Page loading... Please wait.
4|4|43 - समवायान् समवैति
॥ तस्मै पाणिनये नमः ॥
4|4|43
SK 1593
समवायान् समवैति   🔊
सूत्रच्छेदः
समवायान् (द्वितीयाबहुवचनम्) , समवैति क्रियापदम्
अनुवृत्तिः
तत्  4|4|28 (द्वितीयैकवचनम्)
अधिकारः
प्रत्ययः  3|1|1 परश्च  3|1|2 आद्युदात्तश्च  3|1|3 ङ्याप्प्रातिपदिकात्  4|1|1 तद्धिताः  4|1|76 प्राग्वहतेष्ठक्  4|4|1 समर्थानां प्रथमाद्वा  4|1|82
सम्पूर्णसूत्रम्
"तत् समवायान् समवैति" (इति) समर्थानाम् प्रथमात् परः ठक् प्रत्ययः |
सूत्रार्थः
"समवायान् समवैति" अस्मिन् अर्थे द्वितीयासमर्थात् ठक् प्रत्ययः भवति ।
"समवाय" इत्युक्ते समूहः । "समवैति" इति "सम् + अव + इण्" इत्यस्य लट्लकारस्य प्रथमपुरुषैकवचनम् । काशिकाकारः अस्य अर्थं "आगत्य एकदेशी भवति" इति ब्रूते । इत्युक्ते, यदि कश्चन पदार्थः आदौ समूहे न वर्तते, परन्तु अनन्तरम् आगत्य समूहस्य सदस्यत्वं प्राप्नोति (समूहस्यैव अवयवरूपेण वर्तते) तर्हि सः "समवैति" इत्युच्यते । एतादृशस्य पदार्थस्य निर्देशं कर्तुम् द्वितीयासमर्थात् समवायवाचिशब्दात् ठक्-प्रत्ययः भवति । यथा -

1. समाजम् समवैति सः सामाजिकः । आदौ समाजे नास्ति, परन्तु अनन्तरम् आगत्य समाजस्यैव अवयवः भवति इत्यर्थः ।
2. समूहम् समवैतिः सः सामूहिकः ।
3. सन्निवेशं समवैति सः सान्निवेशिकः ।
4. समवायम् समवैति सः सामवायिकः ।

ज्ञातव्यम् - अस्मिन् सूत्रे "समवायान्" इति बहुवचनस्य निर्देशः एतत् दर्शयति यत् अत्र "शब्दग्रहणम्" न इष्यते, अपितु अर्थग्रहणम् इष्यते । इत्युक्ते, "समवाय" अस्मिन् अर्थे यः कोऽपि शब्दः प्रयुज्यते, तस्मात् अनेन सूत्रेण ठक् प्रत्ययः भवितुम् अर्हति ।
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
समवायावाचिभ्यः शब्देभ्यः तदिति द्वितीयासमर्थेभ्यः समवैति इत्येतस्मिन्नर्थे ठक् प्रत्ययो भवति। समवायः समूहः उच्यते, न संप्रधारणा। समवायानिति बहुवचनं सरूपविधिनिरासार्थम्। समवैति आगत्य तदेकदेशी भवति इत्यर्थः। समवायान् समवैति सामवायिकः। सामाजिकः। सामूहिकः। सान्निवेशिकः।
`समवायः समूह उच्यते, न सम्प्रसारणा` इति। कुत एतत्? तत्र समवैतीत्यस्य प्रत्ययार्थस्यायोगात्। आगत्य तदेकदेशीभवतीति समवैतिशब्दस्यार्थः। सम्प्रधारणा चामूर्तिः, चैतसिको धर्मः, न च तदेकदेशीभवितुं शक्यते। तस्मात् समूह एव समवायशब्दस्यार्थः, नैतीत्यस्यार्थः। एतीति वत्र्तमाने समवैतीति वचनमर्थविशेषप्रतिपत्त्यर्थम्। एतीति प्राप्तिमात्रं कुर्वन्नुच्यते। समवैतीत्यागत्य तदेकदेशीभवतीति॥
समवायः समूह उच्यत इति । समवयन्ति तस्मिन्निति कृत्वा । न सम्प्रधारणेति । समयपूर्वस्येणः सम्प्रधारणायामपि प्रयोगोऽस्तीतिमन्यते । समागत्य तदेकदेशीभवतीत्यर्थ इति । तत्र गुणभूतसमागमापेक्षया समवायमिति द्वितीयानिर्देशः । लोके तु प्रायेण सप्तमी प्रयुज्यते---द्रव्ये गुणाः समवयन्तीति ॥
सिद्धान्तकौमुदी
सामवायिकः । सामूहिकः ॥
समवायान् समवैति - समवायान्समवैति । द्वितीयान्तेभ्यः समवायवाचिशब्देभ्यः समवैतीत्यर्थे ठगित्यर्थः । बहुवचनात्तदर्थवाचिशब्दग्रहणम् । समवैति=मेलयतीत्यर्थः ।
समवायान् समवैति - समवायान् । समूहवाचिभ्यो द्वितीयान्तेभ्यष्ठक्स्यात्समवैतीत्यर्थे । इह समवपूर्वस्येणोऽर्थः प्राविश्यैकदेशीभवनम् । तत्र गुणभूतप्रवेशाऽपेक्षया समवायानिति द्वितीयानिर्देशः । विशेष्यापेक्षया तु लोके सप्तमी प्रायेण प्रयुज्यते — -॒कुरुक्षेत्रे समवेताः॑इति यथा ।एत्येधती॑ति वृद्धिरिह न भवति, एजादित्वाऽभावात् ।
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
Text Unavailable. Please use feedback link below to provide the text if you have.