इति लाक्षणिकः अर्थः । तथैव, कुक्कुटी सदा भूमौ एव अस्ति, अतः "कुक्कुटीं पश्यति" इत्युक्ते "अधः एव पश्यति, इतरत्र न" इत्यर्थः ।

उदाहरणं पश्यामश्चेत् स्पष्टं स्यात् -
1. ललाट् + ठक् → लालाटिक । ललाटम् एव पश्यति, न अन्यत् ; सः "लालाटिकः" सेवकः । यः सेवकः कार्ये कुशलः नास्ति, स्वामिनः दूरे एव तिष्ठति, समीपे न आगच्छति, तस्य निर्देशार्थम् अस्य शब्दस्य प्रयोगः भवति । सर्वेभ्यः अवयवेभ्यः ललाटम् दूरात् द्रष्टुं शक्यते, अतः "ललाटमेव पश्यति" इत्यस्य अर्थः "दूरे तिष्ठति" इति कर्तव्यः - इति काशिकाकारस्य मतम् ।

2. कुक्कुटी + ठक् → कौक्कुटिकः । कुक्कुटीम् एव पश्यति, न अन्यत् ; सः "कौक्कुटिकः" भिक्षुः । यथा कुकुट्टी बहु दूरे न डयते, स्वस्थानस्य समीपे एव कूर्दति ; तथैव, यस्य दृष्टिः दूरा नास्ति, केवलं स्वस्य निकटे एव वर्तते, सः "कुक्कुटीम् पश्यति" इत्युच्यते । एतादृशस्य मनुष्यस्य निर्देशः "कौक्कुटिक" शब्देन क्रियते । अस्य स्पष्टीकरणार्थं काशिकाकारः वदति - "यः पादविक्षेपदेशे चक्षुः संयम्य गच्छति, सः कौक्कुटिकः" । इत्युक्ते, यः अधोमुखं चलति, यस्य च दृष्टिः तस्य पादयोः एव अस्ति, इतरत्र न; सः कौक्कुटिकः ।
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
ललाटकुक्कुटीशब्दाभ्यां तदिति द्वितीयासमर्थाभ्यां पश्यति इत्येतस्मिन्नर्थे ठक् प्रत्ययो भवति संज्ञायां विषये। संज्ञाग्रहणम् अभिधेयनियमार्थं, न तु रूढ्यर्थम्। ललाटं पश्यति लालाटिकः सेवकः। कौक्कुटिको भिक्षुः। सर्वावयवेभ्यो ललाटं दूरे दृश्यते। तदनेन ललाटदर्शनेन सेवकस्य स्वामिनं प्रति अनुपश्लेषः कार्येषु अनुपस्थायित्वं लक्ष्यते। लालाटिकः सेवकः। स्वामिनः कार्येषु न उपतिष्ठते इत्यर्थः। कुक्कुटीशब्देन अपि कुक्कुटीपातो लक्ष्यते। देशस्य अल्पतया हि भिक्षुरविक्षिप्तदृष्टिः पादविक्षेपदेशे चक्षुः संयम्य गच्छति स उच्यते कौक्कुटिकः इति।
`अभिधेयनियमार्थः` इति। अभिधेये सेवकविशेषे च प्रत्ययान्तस्य नियमः। तत्रैव वृत्तिर्यथा स्यादित्येवमर्थम्। `न तु रूढर्थम्` इति। लालाटिककौक्कुटिकशब्दयो रूढआमेकत्वात्।`तदनेन` इत्यादि। यत एव सर्वावयवेब्यो ललाटं दूरे दृश्यते, तस्मादनेन ललाटदर्शनेन सेवकस्य स्वामिनं प्रत्यनुपश्लेषो लभ्यते। न त्वत्र ललाटार्थो दर्शनं चास्ति। यादृशश्चानुपश्लेषो विवक्षितः, तं `कार्येष्वनुपस्थायित्वम्` इत्यनेन दर्शयति।`कुक्कुटीशब्देनापि` इत्यादि। कक्कुटआ ह्रल्पदेशविषयः पातो भवति। तदनेन कुक्कुटीपातदेशस्याल्पता लक्ष्यते। न त्वत्र कुक्कुटर्थो देशश्च विद्यते॥
संज्ञानं संज्ञा उ प्रतीतिः, प्रसिद्धिरित्यर्थः । अभिधेयनियमार्थमिति । अभिधेये सेवकविशेषे भिक्षुविशेषे च नियमः, तत्रैव वृत्तिर्यथा स्यादित्येवमर्थमित्यर्थः । न रूढ।ल्र्थमिति । लालाटिक-कौक्कुटिकशब्दयोर्डित्थादिवदरूढत्वात् तन्नियोगेन वर्तते, यावद्योगे च वर्तते । योगेऽपि ललाटकुक्कुटीदर्शनमात्रेण ठञ् न भवतीत्येतावत्संज्ञाग्रहणेन प्रसिद्ध्युपसंग्रहार्थे न क्रियते । यादृशस्तु योगोऽत्र विवक्षितस्तं दर्शयति---सर्वावयवेभ्य इत्यादि । अनुपश्लेषस्य विवरणं कार्येष्वनुपस्थायित्वमिति, दूरे स्थितो ललाटमेव पश्यति, न पुनः कार्येषूपतिष्ठत इत्यर्थः । कुक्कुटीपातो लक्ष्यते इति । यावति देशे कुक्कुटी पतति यावन्तं देशं समतीत्य निपतीतुं समर्था स देशो लक्ष्यत इत्यर्थः । अनेनापि प्रकारेण देशस्याल्पत्वं लक्ष्यते, कुक्कुटी पततु मा वाऽपतदित्याह---देशस्याल्पतयेति । एतदेव स्पष्टयति---यो हि भिक्षुरिति । भिक्षुः उ संन्यासी ॥
सिद्धान्तकौमुदी
ललाटं पश्यति लालाटिकः सेवकः । कुक्कुटीशब्देन तत्पातार्हः स्वल्पदेशो लक्ष्यते ॥ कौक्कुटिकोभिक्षुः ॥
संज्ञायां ललाटकुक्कुट्यौ पश्यति - संज्ञायाम् । ललालकुक्कुटीशब्दाभ्यां फश्यतीत्यर्थे ठक् स्यात्संज्ञायामित्यर्थः । संज्ञा=रूढिः, न त्वाधुनिकः सङ्खेतः । लालाटिकः शेवक इति । दूरे स्थधित्वा प्रभोर्ललाटं पश्यति, नतु कार्ये प्रवर्तत इत्यर्थः ।लालाटिकः प्रभोर्भालदशीं कार्याऽक्षमश्च यः॑ इत्यमरः । कौक्कुटिक इति । कुक्कुटीपतनार्हदेशं पश्यतीत्यर्थः ।
संज्ञायां ललाटकुक्कुट्यौ पश्यति - संज्ञायाम् । ललाटकुक्कुटीशब्दाभ्यां द्वितीया । ताभ्यां पश्यतीत्यर्थे ठक्स्यात् । सम्यग्ज्ञानं संज्ञा=प्रसिद्धिः, तस्याम् । प्रसिद्धिविषयभूतेऽर्थं इत्यर्थः । लालाटिक इति । दूरे स्थित्वा प्रभोर्ललाटं पश्यति न तु कार्येषूपतिष्ठत इत्यर्थः ।लालाटिकः प्रभोर्भालदर्शी कार्याऽक्षमश्च यः॑ । कौक्कुटिको भिक्षुरिति । संन्यासी हि पादविक्षेपपर्याप्तदेशपर्यन्तमेव चक्षुः संयम्य गच्छतीति भावः ।
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
Text Unavailable. Please use feedback link below to provide the text if you have.