Page loading... Please wait.
4|4|4 - कुलत्थकोपधादण्
॥ तस्मै पाणिनये नमः ॥
4|4|4
SK 1552
कुलत्थकोपधादण्   🔊
सूत्रच्छेदः
कुलत्थ-क-उपधात् (पञ्चम्येकवचनम्) , अण् (प्रथमैकवचनम्)
अनुवृत्तिः
तेन  4|4|2 (तृतीयैकवचनम्) , संस्कृतम्  4|4|2 (प्रथमैकवचनम्)
अधिकारः
प्रत्ययः  3|1|1 परश्च  3|1|2 आद्युदात्तश्च  3|1|3 ङ्याप्प्रातिपदिकात्  4|1|1 तद्धिताः  4|1|76 प्राग्वहतेष्ठक्  4|4|1 समर्थानां प्रथमाद्वा  4|1|82
सम्पूर्णसूत्रम्
"तेन संस्कृतम्" (इति) कुलत्थ-कोपधात् अण्
सूत्रार्थः
"संस्कृतम्" अस्मिन् अर्थे तृतीयासमर्थात् कुलत्थशब्दात् तथा ककारोपधशब्दात् अण्-प्रत्ययः भवति ।
"संस्कृतम्" अस्मिन् अर्थे प्राग्वहतेष्ठक् 4|4|1 इत्यनेन सर्वेभ्यः प्रातिपदिकेभ्यः औत्सर्गिकरूपेण ठक्-प्रत्यये प्राप्ते कुलत्थशब्दात् तथा ककारोपधेभ्यः शब्देभ्यः अपवादत्वेन अण्-प्रत्ययः भवति । यथा -

1. कुलत्थेन संस्कृतम् कौलत्थम् ।
2. (ककारोपधस्य उदाहरणम् -) तित्तिडिकेन संस्कृतम् तैत्तिडिकम् ।
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
कुलत्थशब्दात् ककारोपधात् शब्दाच् च प्रातिपदिकादण् प्रत्ययो ह्बवति संस्कृतम् इत्येतस्मिन् विषये। ठको ऽपवादः। कुलत्थैः संस्कृतम् कौलत्थम्। ककारोपधात् तैत्तिडीकम्। दार्दभकम्।
Text Unavailable. Please use feedback link below to provide the text if you have.
कुले तिष्ठति कुलत्थः, अस्मादेव निपातनात्सकारस्य तकारः । केचित्पुनः सकारमेवाधीयते ॥
सिद्धान्तकौमुदी
ठकोऽपवादः । कुलत्थैः संस्कृतं कौलत्थम् । तैत्तिडीकम् ॥
कुलत्थकोपधादण् - कुलत्थकोपधादण् ।संस्कृतमित्यर्थे तृतीयान्ता॑दिति शेषः । तैन्तिणीकमिति । तिन्तिणीकेन संस्कृतमित्यर्थः ।
Text Unavailable. Please use feedback link below to provide the text if you have.
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
Text Unavailable. Please use feedback link below to provide the text if you have.