Page loading... Please wait.
4|4|44 - परिषदो ण्यः
॥ तस्मै पाणिनये नमः ॥
4|4|44
SK 1594
परिषदो ण्यः   🔊
सूत्रच्छेदः
परिषदः (पञ्चम्येकवचनम्) , ण्यः (प्रथमैकवचनम्)
अनुवृत्तिः
तत्  4|4|28 (द्वितीयैकवचनम्) , समवैति  4|4|43 (क्रियापदम्) , समवायान्  4|4|43 (द्वितीयाबहुवचनम्)
अधिकारः
प्रत्ययः  3|1|1 परश्च  3|1|2 आद्युदात्तश्च  3|1|3 ङ्याप्प्रातिपदिकात्  4|1|1 तद्धिताः  4|1|76 प्राग्वहतेष्ठक्  4|4|1 समर्थानां प्रथमाद्वा  4|1|82
सम्पूर्णसूत्रम्
"तत् समवायान् समवैति" (इति) परिषदः ण्यः
सूत्रार्थः
"समवायान् समवैति" अस्मिन् अर्थे द्वितीयासमर्थात् "परिषद्" शब्दात् ण्य-प्रत्ययः भवति ।
"समवाय" इत्युक्ते समूहः । "समवैति" इति "सम् + अव + इण्" इत्यस्य लट्लकारस्य प्रथमपुरुषैकवचनम् । काशिकाकारः अस्य अर्थं "आगत्य एकदेशी भवति" इति ब्रूते । इत्युक्ते, यदि कश्चन पदार्थः आदौ समूहे न वर्तते, परन्तु अनन्तरम् आगत्य समूहस्य सदस्यत्वं प्राप्नोति (समूहस्यैव अवयवरूपेण वर्तते) तर्हि सः "समवैति" इत्युच्यते । समवायान् समवैति 4|4|43 अस्मिन् अर्थे प्राग्वहतेः ठक् 4|4|1 इत्यनेन औत्सर्गिकरूपेण ठक्-प्रत्यये प्राप्ते तं बाधित्वा "परिषद्" शब्दस्य विषये वर्तमानसूत्रेण ण्य-प्रत्ययः भवति । यथा - परिषदम् समवैति सः पारिषद्यः ।
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
परिषदः ण्यः प्रत्ययो भवति समवायान् समवैति इत्येतस्मिन् विषये। ठको ऽपवादः। परिषदं समवैति पारिषद्यः।
Text Unavailable. Please use feedback link below to provide the text if you have.
परितः सीदन्त्यस्यामिति परिषत्, सम्पदादित्वादधिकरणे क्विप्, ठ्सदिरप्रतेःऽ इति षत्वम् ॥
सिद्धान्तकौमुदी
परिषदं समवैति पारिषद्यः ॥
परिषदो ण्यः - परिषदो ण्यः । द्वितीयान्तात्परिषच्छब्दात्समवैतीत्यर्थे ठगपवादो ण्य इत्यर्थः ।
Text Unavailable. Please use feedback link below to provide the text if you have.
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
Text Unavailable. Please use feedback link below to provide the text if you have.