Page loading... Please wait.
4|4|39 - पदोत्तरपदं गृह्णाति
॥ तस्मै पाणिनये नमः ॥
4|4|39
SK 1589
पदोत्तरपदं गृह्णाति   🔊
सूत्रच्छेदः
पद-उत्तरपदम् (द्वितीयैकवचनम्) , गृह्णाति क्रियापदम्
अनुवृत्तिः
तत्  4|4|28 (द्वितीयैकवचनम्)
अधिकारः
प्रत्ययः  3|1|1 परश्च  3|1|2 आद्युदात्तश्च  3|1|3 ङ्याप्प्रातिपदिकात्  4|1|1 तद्धिताः  4|1|76 प्राग्वहतेष्ठक्  4|4|1 समर्थानां प्रथमाद्वा  4|1|82
सम्पूर्णसूत्रम्
"तत् पदोत्तरपदं गृह्णाति" (इति) समर्थानां प्रथमात् परः ठक् प्रत्ययः
सूत्रार्थः
"पद" यस्य उत्तरपदम् अस्ति, तादृशात् द्वितीयासमर्थात् "गृह्णाति" अस्मिन् अर्थे ठक् प्रत्ययः भवति ।
यस्य शब्दस्य उत्तरपदं "पद" इति अस्ति, तस्मात् द्वितीयासमर्थात् "गृह्णाति" (= स्वीकरोति) अस्मिन् अर्थे ठक्-प्रत्ययः भवति । यथा -
1. पूर्वपदं गृह्णाति तत् पौर्वपदिकम् सूत्रम् ।
2. उत्तरपदं गृह्णाति सः औत्तरपदिकः सिद्धान्तः ।

एतयोः उदाहरणयोः "पूर्वपद" तथा "उत्तरपद" एतौ शब्दौ पदस्य विभागद्वयं निर्दिशतः ।
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
पदशब्दः उत्तरपदं यस्य तस्मात् पदोत्तरपदशब्दात् तदिति द्वितीयासमर्थाद् गृह्णाति इत्येतस्मिन्नर्थे ठक् प्रत्ययो भवति। पूर्वपदं गृह्णाति पौर्वपदिकः। औत्तरपदिकः। पदानतातिति न उक्तं, बहुच्पूर्वान् मा भूतिति।
पदग्रहणेन स्वरूपमेव गृह्रते, न सुप्तिङन्तं पदम्। अत एवाह-- `पदशब्द उत्तरपदं यस्य` इति। एतच्च द्वितीयायां लौकिकरवाक्यप्रदर्शनार्थत्वाद्द्वितीयानिर्देशाल्लभ्यते। पदोत्तरपदं गृह्णातीत्येतल्लौकिकं वाक्यम्। अस्य प्रदर्शनेनैतत् सूचितम्-- लौकिकस्य हि पदस्य ग्रहणम्, न पारिभाषिकस्येति।अथ पदान्तादित्येव कस्मान्नोक्तम्? इत्याह-- `पदान्तादिति नोक्तम्` इत्यादि। गतार्थम्। पदमेवोत्तरपदं यस्य तस्माद्यथा स्यात्। इह तु श्लोकपादपदं गृह्णातीति भवतीति केचित्॥
पदग्रहणे स्वरूपं गृह्यते, न सुप्तिङ्न्तमुतरपदस्य पदत्वाव्यभिचाराद्, अत एवाह---पदशब्द उतरपदं यस्येति ॥
सिद्धान्तकौमुदी
पूर्वपदं गृह्णाति पौर्वपदिकः । औत्तरपदिकः ॥
पदोत्तरपदं गृह्णाति - पदोत्तरपदम् । पदशब्द उत्तरपदं यस्य तस्माद्द्वितीयान्ताद्गृह्णातीत्यर्थे ठक्स्यादित्यर्थः ।
Text Unavailable. Please use feedback link below to provide the text if you have.
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
Text Unavailable. Please use feedback link below to provide the text if you have.