Page loading... Please wait.
4|4|40 - प्रतिकण्ठार्थललामं च
॥ तस्मै पाणिनये नमः ॥
4|4|40
SK 1590
प्रतिकण्ठार्थललामं च   🔊
सूत्रच्छेदः
प्रतिकण्ठ-अर्थ-ललामम् (द्वितीयैकवचनम्) , च (अव्ययम्)
अनुवृत्तिः
तत्  4|4|28 (द्वितीयैकवचनम्) , गृह्णाति  4|4|39 (क्रियापदम्)
अधिकारः
प्रत्ययः  3|1|1 परश्च  3|1|2 आद्युदात्तश्च  3|1|3 ङ्याप्प्रातिपदिकात्  4|1|1 तद्धिताः  4|1|76 प्राग्वहतेष्ठक्  4|4|1 समर्थानां प्रथमाद्वा  4|1|82
सम्पूर्णसूत्रम्
"तत् प्रतिकण्ठ-अर्थ-ललामं गृह्णाति" (इति) समर्थानाम् प्रथमात् परः ठक् प्रत्ययः
सूत्रार्थः
"गृह्णाति" अस्मिन् अर्थे द्वितीयासमर्थात् प्रतिकण्ठ/अर्थ/ललामशब्दात् ठक् प्रत्ययः भवति ।
"गृह्णाति" अस्मिन् अर्थे द्वितीयासमर्थात् "प्रतिकण्ठ"शब्दात् , "अर्थ"शब्दात्, "ललाम"शब्दात् च ठक् प्रत्ययः भवति । क्रमेण पश्यामः । -

1. प्रतिकण्ठ - "कण्ठ" इत्युक्ते मतम् / विचारम् / चिन्तनम् / पर्यायः / शब्दः । भिन्नानां विचाराणाम् / पर्यायाणाम् / शब्दानाम् वा सङ्कलनम् "प्रतिकण्ठ" नाम्ना ज्ञायते । कण्ठं कण्ठं प्रति = प्रतिकण्ठम् । "प्रतिकण्ठम्" अस्य शब्दस्य अन्यः अपि एकः अर्थः भवितुम् अर्हति - लक्षणेनाभिप्रती आभिमुख्ये 2|1|14 इत्यनेन यत् "कण्ठम् आभिमुख्यम्" (कण्ठस्य दिशायां) वर्तते तदपि प्रतिकण्ठम् नाम्ना ज्ञायते । एतादृशं प्रतिकण्ठं यः गृह्णाति सः प्रातिकण्ठिकः । यथा, यः ग्रन्थः सर्वेषाम् मतानाम् चिन्तनानाम् च सङ्कलनम् करोति सः प्रातिकण्ठिकः ग्रन्थः ।

2. अर्थ - अर्थं गृह्णाति (जानाति / स्वीकरोति) सः आर्थिकः ग्रन्थः । अर्थ + ठक् → आर्थिक ।

3. ललाम - "ललाम" इत्युक्ते अलङ्कारः। ललामम् गृह्णाति सः लालामिकः ग्रन्थः । यस्मिन् ग्रन्थे भिन्नाः शब्दालङ्काराः प्रयुज्यन्ते, तस्य निर्देशः अत्र कृतः अस्ति ।
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
प्रतिकण्ठार्थललामशब्देभ्यः तदिति द्वितीयासमर्थेभ्यः गृह्णाति इत्येतस्मिन्नर्थे ठक् प्रत्ययो भवति। प्रतिकण्ठं गृह्णाति प्रातिकण्ठिकः। आर्थिकः। लालामिकः।
कण्ठं कण्ठं प्रति प्रतिकण्ठम्, यथार्थेऽव्ययीभावः, आभिमुख्ये वा ` लक्षणेनाभिप्रती आभिमुख्ये` 2|1|13 इति। कण्ठस्याभिमुख्य इति। कण्ठस्याभिमुख्यं प्रतिकण्ठम्, प्रातिकण्ठिकः स उच्यते सर्व कण्ठं यो गृह्णाति, यो वा कण्ठमाभिमुख्येन गृह्णाति। द्वितीयासमर्थप्रकरणे पुनर्द्वितीयान्त प्रकृतिनिर्देश इष्टाद्यथा स्यात्, अनिष्टान्मा भूत्। तेन प्रतिगतः कण्ठमिति `कुगतिप्रादयः` 2|2|18 इति तत्पुरुषो यः प्रतिकण्ठशब्दस्ततो न भवति॥
कण्ठ्ंअ कण्ठ्ंअ प्रति प्रतिकण्ठम्, ठ्यथार्थे यदव्ययम्ऽ इति वीप्सायामव्ययीभावः । आभिमुख्ये वा, ठ्लक्षणेनाभिप्रती आभिमुख्येऽ इति । यस्तु प्रतिगतः कण्ठ्ंअ प्रतिकण्ठ इति प्रादिसमासः, तस्य ग्रहणं न भवतिऽ अनभिधानात् ॥
सिद्धान्तकौमुदी
एभ्यो गृह्णात्यर्थे ठक् स्यात् । प्रतिकण्ठं गृह्णाति प्रातिकण्ठिकः । आर्थिकः लालामिकः ॥
प्रतिकण्ठार्थललामं च - प्रतिकण्ठार्थ । एभ्य इति । प्रतिकण्ठ, अर्थ, ललाम — इत्येभ्य इत्यर्थः । आर्थिक इति । अर्थं गृह्णातीत्यर्थः । लालामिक इति । ललामं=चिह्नं, तद्गृह्णातीत्यर्थः ।लिङ्गं ललामं च ललाम चे॑त्यमरः ।
प्रतिकण्ठार्थललामं च - प्रतिकण्ठमिति । कण्ठं कण्ठं प्रतीति यथार्थेऽव्ययीभावः,लक्षणेनाभिप्रती आभिमुख्ये॑इत्यनेन वा । यस्तु प्रतिगतः कण्ठं प्रतिकण्ठ इति प्रादिसमासः, तस्येह न ग्रहणं, व्याख्यानादित्याहुः ।
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
Text Unavailable. Please use feedback link below to provide the text if you have.