Page loading... Please wait.
4|4|29 - परिमुखं च
॥ तस्मै पाणिनये नमः ॥
4|4|29
SK 1579
परिमुखं च   🔊
सूत्रच्छेदः
परिमुखम् (द्वितीयैकवचनम्) , च (अव्ययम्)
अनुवृत्तिः
वर्तते  4|4|27 (क्रियापदम्) , तत्  4|4|28 (द्वितीयैकवचनम्)
अधिकारः
प्रत्ययः  3|1|1 परश्च  3|1|2 आद्युदात्तश्च  3|1|3 ङ्याप्प्रातिपदिकात्  4|1|1 तद्धिताः  4|1|76 प्राग्वहतेष्ठक्  4|4|1 समर्थानां प्रथमाद्वा  4|1|82
सम्पूर्णसूत्रम्
"तत् परिमुखम् वर्तते" (इति) समर्थानाम् प्रथमात् ठक्
सूत्रार्थः
"परिमुखम् वर्तते" इत्यस्मिन् अर्थे द्वितीयासमर्थात् "परिमुख"शब्दात् ठक् प्रत्ययः भवति ।
"परिमुखम्" इति अव्ययम् । यत्किमपि मुखस्य पुरतः / अग्रे नास्ति परन्तु अन्यत्र अस्ति (यथा - पार्श्वे अस्ति / दक्षिणे अस्ति / वामे अस्ति) तस्य निर्देशं कर्तुम् "परिमुखम्" इत्यस्य प्रयोगः क्रियते । अस्मात् शब्दात् "वर्तते" अस्मिन् अर्थे ठक् प्रत्ययः भवति । परिमुख + ठक् → पारिमुखिक । परिमुखम् वर्तते सः पारिमुखिकः । यथा, स्वामिनः मुखं वर्जयित्वा अन्यत्र वर्तते सः सेवकः "पारिमुखिकः" ।

ज्ञातव्यम् -
1. "परिमुखम्" इति अव्ययम् नित्यं द्वितीयैकवचने एव प्रयुज्यते, अतः अत्र द्वितीयायाः सामर्थ्यम् अस्ति ।
2. अस्मिन् सूत्रे "च" इति निर्देशः कृतः अस्ति । अस्य कारणम् काशिकाकारः "अनुक्तसमुच्चयार्थम्" इति ददाति । इत्युक्ते, शिष्टप्रयोगम् अनुसृत्य अन्येऽपि शब्दाः वर्तमानसूत्रेण ठक्-प्रत्ययं स्वीकर्तुम् अर्हन्ति । यथा - परिपार्श्वम् वर्तते सः पारिपार्श्विकः ।
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
परिमुखशब्दाद् द्वितीयासमर्थाद् वर्तते इत्येअस्मिन्नर्थे ठक् प्रत्ययो भवति। परिमुखं वर्तते पारिमुखिकः। चकारो ऽनुक्तसमुच्चयार्थः। पारिपार्श्विकः।
`पञ्चम्ययाङ्परिभिः` 2|3|10 इति पञ्चमी। `अपपरिबहिररञ्चवः पञ्चम्या` 2|1|11 इत्यव्ययीभावसमासः, ततष्ठक्। स्वाभिमुखं वर्जयित्वा यः सेवको वत्र्तते स पारिमुखिकः। सर्वतोभावे वा परिः, तस्य `कुगतिप्रादयः` 2|2|18 इति प्रादिसमासः। यतो यतः स्वामिनो मुखं वत्र्तते ततस्ततो यः सेवको वत्र्तते स पारिमुखिकः॥
पारिमुखिक इति । परिरिह वर्तते, तस्य च ठपपरी वर्जनेऽ इति कर्मप्रवचनीयसंज्ञा, ठ्पञ्चम्यपाङ्परिभिःऽ इति पञ्चमी, ठपपरिबहिरञ्चवःऽ इत्यव्ययीभावः, अनेन ठक् । स्वामिनो मुकं वर्जयित्वा यः सेवको वर्तते स पारिमुखिकः । सर्वतो भावे वा परिशब्दः, परितो मुखम्, प्रादिसमासः, यतो यतः स्वमिनो मुखं ततस्ततो वर्तते इत्यर्थः । एवं पारिपार्श्विकः ॥
सिद्धान्तकौमुदी
परिमुखं वर्तते पारिमुखिकः । चात्पारिपार्श्विकः ॥
परिमुखं च - परिमुखं च । अस्माद्द्वितीयान्ताद्वर्तते । इत्यर्थे ठगित्यर्थः । चादिति । चकारादनुक्तसमुच्चयार्थात् परिपार्ामित्यस्मादपि ठकि पारिपार्िआकः ।
परिमुखं च - परिमुखमिति ।अपपरी वर्जने॑इति परेः कर्मप्रवचनीयसंज्ञायांपञ्चम्यपाङ्परिभि॑रिति पञ्चमी ।अपपरिबहिरञ्चवः पञ्चम्या॑इत्यव्ययीभावः । ततष्ठक् । स्वामिनो मुखं वर्जयित्वा यः सेवको वर्तते स — -॒पारिमुखिकः॑ । यदा तु सर्वतोभावे परिशब्दः, प्रादिसमासश्च, तदा यतो यतः स्वामिनो मुखं ततस्ततो यो वर्तते स एवमुच्यते । एवं पारिपार्िआकोऽप्यर्थद्वये बोध्यः ।
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
Text Unavailable. Please use feedback link below to provide the text if you have.